९. बुद्धसञ्ञकत्थेरअपदानं

४३. ‘‘उदेन्तं सतरंसिंव, पीतरंसिंव भाणुमं;

वनन्तरगतं सन्तं, लोकजेट्ठं नरासभं.

४४. ‘‘अद्दसं सुपिनन्तेन, सिद्धत्थं लोकनायकं;

तत्थ चित्तं पसादेत्वा, सुगतिं उपपज्जहं.

४५. ‘‘चतुन्नवुतितो कप्पे, यं सञ्ञमलभिं तदा;

दुग्गतिं नाभिजानामि, बुद्धसञ्ञायिदं फलं.

४६. ‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा बुद्धसञ्ञको थेरो इमा गाथायो अभासित्थाति.

बुद्धसञ्ञकत्थेरस्सापदानं नवमं.