१०. पियालफलदायकत्थेरअपदानं

६६. ‘‘पारावतो [परोधको (स्या.)] तदा आसिं, परं अनुपरोधको;

पब्भारे सेय्यं कप्पेमि, अविदूरे सिखिसत्थुनो.

६७. ‘‘सायं पातञ्च पस्सामि, बुद्धं लोकग्गनायकं;

देय्यधम्मो च मे नत्थि, द्विपदिन्दस्स तादिनो.

६८. ‘‘पियालफलमादाय, अगमं बुद्धसन्तिकं;

पटिग्गहेसि भगवा, लोकजेट्ठो नरासभो.

६९. ‘‘ततो परं उपादाय, परिचारिं विनायकं;

तेन चित्तप्पसादेन, तत्थ कालङ्कतो अहं.

७०. ‘‘एकत्तिंसे इतो कप्पे, यं फलं अददिं अहं;

दुग्गतिं नाभिजानामि, फलदानस्सिदं फलं.

७१. ‘‘इतो पन्नरसे कप्पे, तयो आसुं पियालिनो;

सत्तरतनसम्पन्ना, चक्कवत्ती महब्बला.

७२. ‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.

इत्थं सुदं आयस्मा पियालफलदायको थेरो इमा गाथायो अभासित्थाति.

पियालफलदायकत्थेरस्सापदानं दसमं.

सोभितवग्गो चुद्दसमो.