१०. नन्दकलिच्छविसुत्तं
१०२६. एकं समयं भगवा वेसालियं विहरति महावने कूटागारसालायं. अथ खो नन्दको लिच्छविमहामत्तो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नं खो नन्दकं लिच्छविमहामत्तं भगवा एतदवोच –
‘‘चतूहि खो, नन्दक, धम्मेहि समन्नागतो अरियसावको सोतापन्नो होति अविनिपातधम्मो नियतो सम्बोधिपरायणो. कतमेहि चतूहि? इध, नन्दक, अरियसावको बुद्धे अवेच्चप्पसादेन समन्नागतो होति – इतिपि सो भगवा…पे… सत्था देवमनुस्सानं बुद्धो भगवाति. धम्मे…पे… सङ्घे…पे… अरियकन्तेहि सीलेहि समन्नागतो होति अखण्डेहि…पे… समाधिसंवत्तनिकेहि. इमेहि खो, नन्दक, चतूहि धम्मेहि समन्नागतो अरियसावको सोतापन्नो होति अविनिपातधम्मो नियतो सम्बोधिपरायणो.
‘‘इमेहि च पन, नन्दक, चतूहि धम्मेहि समन्नागतो अरियसावको आयुना संयुत्तो होति दिब्बेनपि मानुसेनपि; वण्णेन संयुत्तो होति दिब्बेनपि मानुसेनपि; सुखेन संयुत्तो होति दिब्बेनपि मानुसेनपि; यसेन संयुत्तो होति दिब्बेनपि मानुसेनपि; आधिपतेय्येन संयुत्तो होति दिब्बेनपि मानुसेनपि. तं खो पनाहं, नन्दक, नाञ्ञस्स समणस्स वा ब्राह्मणस्स वा सुत्वा वदामि. अपि च यदेव मया सामं ञातं सामं दिट्ठं सामं विदितं, तदेवाहं वदामी’’ति.
एवं वुत्ते अञ्ञतरो पुरिसो नन्दकं लिच्छविमहामत्तं एतदवोच – ‘‘नहानकालो, भन्ते’’ति. ‘‘अलं दानि, भणे, एतेन बाहिरेन नहानेन. अलमिदं अज्झत्तं नहानं भविस्सति, यदिदं – भगवति पसादो’’ति. दसमं.
सरणानिवग्गो ततियो.
तस्सुद्दानं –
महानामेन द्वे वुत्ता, गोधा च सरणा दुवे;
दुवे अनाथपिण्डिका, दुवे वेरभयेन च;
लिच्छवी दसमो वुत्तो, वग्गो तेन पवुच्चतीति.