४-५. दीघजाणुसुत्तादिवण्णना

५४-५५. चतुत्थे (दी. नि. अट्ठ. ३.२६५) एकेन भोगे भुञ्जेय्याति एकेन कोट्ठासेन भोगे भुञ्जेय्य, विनिभुञ्जेय्य वाति अत्थो. द्वीहि कम्मन्ति द्वीहि कोट्ठासेहि कसिवणिज्जादिकम्मं पयोजेय्य. निधापेय्याति चतुत्थकोट्ठासं निधेत्वा ठपेय्य, निदहित्वा भूमिगतं कत्वा ठपेय्याति अत्थो. आपदासु भविस्सतीति कुलानञ्हि न सब्बकालं एकसदिसं वत्तति, कदाचि राजअग्गिचोरदुब्भिक्खादिवसेन आपदा उप्पज्जन्ति, तस्मा एवं आपदासु उप्पन्नासु भविस्सतीति एकं कोट्ठासं निधापेय्याति वुत्तं. इमेसु पन चतूसु कोट्ठासेसु कतरं कोट्ठासं गहेत्वा कुसलं कातब्बन्ति? ‘‘भोगे भुञ्जेय्या’’ति वुत्तकोट्ठासं. ततो गण्हित्वा हि भिक्खूनम्पि कपणद्धिकानम्पि दानं दातब्बं, पेसकारन्हापितादीनम्पि वेतनं दातब्बं. समणब्राह्मणकपणद्धिकादीनं दानवसेन चेव, अधिवत्थदेवतादीनं पेतबलिवसेन, न्हापितादीनं वेतनवसेन च विनियोगोपि उपयोगो एव.

अपेन्ति गच्छन्ति, अपेन्ता वा एतेहीति अपाया, अपाया एव मुखानि द्वारानीति अपायमुखानि. विनासद्वारानीति एत्थापि एसेव नयो. पञ्चमे नत्थि वत्तब्बं.

दीघजाणुसुत्तादिवण्णना निट्ठिता.