३. अनिस्सुकीसुत्तं

२९६. ‘‘पञ्चहि, अनुरुद्ध, धम्मेहि समन्नागतो मातुगामो कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जति. कतमेहि पञ्चहि? सद्धो च होति, हिरिमा च होति, ओत्तप्पी च होति, अनिस्सुकी च होति, पञ्ञवा च होति – इमेहि खो, अनुरुद्ध, पञ्चहि धम्मेहि समन्नागतो मातुगामो कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जती’’ति. ततियं.