४. एकासनियत्थेरअपदानं
३१. ‘‘वरुणो नाम नामेन, देवराजा अहं तदा;
उपट्ठहेसिं सम्बुद्धं, सयोग्गबलवाहनो.
३२. ‘‘निब्बुते लोकनाथम्हि, अत्थदस्सीनरुत्तमे;
तूरियं सब्बमादाय, अगमं बोधिमुत्तमं.
३३. ‘‘वादितेन च नच्चेन, सम्मताळसमाहितो;
सम्मुखा विय सम्बुद्धं, उपट्ठिं बोधिमुत्तमं.
३४. ‘‘उपट्ठहित्वा तं बोधिं, धरणीरुहपादपं;
पल्लङ्कं आभुजित्वान, तत्थ कालङ्कतो अहं.
३५. ‘‘सककम्माभिरद्धोहं, पसन्नो बोधिमुत्तमे;
तेन चित्तप्पसादेन, निम्मानं उपपज्जहं.
३६. ‘‘सट्ठितूरियसहस्सानि, परिवारेन्ति मं सदा;
मनुस्सेसु च देवेसु, वत्तमानं भवाभवे.
३७. ‘‘तिविधग्गी निब्बुता मय्हं, भवा सब्बे समूहता;
धारेमि अन्तिमं देहं, सम्मासम्बुद्धसासने [अयञ्च गाथा पटिसम्भिदा चतस्सेतिगाथाय एकसम्बन्धा भवितं युत्ता].
३८. ‘‘सुबाहू नाम नामेन, चतुत्तिंसासु खत्तिया;
सत्तरतनसम्पन्ना, पञ्चकप्पसते इतो.
३९. ‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा एकासनियो थेरो इमा गाथायो अभासित्थाति.
एकासनियत्थेरस्सापदानं चतुत्थं.