२. सुमेधपत्थनाकथा

१. कप्पे च सतसहस्से, चतुरो च असङ्खिये;

अमरं नाम नगरं, दस्सनेय्यं मनोरमं.

२. दसहि सद्देहि अविवित्तं, अन्नपानसमायुतं;

हत्थिसद्दं अस्ससद्दं, भेरिसङ्खरथानि च;

खादथ पिवथ चेव, अन्नपानेन घोसितं.

३. नगरं सब्बङ्गसम्पन्नं, सब्बकम्ममुपागतं;

सत्तरतनसम्पन्नं, नानाजनसमाकुलं;

समिद्धं देवनगरंव, आवासं पुञ्ञकम्मिनं.

४. नगरे अमरवतिया, सुमेधो नाम ब्राह्मणो;

अनेककोटिसन्निचयो, पहूतधनधञ्ञवा.

५. अज्झायको मन्तधरो, तिण्णं वेदान पारगू;

लक्खणे इतिहासे च, सधम्मे पारमिं गतो.

६. रहोगतो निसीदित्वा, एवं चिन्तेसहं तदा;

‘‘दुक्खो पुनब्भवो नाम, सरीरस्स च भेदनं.

७. ‘‘जातिधम्मो जराधम्मो, ब्याधिधम्मो सहं [चहं (सी. स्या.)] तदा;

अजरं अमतं खेमं, परियेसिस्सामि निब्बुतिं.

८. ‘‘यंनूनिमं पूतिकायं, नानाकुणपपूरितं;

छड्डयित्वान गच्छेय्यं, अनपेक्खो अनत्थिको.

९. ‘‘अत्थि हेहिति सो मग्गो, न सो सक्का न हेतुये;

परियेसिस्सामि तं मग्गं, भवतो परिमुत्तिया.

१०. ‘‘यथापि दुक्खे विज्जन्ते, सुखं नामपि विज्जति;

एवं भवे विज्जमाने, विभवोपि इच्छितब्बको.

११. ‘‘यथापि उण्हे विज्जन्ते, अपरं विज्जति सीतलं;

एवं तिविधग्गि विज्जन्ते, निब्बानं इच्छितब्बकं.

१२. ‘‘यथापि पापे विज्जन्ते, कल्याणमपि विज्जति;

एवमेव जाति विज्जन्ते, अजातिपिच्छितब्बकं.

१३. ‘‘यथा गूथगतो पुरिसो, तळाकं दिस्वान पूरितं;

न गवेसति तं तळाकं, न दोसो तळाकस्स सो.

१४. ‘‘एवं किलेसमलधोव, विज्जन्ते अमतन्तळे;

न गवेसति तं तळाकं, न दोसो अमतन्तळे.

१५. ‘‘यथा अरीहि परिरुद्धो, विज्जन्ते गमनम्पथे;

न पलायति सो पुरिसो, न दोसो अञ्जसस्स सो.

१६. ‘‘एवं किलेसपरिरुद्धो, विज्जमाने सिवे पथे;

न गवेसति तं मग्गं, न दोसो सिवमञ्जसे.

१७. ‘‘यथापि ब्याधितो पुरिसो, विज्जमाने तिकिच्छके;

न तिकिच्छापेति तं ब्याधिं, न दोसो सो तिकिच्छके.

१८. ‘‘एवं किलेसब्याधीहि, दुक्खितो परिपीळितो;

न गवेसति तं आचरियं, न दोसो सो विनायके.

१९. ‘‘यथापि कुणपं पुरिसो, कण्ठे बन्धं जिगुच्छिय;

मोचयित्वान गच्छेय्य, सुखी सेरी सयंवसी.

२०. ‘‘तथेविमं पूतिकायं, नानाकुणपसञ्चयं;

छड्डयित्वान गच्छेय्यं, अनपेक्खो अनत्थिको.

२१. ‘‘यथा उच्चारट्ठानम्हि, करीसं नरनारियो;

छड्डयित्वान गच्छन्ति, अनपेक्खा अनत्थिका.

२२. ‘‘एवमेवाहं इमं कायं, नानाकुणपपूरितं;

छड्डयित्वान गच्छिस्सं, वच्चं कत्वा यथा कुटिं.

२३. ‘‘यथापि जज्जरं नावं, पलुग्गं उदगाहिनिं [उदकगाहिणिं (सी.), उदकगाहिनिं (स्या.)];

सामी छड्डेत्वा गच्छन्ति, अनपेक्खा अनत्थिका.

२४. ‘‘एवमेवाहं इमं कायं, नवच्छिद्दं धुवस्सवं;

छड्डयित्वान गच्छिस्सं, जिण्णनावंव सामिका.

२५. ‘‘यथापि पुरिसो चोरेहि, गच्छन्तो भण्डमादिय;

भण्डच्छेदभयं दिस्वा, छड्डयित्वान गच्छति.

२६. ‘‘एवमेव अयं कायो, महाचोरसमो विय;

पहायिमं गमिस्सामि, कुसलच्छेदना भया’’.

२७. एवाहं चिन्तयित्वान, नेककोटिसतं धनं;

नाथानाथानं दत्वान, हिमवन्तमुपागमिं.

२८. हिमवन्तस्साविदूरे, धम्मिको नाम पब्बतो;

अस्समो सुकतो मय्हं, पण्णसाला सुमापिता.

२९. चङ्कमं तत्थ मापेसिं, पञ्चदोसविवज्जितं;

अट्ठगुणसमूपेतं, अभिञ्ञाबलमाहरिं.

३०. साटकं पजहिं तत्थ, नवदोसमुपागतं;

वाकचीरं निवासेसिं, द्वादसगुणमुपागतं.

३१. अट्ठदोससमाकिण्णं, पजहिं पण्णसालकं;

उपागमिं रुक्खमूलं, गुणे दसहुपागतं.

३२. वापितं रोपितं धञ्ञं, पजहिं निरवसेसतो;

अनेकगुणसम्पन्नं, पवत्तफलमादियिं.

३३. तत्थप्पधानं पदहिं, निसज्जट्ठानचङ्कमे;

अब्भन्तरम्हि सत्ताहे, अभिञ्ञाबलपापुणिं.

३४. एवं मे सिद्धिप्पत्तस्स, वसीभूतस्स सासने;

दीपङ्करो नाम जिनो, उप्पज्जि लोकनायको.

३५. उप्पज्जन्ते च जायन्ते, बुज्झन्ते धम्मदेसने;

चतुरो निमित्ते नाद्दसं, झानरतिसमप्पितो.

३६. पच्चन्तदेसविसये, निमन्तेत्वा तथागतं;

तस्स आगमनं मग्गं, सोधेन्ति तुट्ठमानसा.

३७. अहं तेन समयेन, निक्खमित्वा सकस्समा;

धुनन्तो वाकचीरानि, गच्छामि अम्बरे तदा.

३८. वेदजातं जनं दिस्वा, तुट्ठहट्ठं पमोदितं;

ओरोहित्वान गगना, मनुस्से पुच्छि तावदे.

३९. ‘‘तुट्ठहट्ठो पमुदितो, वेदजातो महाजनो;

कस्स सोधीयति मग्गो, अञ्जसं वटुमायनं’’.

४०. ते मे पुट्ठा वियाकंसु, ‘‘बुद्धो लोके अनुत्तरो;

दीपङ्करो नाम जिनो, उप्पज्जि लोकनायको;

तस्स सोधीयति मग्गो, अञ्जसं वटुमायनं’’.

४१. बुद्धोतिवचनं [बुद्धोति मम (सी. स्या. क.)] सुत्वान, पीति उप्पज्जि तावदे;

बुद्धो बुद्धोति कथयन्तो, सोमनस्सं पवेदयिं.

४२. तत्थ ठत्वा विचिन्तेसिं, तुट्ठो संविग्गमानसो;

‘‘इध बीजानि रोपिस्सं, खणो वे मा उपच्चगा.

४३. ‘‘यदि बुद्धस्स सोधेथ, एकोकासं ददाथ मे;

अहम्पि सोधयिस्सामि, अञ्जसं वटुमायनं’’.

४४. अदंसु ते ममोकासं, सोधेतुं अञ्जसं तदा;

बुद्धो बुद्धोति चिन्तेन्तो, मग्गं सोधेमहं तदा.

४५. अनिट्ठिते ममोकासे, दीपङ्करो महामुनि;

चतूहि सतसहस्सेहि, छळभिञ्ञेहि तादिहि;

खीणासवेहि विमलेहि, पटिपज्जि अञ्जसं जिनो.

४६. पच्चुग्गमना वत्तन्ति, वज्जन्ति भेरियो बहू;

आमोदिता नरमरू, साधुकारं पवत्तयुं.

४७. देवा मनुस्से पस्सन्ति, मनुस्सापि च देवता;

उभोपि ते पञ्जलिका, अनुयन्ति तथागतं.

४८. देवा दिब्बेहि तुरियेहि, मनुस्सा मानुसेहि च [मानुस्सकेहि च मानुसकेहि च (स्या. क.)];

उभोपि ते वज्जयन्ता, अनुयन्ति तथागतं.

४९. दिब्बं मन्दारवं पुप्फं, पदुमं पारिछत्तकं;

दिसोदिसं ओकिरन्ति, आकासनभगता मरू.

५०. दिब्बं चन्दनचुण्णञ्च, वरगन्धञ्च केवलं;

दिसोदिसं ओकिरन्ति, आकासनभगता [आकासे नभगा (स्या.)] मरू.

५१. चम्पकं सरलं नीपं, नागपुन्नागकेतकं;

दिसोदिसं उक्खिपन्ति, भूमितलगता नरा.

५२. केसे मुञ्चित्वाहं तत्थ, वाकचीरञ्च चम्मकं;

कलले पत्थरित्वान, अवकुज्जो निपज्जहं.

५३. ‘‘अक्कमित्वान मं बुद्धो, सह सिस्सेहि गच्छतु;

मा नं कलले अक्कमित्थ, हिताय मे भविस्सति’’.

५४. पथवियं निपन्नस्स, एवं मे आसि चेतसो;

‘‘इच्छमानो अहं अज्ज, किलेसे झापये मम.

५५. ‘‘किं मे अञ्ञातवेसेन, धम्मं सच्छिकतेनिध;

सब्बञ्ञुतं पापुणित्वा, बुद्धो हेस्सं सदेवके.

५६. ‘‘किं मे एकेन तिण्णेन, पुरिसेन थामदस्सिना;

सब्बञ्ञुतं पापुणित्वा, सन्तारेस्सं सदेवकं.

५७. ‘‘इमिना मे अधिकारेन, कतेन पुरिसुत्तमे;

सब्बञ्ञुतं पापुणित्वा, तारेमि जनतं बहुं.

५८. ‘‘संसारसोतं छिन्दित्वा, विद्धंसेत्वा तयो भवे;

धम्मनावं समारुय्ह, सन्तारेस्सं सदेवकं’’.

५९. मनुस्सत्तं लिङ्गसम्पत्ति, हेतु सत्थारदस्सनं;

पब्बज्जा गुणसम्पत्ति, अधिकारो च छन्दता;

अट्ठधम्मसमोधाना, अभिनीहारो समिज्झति.

६०. दीपङ्करो लोकविदू, आहुतीनं पटिग्गहो;

उस्सीसके मं ठत्वान, इदं वचनमब्रवि.

६१. ‘‘पस्सथ इमं तापसं, जटिलं उग्गतापनं;

अपरिमेय्यितो कप्पे, बुद्धो लोके भविस्सति.

६२. ‘‘अहु कपिलव्हया रम्मा, निक्खमित्वा तथागतो;

पधानं पदहित्वान, कत्वा दुक्करकारिकं.

६३. ‘‘अजपालरुक्खमूलस्मिं, निसीदित्वा तथागतो;

तत्थ पायासं पग्गय्ह, नेरञ्जरमुपेहिति.

६४. ‘‘नेरञ्जराय तीरम्हि, पायासं अद सो जिनो;

पटियत्तवरमग्गेन, बोधिमूलमुपेहिति.

६५. ‘‘ततो पदक्खिणं कत्वा, बोधिमण्डं अनुत्तरो [अनुत्तरं (स्या. कं.)];

अस्सत्थरुक्खमूलम्हि, बुज्झिस्सति महायसो.

६६. ‘‘इमस्स जनिका माता, माया नाम भविस्सति;

पिता सुद्धोदनो नाम, अयं हेस्सति गोतमो.

६७. ‘‘अनासवा वीतरागा, सन्तचित्ता समाहिता;

कोलितो उपतिस्सो च, अग्गा हेस्सन्ति सावका;

आनन्दो नामुपट्ठाको, उपट्ठिस्सतिमं [उपट्ठिस्सति तं (सी.)] जिनं.

६८. ‘‘खेमा उप्पलवण्णा च, अग्गा हेस्सन्ति साविका;

अनासवा वीतरागा, सन्तचित्ता समाहिता;

बोधि तस्स भगवतो, अस्सत्थोति पवुच्चति.

६९. ‘‘चित्तो च हत्थाळवको [हत्थालवको (सी.)], अग्गा हेस्सन्तुपट्ठका;

उत्तरा नन्दमाता च, अग्गा हेस्सन्तुपट्ठिका’’.

७०. इदं सुत्वान वचनं, असमस्स महेसिनो;

आमोदिता नरमरू, बुद्धबीजं किर [बुद्धबीजङ्कुरो (सी. स्या.)] अयं.

७१. उक्कुट्ठिसद्दा वत्तन्ति, अप्फोटेन्ति [अप्फोठेन्ति (सी.)] हसन्ति च;

कतञ्जली नमस्सन्ति, दससहस्सी सदेवका.