८. दुतियबलसुत्तवण्णना

२८. अट्ठमे खीणासवस्स सब्बेसं सङ्खारानं अनिच्चता असम्मोहवसेन किच्चतो मग्गपञ्ञाय सुप्पटिविद्धा, विपस्सनाय आरम्मणकरणवसेनपीति दस्सेन्तो आह ‘‘सहविपस्सनाय मग्गपञ्ञाया’’ति. इमे कामाति द्वेपि कामे वदति. किलेसवसेन उप्पज्जमानो हि परिळाहो वत्थुकामसन्निस्सयो वत्थुकामविसयो वाति द्वेपि सपरिळाहट्ठेन अङ्गारकासु वियाति ‘‘अङ्गारकासूपमा’’ति वुत्ता. अन्तो वुच्चति लामकट्ठेन तण्हा, ब्यन्तं विगतन्तं भूतन्ति ब्यन्तिभूतन्ति आह ‘‘विगतन्तभूत’’न्ति, नित्तण्हन्ति अत्थो.

दुतियबलसुत्तवण्णना निट्ठिता.