३. धजदायकत्थेरअपदानं

२०. ‘‘तिस्सो नाम अहु सत्था, लोकजेट्ठो नरासभो;

तयोपधिक्खये [तस्सोपधिक्खये (सी.)] दिस्वा, धजं आरोपितं मया.

२१. ‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च;

जहित्वा मानुसं देहं, तावतिंसमगच्छहं.

२२. ‘‘सतानं तीणिक्खत्तुञ्च, देवरज्जं अकारयिं;

सतानं पञ्चक्खत्तुञ्च, चक्कवत्ती अहोसहं.

२३. ‘‘पदेसरज्जं विपुलं, गणनातो असङ्खियं;

अनुभोमि सकं कम्मं, पुब्बे सुकतमत्तनो.

२४. ‘‘द्वेनवुते इतो कप्पे, यं कम्ममकरिं तदा;

दुग्गतिं नाभिजानामि, धजदानस्सिदं फलं.

२५. ‘‘इच्छमानो चहं अज्ज, सकाननं सपब्बतं;

खोमदुस्सेन छादेय्यं, तदा मय्हं कते फलं.

२६. ‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा धजदायको थेरो इमा गाथायो अभासित्थाति.

धजदायकत्थेरस्सापदानं ततियं.