१६. एकधम्मपाळि

(१६) ३. एकधम्मपाळि-ततियवग्गवण्णना

३०८. ततियस्स पठमे अयाथावदिट्ठिकोति अनिच्चादिभावेसु धम्मेसु निच्चातिआदिना उप्पन्नदिट्ठिको. तेनाह – ‘‘तायेव मिच्छादिट्ठिया विपरीतदस्सनो’’ति सद्धम्माति एत्थ सन्तो पसत्थो सुन्दरो धम्मो, यो मनुस्सधम्मोतिपि वुच्चति. ततो हि मिच्छादिट्ठिको परं वुट्ठापेय्य, न अरियधम्मतो. तेनाह – ‘‘दसकुसलकम्मपथधम्मतो’’ति. एवरूपाति इमिना पाथिकपुत्तादिके सङ्गण्हाति.

३०९. सब्बञ्ञुबोधिसत्तोति सब्बञ्ञुभागी बोधिसत्तो. आदि-सद्देन पूरितपारमिका पच्चेकबोधिसत्ता एकच्चसावकबोधिसत्ता च सङ्गय्हन्ति.

३१०. परमाति महासावज्जभावेन परमा, उक्कंसगताति अत्थो. तेसन्ति आनन्तरियकम्मानं. परिच्छेदोति विपाकवसेन परियोसानं. वट्टस्स मूलं, ततो तंसमङ्गीपुग्गलो वट्टस्स खाणूति वुच्चति. तेनाह – ‘‘ताया’’तिआदि. तञ्चे गाहं न विस्सज्जेति, तस्स पुनपि तब्भावावहत्ता वुत्तं – ‘‘भवतो वुट्ठानं नत्थी’’ति, न पन सब्बसो वुट्ठानस्स अभावतो. यादिसे हि पच्चये पटिच्च अयं तं दस्सनं ओक्कन्तो पुन कदाचि तप्पटिपक्खे पच्चये पटिच्च ततो सीसुक्खिपनमस्स न होतीति न वत्तब्बं. अकुसलञ्हि नामेतं अबलं दुब्बलं, न कुसलं विय महाबलं. अञ्ञथा सम्मत्तनियामो विय मिच्छत्तनियामोपि अच्चन्तिको सिया, न च मिच्छत्तनियामो अच्चन्तिको. तेनेव पपञ्चसूदनियं (म. नि. अट्ठ. २.१००) –

‘‘किं पनेस एकस्मिंयेव अत्तभावे नियतो होति, उदाहु अञ्ञस्मिम्पीति? एकस्मिंयेव नियतो, आसेवनवसेन भवन्तरेपि तं दिट्ठिं रोचेति एवा’’ति –

वुत्तं. ततोयेव च सुमङ्गलविलासिनियम्पि (दी. नि. अट्ठ. १.१७०-१७२) वुत्तं –

‘‘ये वा पन तेसं लद्धिं गहेत्वा रत्तिट्ठाने दिवाट्ठाने निसिन्ना सज्झायन्ति वीमंसन्ति, तेसं ‘करोतो न करीयति पापं, नत्थि हेतु, नत्थि पच्चयो, मतो उच्छिज्जती’ति तस्मिं आरम्मणे मिच्छासति सन्तिट्ठति, चित्तं एकग्गं होति, जवनानि जवन्ति. पठमजवने सतेकिच्छा होन्ति, तथा दुतियादीसु. सत्तमे बुद्धानम्पि अतेकिच्छा अनिवत्तिनो अरिट्ठकण्टकसदिसा, तत्थ कोचि एकं दस्सनं ओक्कमति, कोचि द्वे, कोचि तीणिपि, एकस्मिं ओक्कन्तेपि द्वीसु तीसु ओक्कन्तेसुपि नियतमिच्छादिट्ठिकोव होति. पत्तो सग्गमग्गावरणञ्चेव मोक्खमग्गावरणञ्च, अभब्बो तस्सत्तभावस्स अनन्तरं सग्गम्पि गन्तुं, पगेव मोक्खं, वट्टखाणु नामेस सत्तो पथविगोपको, येभुय्येन एवरूपस्स भवतो वुट्ठानं नत्थी’’ति.

पिट्ठिचक्कवाळेति झायमानचक्कवाळस्स परतो एकस्मिं ओकासे. यं झायमानानं अज्झायमानानञ्च चक्कवाळानमन्तरं, यत्थ लोकन्तरिकनिरयसमञ्ञा, तादिसे एकस्मिं ओकासे. पच्चतियेवाति चक्कवाळे झायमाने अज्झायमानेपि अत्तनो कम्मबलेन पच्चतियेव.

३११. चतुत्थे ‘‘मा खली’’ति वचनं उपादाय एवंलद्धनामोति तं किर सकद्दमाय भूमिया तेलघटं गहेत्वा गच्छन्तं, ‘‘तात, मा खली’’ति सामिको आह. सो पमादेन खलित्वा पतित्वा सामिकस्स भयेन पलायितुं आरद्धो. सामिको उपधावित्वा साटककण्णे अग्गहेसि. सो साटकं छड्डेत्वा अचेलको हुत्वा पलातो पण्णेन वा तिणेन वा पटिच्छादेतुम्पि अजानन्तो जातरूपेनेव एकं गामं पाविसि. मनुस्सा तं दिस्वा ‘‘अयं समणो अरहा अप्पिच्छो, नत्थि इमिना सदिसो’’ति पूवभत्तादीनि गहेत्वा उपसङ्कमित्वा ‘‘मय्हं साटकं अनिवत्थभावेन इदं उप्पन्न’’न्ति ततो पट्ठाय साटकं लभित्वापि न निवासेसि, तदेव च पब्बज्जं अग्गहेसि. तस्स सन्तिके अञ्ञेपि अञ्ञेपीति पञ्चसता मनुस्सा पब्बजिंसु. तं सन्धायेतं वुत्तं – ‘‘मा खलीति वचनं उपादाय एवंलद्धनामो तित्थकरो’’ति.

समागतट्ठानेति द्विन्नं नदीनं उदकप्पवाहस्स सन्निपातट्ठाने. द्विन्नं उदकानन्ति द्विन्नं उदकप्पवाहानं. यथावुत्तट्ठाने मच्छग्गहणत्थं खिपितब्बतो खिप्पं, कुमिनं, तदेव इध खिप्पन्ति वुत्तं. तेनाह – ‘‘कुमिन’’न्ति. उच्छूहीति उदकउच्छूहि. तुच्छपुरिसो अरियधम्माभावतो. झानमत्तम्पि हि तस्स नत्थेव, कुतो अरियमग्गो. मनुस्सखिप्पं मञ्ञेति मनुस्सा पतित्वा ब्यसनप्पत्तिअत्थं ओट्टितं कुमिनं विय. तेनाह – ‘‘महाजनस्सा’’तिआदि.

३१२. पञ्चमादीसु बाहिरकसासनन्ति अविसेसेन वुत्तं – तस्स सब्बस्सपि अनिय्यानिकत्ता सत्थुपटिञ्ञस्सपि असब्बञ्ञुभावतो. तेनाह – ‘‘तत्थ ही’’तिआदि. गणोति सावकगणो. तथाभावायाति आचरियेन वुत्ताकारताय समङ्गिभावत्थं. जङ्घसतन्ति बहू अनेके सत्ते. समकमेव अकुसलं पापुणातीति तेसं सब्बेसं एकज्झं समादपनेपि तेसं अकुसलेन समकमेव अकुसलं पापुणाति एकज्झं बहूनं समादपनेपि तथा उस्सहनस्स बलवभावतो. विसुं विसुं समादपने वत्तब्बमेव नत्थि. यथा हि धम्मचरियायं समकमेवाति वत्तब्बा कल्याणमित्तता, एवं अधम्मचरियायं अकल्याणमित्तताति.

३१३. सुट्ठु अक्खातेति एकन्ततो निय्यानिकभावेन अक्खाते. सत्था च सब्बञ्ञू होतीति असब्बञ्ञुनो निय्यानिकभावेन कथेतुं असक्कुणेय्यत्ता. धम्मो च स्वाक्खातो सम्मासम्बुद्धप्पवेदितत्ता. गणो च सुप्पटिपन्नो सत्थारा सुविनीतत्ता. समादपको हीतिआदि सुप्पटिपत्तिया निदस्सनं दट्ठब्बं.

३१४. पमाणं जानितब्बन्ति ‘‘अयं एत्तकेन यापेति, इमस्स एत्तकं दातुं युत्त’’न्ति एवं पमाणं जानितब्बं. अतिरेके…पे… निब्बानसम्पत्ति वा नत्थि दुरक्खातत्ता धम्मस्स. तस्साति पटिग्गाहकस्स. अप्पिच्छपटिपदा नाम नत्थि दुरक्खाते धम्मविनयेति अधिप्पायो.

३१५. दायकस्स वसो नाम उळारुळारताभेदो अज्झासयो. देय्यधम्मस्स पन थोकबहुताव देय्यधम्मस्स वसो नाम. अत्तनो थामोति यापनप्पमाणं. यदि हीतिआदि ‘‘कथ’’न्तिआदिना सङ्खेपतो वुत्तस्स अत्थस्स विवरणं. अनुप्पन्नस्साति अनुप्पन्नो अस्स पुग्गलस्स. चक्खुभूतो होतीति महाजनस्स चक्खु विय होति. सासनं चिरट्ठितितं करोतीति अनुप्पन्नलाभुप्पादनेन महाजनस्स पसादुप्पादनेन च चिरट्ठितिकं करोति.

कुटुम्बरियविहारेति कुटुम्बरियगामसन्निस्सितविहारे. भुञ्जनत्थायाति तस्मिंयेव गेहे निसीदित्वा भुञ्जनत्थाय. गहेत्वा गमनत्थायाति गेहतो बहि गहेत्वा गमनत्थाय. धुरभत्तानीति निच्चभत्तानि. चूळुपट्ठाकन्ति वेय्यावच्चकरं. वीमंसित्वाति यथा उद्दिस्स कतं न होति, एवं वीमंसित्वा. महाजनो अप्पिच्छो भवितुं मञ्ञतीति महाजनो सयं अप्पिच्छो भवितुं मञ्ञति दिट्ठानुगतिं आपज्जनेन. महाजनस्साति बहुजनस्स. अवत्थरित्वाति वित्थारिकं कत्वा.

३१६. पञ्चातपतप्पनं चतूसु पस्सेसु अग्गिसन्तापस्स उपरि सूरियसन्तापस्स च तप्पनं, तञ्च खो गिम्हकाले. छिन्नप्पपातपब्बतसिखरतो पतनं मरुप्पपातपतनं. पुब्बण्हादीसु आदिच्चाभिमुखावट्टनं आदिच्चानुपरिवत्तनं.

३१७. अयम्पीति स्वाक्खाते धम्मविनये कुसीतोपि. सामञ्ञन्ति तपचरणं. दुप्परामट्ठन्ति मिच्छाचरितं संकिलिट्ठं. निरयायुपकड्ढतीति निरयदुक्खाय नं कड्ढति.

३१८. वुत्तप्पकारेति पञ्चातपतप्पनादिके वुत्तप्पकारे.

३१९. एवन्ति वुत्तप्पकाराय चित्तप्पसादव्हयसुप्पटिपत्तिया. तेन समणधम्मकरणसुखञ्च सङ्गण्हाति.

३२०. नवकनिपातेति इमस्मिंयेव अङ्गुत्तरनिकाये वक्खमानं नवकनिपातं सन्धायाह. नव पुग्गलाति सत्तक्खत्तुपरमकोलंकोलादयो नव पुग्गला. सब्बत्थाति इमस्मिं सुत्ते वुत्तावसिट्ठेसु सब्बेसु सुत्तेसु.

ततियवग्गवण्णना निट्ठिता.