१. मेत्तासुत्तवण्णना

१. अट्ठकनिपातस्स पठमे वड्ढितायाति भावनापारिपूरिवसेन परिब्रूहिताय. पुनप्पुनं कतायाति भावनाय बहुलीकरणेन अपरापरं पवत्तिताय. युत्तयानसदिसकतायाति यथा युत्तआजञ्ञयानं छेकेन सारथिना अधिट्ठितं यथारुचि पवत्तति, एवं यथारुचि पवत्तारहतं गमिताय. पतिट्ठानट्ठेनाति सब्बसम्पत्तिअधिट्ठानट्ठेन. पच्चुपट्ठितायाति भावनाबहुलीकारेहि पति पति उपट्ठिताय अविजहिताय. समन्ततो चितायाति सब्बभागेन भावनानुरूपं चयं गमिताय. तेनाह ‘‘उपचिताया’’ति. सुट्ठु समारद्धायाति अतिविय सम्मदेव निब्बत्तिगताय.

यो च मेत्तं भावयतीतिआदीसु यो कोचि गहट्ठो वा पब्बजितो वा. मेत्तन्ति मेत्ताझानं.

अप्पमाणन्ति भावनावसेन आरम्मणवसेन च अप्पमाणं. असुभभावनादयो विय हि आरम्मणे एकदेसग्गहणं अकत्वा अनवसेसफरणवसेन अनोधिसो फरणवसेन च, अप्पमाणारम्मणताय पगुणभावनावसेन च अप्पमाणं. तनू संयोजना होन्तीति मेत्तं पादकं कत्वा सम्मसित्वा हेट्ठिमे अरियमग्गे अधिगच्छन्तस्स सुखेनेव पटिघसंयोजनादयो पहीयमाना तनू होन्तीति एवमेत्थ अत्थो दट्ठब्बो.

एवं किलेसप्पहानञ्च निब्बानाधिगमञ्च मेत्ताभावनाय सिखाप्पत्तमानिसंसं दस्सेत्वा इदानि अञ्ञेपि आनिसंसे दस्सेतुं ‘‘एकम्पि चे’’तिआदि वुत्तं. तत्थ अदुट्ठचित्तोति मेत्ताबलेन सुट्ठु विक्खम्भितब्यापादताय ब्यापादेन अदूसितचित्तो. मेत्तायतीति हितफरणवसेन मेत्तं करोति. कुसलीति अतिसयेन कुसलवा महापुञ्ञो, पटिघादिअनत्थविगमेन खेमी. सब्बे च पाणेति च-सद्दो ब्यतिरेको. मनसानुकम्पीति चित्तेन अनुकम्पन्तो. इदं वुत्तं होति – एकसत्तविसयापि ताव मेत्ता महाकुसलरासि, सब्बे पन पाणे अत्तनो पुत्तं विय हितफरणेन मनसा अनुकम्पन्तो पहुकं पहुं अनप्पकं अपरियन्तं चतुसट्ठिमहाकप्पेपि अत्तनो विपाकप्पबन्धं पवत्तेतुं समत्थं उळारं पुञ्ञं अरियो परिसुद्धचित्तो पुग्गलोव करोति निप्फादेतीति. सत्तभरितन्ति सत्तेहि अविरळं, आकिण्णमनुस्सन्ति अत्थो.

सङ्गहवत्थूनीति (सं. नि. टी. १.१.१२०) लोकस्स सङ्गण्हनकारणानि. निप्फन्नसस्सतो नव भागे कस्सकस्स दत्वा रञ्ञं एकभागग्गहणं दसमभागग्गहणं. एवं कस्सका हट्ठतुट्ठा सस्सानि सम्पादेन्तीति आह ‘‘सस्ससम्पादने मेधाविताति अत्थो’’ति. ततो ओरभागे किर छभागग्गहणं जातं. छमासिकन्ति छन्नं छन्नं मासानं पहोनकं. पासेतीति पासगते विय करोति. वाचाय पियं वाचापियं, तस्स कम्मं वाचापेय्यं. सब्बसो रट्ठस्स इद्धादिभावतो खेमं. निरब्बुदं चोरियाभावतो. इद्धञ्हि रट्ठं अचोरियं. ‘‘निरग्गळ’’न्ति वुच्चति अपारुतघरभावतो.

उद्धंमूलकं कत्वाति उम्मूलं कत्वा. द्वीहि परियञ्ञेहीति महायञ्ञस्स पुब्बभागे पच्छा च पवत्तेतब्बेहि द्वीहि परिवारयञ्ञेहि. सत्त…पे… भीसनस्साति सत्तनवुताधिकानं पञ्चन्नं पसुसतानं मारणेन भेरवस्स पापभीरुकानं भयावहस्स. तथा हि वदन्ति –

‘‘छसतानि नियुज्जन्ति, पसूनं मज्झिमे हनि;

अस्समेधस्स यञ्ञस्स, ऊनानि पसूहि तीही’’ति. (सं. नि. टी. १.१.१२०; अ. नि. टी. २.४.३९);

सम्मन्ति युगच्छिद्दे पक्खिपितब्बदण्डकं. पासन्तीति खिपन्ति. संहारिमेहीति सकटेहि वहितब्बेहि. पुब्बे किर एको राजा सम्मापासं यजन्तो सरस्सतिनदितीरे पथविया विवरे दिन्ने निमुग्गोयेव अहोसि. अन्धबालब्राह्मणा गतानुगतिगता ‘‘अयं तस्स सग्गगमनमग्गो’’ति सञ्ञाय तत्थ सम्मापासं यञ्ञं पट्ठपेन्ति. तेन वुत्तं ‘‘निमुग्गोकासतो पभुती’’ति. अयूपो अप्पकदिवसो यागो, सयूपो बहुदिवसं साधेय्यो सत्रयागो. मन्तपदाभिसङ्खतानं सप्पिमधूनं ‘‘वाज’’मिति समञ्ञा. हिरञ्ञसुवण्णगोमहिंसादि सत्तरसकदक्खिणस्स. सारगब्भकोट्ठागारादीसु नत्थि एत्थ अग्गळाति निरग्गळो. तत्थ किर यञ्ञे अत्तनो सापतेय्यं अनवसेसतो अनिगूहित्वा निय्यातीयति.

चन्दप्पभाति (इतिवु. अट्ठ. २७) चन्दिमस्सेव पभाय. तारागणाव सब्बेति यथा सब्बेपि तारागणा चन्दिमसोभाय सोळसिम्पि कलं नाग्घन्ति, एवं ते अस्समेधादयो यञ्ञा मेत्तस्स चित्तस्स वुत्तलक्खणेन सुभावितस्स सोळसिम्पि कलं नानुभवन्ति, न पापुणन्ति, नाग्घन्तीति अत्थो.

इदानि अपरेपि दिट्ठधम्मिकसम्परायिके मेत्ताभावनाय आनिसंसे दस्सेतुं ‘‘यो न हन्ती’’तिआदि वुत्तं. तत्थ योति मेत्ताब्रह्मविहारभावनानुयुत्तो पुग्गलो. न हन्तीति तेनेव मेत्ताभावनानुभावेन दूरविक्खम्भितब्यापादताय न कञ्चि सत्तं हिंसति, लेड्डुदण्डादीहि न विबाधति वा. न घातेतीति परं समादपेत्वा न सत्ते मारापेति न विबाधापेति च. न जिनातीति सारम्भविग्गाहिककथादिवसेन न कञ्चि जिनाति सारम्भस्सेव अभावतो, जानिकरणवसेन वा अट्टकरणादिना न कञ्चि जिनाति. तेनाह ‘‘न अत्तना परस्स जानिं करोती’’ति. न जापयेति परेहि पयोजेत्वा परेसम्पि धनजानिं न कारापेय्य. तेनाह ‘‘न परेन परस्स जानिं कारेती’’ति. मेत्ताय वा अंसो अविहेठनट्ठेन अवयवभूतोति मेत्तंसो.

मेत्तासुत्तवण्णना निट्ठिता.