१०. उप्पज्जन्तिसुत्तं
६०. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. अथ खो आयस्मा आनन्दो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा आनन्दो भगवन्तं एतदवोच –
‘‘यावकीवञ्च, भन्ते, तथागता लोके नुप्पज्जन्ति अरहन्तो सम्मासम्बुद्धा ताव अञ्ञतित्थिया परिब्बाजका सक्कता होन्ति गरुकता मानिता पूजिता अपचिता लाभिनो चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारानं. यतो च खो, भन्ते, तथागता लोके उप्पज्जन्ति अरहन्तो सम्मासम्बुद्धा अथ अञ्ञतित्थिया परिब्बाजका असक्कता होन्ति अगरुकता अमानिता अपूजिता अनपचिता न लाभिनो चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारानं. भगवा येव [भगवा चेव (स्या.)] दानि, भन्ते, सक्कतो होति गरुकतो मानितो पूजितो अपचितो लाभी चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारानं, भिक्खुसङ्घो चा’’ति.
‘‘एवमेतं, आनन्द, यावकीवञ्च, आनन्द, तथागता लोके नुप्पज्जन्ति अरहन्तो सम्मासम्बुद्धा ताव अञ्ञतित्थिया परिब्बाजका सक्कता होन्ति गरुकता मानिता पूजिता अपचिता लाभिनो चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारानं. यतो च खो, आनन्द, तथागता लोके उप्पज्जन्ति अरहन्तो सम्मासम्बुद्धा अथ अञ्ञतित्थिया परिब्बाजका असक्कता होन्ति अगरुकता अमानिता अपूजिता अनपचिता न लाभिनो चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारानं. तथागतोव [तथागतो चेव (स्या.)] दानि सक्कतो होति गरुकतो मानितो पूजितो अपचितो लाभी चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारानं, भिक्खुसङ्घो चा’’ति.
अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि –
‘‘ओभासति ताव सो किमि,
याव न उन्नमते [उग्गमति (सी.), उन्नमति (स्या.)] पभङ्करो;
(स) [( ) नत्थि सी. स्या. पोत्थकेसु] वेरोचनम्हि उग्गते,
हतप्पभो होति न चापि भासति.
‘‘एवं ओभासितमेव तक्किकानं [तित्थियानं (सी. स्या. पी.)],
याव सम्मासम्बुद्धा लोके नुप्पज्जन्ति;
न तक्किका सुज्झन्ति न चापि सावका,
दुद्दिट्ठी न दुक्खा पमुच्चरे’’ति. दसमं;
तस्सुद्दानं –
आयुजटिलवेक्खणा, तयो तित्थिया सुभूति;
गणिका उपाति नवमो, उप्पज्जन्ति च ते दसाति.
जच्चन्धवग्गो छट्ठो निट्ठितो.