७. समुद्दसुत्तं

८०. सावत्थियं विहरति…पे… ‘‘सेय्यथापि, भिक्खवे, पुरिसो महासमुद्दतो द्वे वा तीणि वा उदकफुसितानि उद्धरेय्य. तं किं मञ्ञथ, भिक्खवे, कतमं नु खो बहुतरं, यानि वा द्वे वा तीणि वा उदकफुसितानि उब्भतानि यं वा महासमुद्दे उदक’’न्ति?

‘‘एतदेव, भन्ते, बहुतरं, यदिदं महासमुद्दे उदकं; अप्पमत्तकानि द्वे वा तीणि वा उदकफुसितानि उब्भतानि. नेव सतिमं कलं उपेन्ति न सहस्सिमं कलं उपेन्ति न सतसहस्सिमं कलं उपेन्ति महासमुद्दे उदकं उपनिधाय द्वे वा तीणि वा उदकफुसितानि उब्भतानी’’ति. ‘‘एवमेव खो, भिक्खवे…पे… धम्मचक्खुपटिलाभो’’ति. सत्तमं.