१३. मुट्ठस्सतिसुत्तं
२९२. ‘‘पञ्चहि, अनुरुद्ध, धम्मेहि समन्नागतो मातुगामो…पे… निरयं उपपज्जति. कतमेहि पञ्चहि? अस्सद्धो च होति, अहिरिको च होति, अनोत्तप्पी च होति, मुट्ठस्सति च होति, दुप्पञ्ञो च होति – इमेहि खो, अनुरुद्ध, पञ्चहि धम्मेहि समन्नागतो मातुगामो…पे… निरयं उपपज्जती’’ति. तेरसमं.