१०. बोधिघरदायकत्थेरअपदानं
६९. ‘‘सिद्धत्थस्स भगवतो, द्विपदिन्दस्स तादिनो;
पसन्नचित्तो सुमनो, बोधिघरमकारयिं.
७०. ‘‘तुसितं उपपन्नोम्हि, वसामि रतने घरे;
न मे सीतं वा उण्हं वा, वातो गत्ते न सम्फुसे.
७१. ‘‘पञ्चसट्ठिम्हितो कप्पे, चक्कवत्ती अहोसहं;
कासिकं नाम नगरं, विस्सकम्मेन [विसुकम्मेन (स्या. क.)] मापितं.
७२. ‘‘दसयोजनआयामं, अट्ठयोजनवित्थतं;
न तम्हि नगरे अत्थि, कट्ठं वल्ली च मत्तिका.
७३. ‘‘तिरियं योजनं आसि, अद्धयोजनवित्थतं;
मङ्गलो नाम पासादो, विस्सकम्मेन मापितो.
७४. ‘‘चुल्लासीतिसहस्सानि, थम्भा सोण्णमया अहुं;
मणिमया च निय्यूहा, छदनं रूपियं अहु.
७५. ‘‘सब्बसोण्णमयं घरं, विस्सकम्मेन मापितं;
अज्झावुत्थं मया एतं, घरदानस्सिदं फलं.
७६. ‘‘ते सब्बे अनुभोत्वान, देवमानुसके भवे;
अज्झपत्तोम्हि निब्बानं, सन्तिपदमनुत्तरं.
७७. ‘‘तिंसकप्पसहस्सम्हि, बोधिघरमकारयिं;
दुग्गतिं नाभिजानामि, घरदानस्सिदं फलं.
७८. ‘‘किलेसा झापिता मय्हं…पे… विहरामि अनासवो.
७९. ‘‘स्वागतं वत मे आसि…पे… कतं बुद्धस्स सासनं.
८०. ‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा बोधिघरदायको थेरो इमा गाथायो
अभासित्थाति.
बोधिघरदायकत्थेरस्सापदानं दसमं.
विभीतकवग्गो पञ्चचत्तालीसमो.