७. लक्खणसुत्तं

द्वत्तिंसमहापुरिसलक्खणानि

१९८. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति. ‘‘भद्दन्ते’’ति [भदन्तेति (सी. स्या. पी.)] ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच –

१९९. ‘‘द्वत्तिंसिमानि, भिक्खवे, महापुरिसस्स महापुरिसलक्खणानि, येहि समन्नागतस्स महापुरिसस्स द्वेव गतियो भवन्ति अनञ्ञा. सचे अगारं अज्झावसति, राजा होति चक्कवत्ती धम्मिको धम्मराजा चातुरन्तो विजितावी जनपदत्थावरियप्पत्तो सत्तरतनसमन्नागतो. तस्सिमानि सत्त रतनानि भवन्ति; सेय्यथिदं, चक्करतनं हत्थिरतनं अस्सरतनं मणिरतनं इत्थिरतनं गहपतिरतनं परिणायकरतनमेव सत्तमं. परोसहस्सं खो पनस्स पुत्ता भवन्ति सूरा वीरङ्गरूपा परसेनप्पमद्दना. सो इमं पथविं सागरपरियन्तं अदण्डेन असत्थेन धम्मेन अभिविजिय अज्झावसति. सचे खो पन अगारस्मा अनगारियं पब्बजति, अरहं होति सम्मासम्बुद्धो लोके विवट्टच्छदो [विवटच्छदो (स्या. क.), विवत्तच्छदो (सी. पी.)].

२००. ‘‘कतमानि च तानि, भिक्खवे, द्वत्तिंस महापुरिसस्स महापुरिसलक्खणानि, येहि समन्नागतस्स महापुरिसस्स द्वेव गतियो भवन्ति अनञ्ञा? सचे अगारं अज्झावसति, राजा होति चक्कवत्ती…पे… सचे खो पन अगारस्मा अनगारियं पब्बजति, अरहं होति सम्मासम्बुद्धो लोके विवट्टच्छदो.

‘‘इध, भिक्खवे, महापुरिसो सुप्पतिट्ठितपादो होति. यम्पि, भिक्खवे, महापुरिसो सुप्पतिट्ठितपादो होति, इदम्पि, भिक्खवे, महापुरिसस्स महापुरिसलक्खणं भवति.

‘‘पुन चपरं, भिक्खवे, महापुरिसस्स हेट्ठापादतलेसु चक्कानि जातानि होन्ति सहस्सारानि सनेमिकानि सनाभिकानि सब्बाकारपरिपूरानि [सब्बाकारपरिपूरानि सुविभत्तन्तरानि (सी. पी.)]. यम्पि, भिक्खवे, महापुरिसस्स हेट्ठापादतलेसु चक्कानि जातानि होन्ति सहस्सारानि सनेमिकानि सनाभिकानि सब्बाकारपरिपूरानि, इदम्पि, भिक्खवे, महापुरिसस्स महापुरिसलक्खणं भवति.

‘‘पुन चपरं, भिक्खवे, महापुरिसो आयतपण्हि होति…पे… दीघङ्गुलि होति… मुदुतलुनहत्थपादो होति… जालहत्थपादो होति… उस्सङ्खपादो होति… एणिजङ्घो होति… ठितकोव अनोनमन्तो उभोहि पाणितलेहि जण्णुकानि परिमसति परिमज्जति… कोसोहितवत्थगुय्हो होति… सुवण्णवण्णो होति कञ्चनसन्निभत्तचो… सुखुमच्छवि होति, सुखुमत्ता छविया रजोजल्लं काये न उपलिम्पति… एकेकलोमो होति, एकेकानि लोमानि लोमकूपेसु जातानि… उद्धग्गलोमो होति, उद्धग्गानि लोमानि जातानि नीलानि अञ्जनवण्णानि कुण्डलावट्टानि [कुण्डलावत्तानि (बहूसु)] दक्खिणावट्टकजातानि [दक्खिणावत्तकजातानि (सी. स्या. पी.)] … ब्रह्मुजुगत्तो होति… सत्तुस्सदो होति… सीहपुब्बद्धकायो होति… चितन्तरंसो [पितन्तरंसो (स्या.)] होति… निग्रोधपरिमण्डलो होति, यावतक्वस्स कायो तावतक्वस्स ब्यामो यावतक्वस्स ब्यामो तावतक्वस्स कायो… समवट्टक्खन्धो होति… रसग्गसग्गी होति… सीहहनु होति… चत्तालीसदन्तो होति … समदन्तो होति… अविरळदन्तो होति… सुसुक्कदाठो होति… पहूतजिव्हो होति… ब्रह्मस्सरो होति करवीकभाणी… अभिनीलनेत्तो होति… गोपखुमो होति… उण्णा भमुकन्तरे जाता होति, ओदाता मुदुतूलसन्निभा. यम्पि, भिक्खवे, महापुरिसस्स उण्णा भमुकन्तरे जाता होति, ओदाता मुदुतूलसन्निभा, इदम्पि, भिक्खवे, महापुरिसस्स महापुरिसलक्खणं भवति.

‘‘पुन चपरं, भिक्खवे, महापुरिसो उण्हीससीसो होति. यम्पि, भिक्खवे, महापुरिसो उण्हीससीसो होति, इदम्पि, भिक्खवे, महापुरिसस्स महापुरिसलक्खणं भवति.

‘‘इमानि खो तानि, भिक्खवे, द्वत्तिंस महापुरिसस्स महापुरिसलक्खणानि, येहि समन्नागतस्स महापुरिसस्स द्वेव गतियो भवन्ति अनञ्ञा. सचे अगारं अज्झावसति, राजा होति चक्कवत्ती…पे… सचे खो पन अगारस्मा अनगारियं पब्बजति, अरहं होति सम्मासम्बुद्धो लोके विवट्टच्छदो.

‘‘इमानि खो, भिक्खवे, द्वत्तिंस महापुरिसस्स महापुरिसलक्खणानि बाहिरकापि इसयो धारेन्ति, नो च खो ते जानन्ति – ‘इमस्स कम्मस्स कटत्ता इदं लक्खणं पटिलभती’ति.

(१) सुप्पतिट्ठितपादतालक्खणं

२०१. ‘‘यम्पि, भिक्खवे, तथागतो पुरिमं जातिं पुरिमं भवं पुरिमं निकेतं पुब्बे मनुस्सभूतो समानो दळ्हसमादानो अहोसि कुसलेसु धम्मेसु, अवत्थितसमादानो कायसुचरिते वचीसुचरिते मनोसुचरिते दानसंविभागे सीलसमादाने उपोसथुपवासे मत्तेय्यताय पेत्तेय्यताय सामञ्ञताय ब्रह्मञ्ञताय कुले जेट्ठापचायिताय अञ्ञतरञ्ञतरेसु च अधिकुसलेसु धम्मेसु. सो तस्स कम्मस्स कटत्ता उपचितत्ता उस्सन्नत्ता विपुलत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जति. सो तत्थ अञ्ञे देवे दसहि ठानेहि अधिग्गण्हाति दिब्बेन आयुना दिब्बेन वण्णेन दिब्बेन सुखेन दिब्बेन यसेन दिब्बेन आधिपतेय्येन दिब्बेहि रूपेहि दिब्बेहि सद्देहि दिब्बेहि गन्धेहि दिब्बेहि रसेहि दिब्बेहि फोट्ठब्बेहि. सो ततो चुतो इत्थत्तं आगतो समानो इमं महापुरिसलक्खणं पटिलभति. सुप्पतिट्ठितपादो होति. समं पादं भूमियं निक्खिपति, समं उद्धरति, समं सब्बावन्तेहि पादतलेहि भूमिं फुसति.

२०२. ‘‘सो तेन लक्खणेन समन्नागतो सचे अगारं अज्झावसति, राजा होति चक्कवत्ती धम्मिको धम्मराजा चातुरन्तो विजितावी जनपदत्थावरियप्पत्तो सत्तरतनसमन्नागतो. तस्सिमानि सत्त रतनानि भवन्ति; सेय्यथिदं, चक्करतनं हत्थिरतनं अस्सरतनं मणिरतनं इत्थिरतनं गहपतिरतनं परिणायकरतनमेव सत्तमं. परोसहस्सं खो पनस्स पुत्ता भवन्ति सूरा वीरङ्गरूपा परसेनप्पमद्दना. सो इमं पथविं सागरपरियन्तं अखिलमनिमित्तमकण्टकं इद्धं फीतं खेमं सिवं निरब्बुदं अदण्डेन असत्थेन धम्मेन अभिविजिय अज्झावसति. राजा समानो किं लभति? अक्खम्भियो [अविक्खम्भियो (सी. पी.)] होति केनचि मनुस्सभूतेन पच्चत्थिकेन पच्चामित्तेन. राजा समानो इदं लभति. ‘‘सचे खो पन अगारस्मा अनगारियं पब्बजति, अरहं होति सम्मासम्बुद्धो लोके विवट्टच्छदो. बुद्धो समानो किं लभति? अक्खम्भियो होति अब्भन्तरेहि वा बाहिरेहि वा पच्चत्थिकेहि पच्चामित्तेहि रागेन वा दोसेन वा मोहेन वा समणेन वा ब्राह्मणेन वा देवेन वा मारेन वा ब्रह्मुना वा केनचि वा लोकस्मिं. बुद्धो समानो इदं लभति’’. एतमत्थं भगवा अवोच.

२०३. तत्थेतं वुच्चति –

‘‘सच्चे च धम्मे च दमे च संयमे,

सोचेय्यसीलालयुपोसथेसु च;

दाने अहिंसाय असाहसे रतो,

दळ्हं समादाय समत्तमाचरि [समन्तमाचरि (स्या. क.)].

‘‘सो तेन कम्मेन दिवं समक्कमि [अपक्कमि (स्या. क.)],

सुखञ्च खिड्डारतियो च अन्वभि [अंन्वभि (टीका)];

ततो चवित्वा पुनरागतो इध,

समेहि पादेहि फुसी वसुन्धरं.

‘‘ब्याकंसु वेय्यञ्जनिका समागता,

समप्पतिट्ठस्स न होति खम्भना;

गिहिस्स वा पब्बजितस्स वा पुन [पन (स्या.)],

तं लक्खणं भवति तदत्थजोतकं.

‘‘अक्खम्भियो होति अगारमावसं,

पराभिभू सत्तुभि नप्पमद्दनो;

मनुस्सभूतेनिध होति केनचि,

अक्खम्भियो तस्स फलेन कम्मुनो.

‘‘सचे च पब्बज्जमुपेति तादिसो,

नेक्खम्मछन्दाभिरतो विचक्खणो;

अग्गो न सो गच्छति जातु खम्भनं,

नरुत्तमो एस हि तस्स धम्मता’’ति.

(२) पादतलचक्कलक्खणं

२०४. ‘‘यम्पि, भिक्खवे, तथागतो पुरिमं जातिं पुरिमं भवं पुरिमं निकेतं पुब्बे मनुस्सभूतो समानो बहुजनस्स सुखावहो अहोसि, उब्बेगउत्तासभयं अपनुदिता, धम्मिकञ्च रक्खावरणगुत्तिं संविधाता, सपरिवारञ्च दानं अदासि. सो तस्स कम्मस्स कटत्ता उपचितत्ता उस्सन्नत्ता विपुलत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जति…पे… सो ततो चुतो इत्थत्तं आगतो समानो इमं महापुरिसलक्खणं पटिलभति. हेट्ठापादतलेसु चक्कानि जातानि होन्ति सहस्सारानि सनेमिकानि सनाभिकानि सब्बाकारपरिपूरानि सुविभत्तन्तरानि.

‘‘सो तेन लक्खणेन समन्नागतो सचे अगारं अज्झावसति, राजा होति चक्कवत्ती…पे… राजा समानो किं लभति? महापरिवारो होति; महास्स होन्ति परिवारा ब्राह्मणगहपतिका नेगमजानपदा गणकमहामत्ता अनीकट्ठा दोवारिका अमच्चा पारिसज्जा राजानो भोगिया कुमारा. राजा समानो इदं लभति. सचे खो पन अगारस्मा अनगारियं पब्बजति, अरहं होति सम्मासम्बुद्धो लोके विवट्टच्छदो. बुद्धो समानो किं लभति? महापरिवारो होति; महास्स होन्ति परिवारा भिक्खू भिक्खुनियो उपासका उपासिकायो देवा मनुस्सा असुरा नागा गन्धब्बा. बुद्धो समानो इदं लभति’’. एतमत्थं भगवा अवोच.

२०५. तत्थेतं वुच्चति –

‘‘पुरे पुरत्था पुरिमासु जातिसु,

मनुस्सभूतो बहुनं सुखावहो;

उब्भेगउत्तासभयापनूदनो,

गुत्तीसु रक्खावरणेसु उस्सुको.

‘‘सो तेन कम्मेन दिवं समक्कमि,

सुखञ्च खिड्डारतियो च अन्वभि;

ततो चवित्वा पुनरागतो इध,

चक्कानि पादेसु दुवेसु विन्दति.

‘‘समन्तनेमीनि सहस्सरानि च,

ब्याकंसु वेय्यञ्जनिका समागता;

दिस्वा कुमारं सतपुञ्ञलक्खणं,

परिवारवा हेस्सति सत्तुमद्दनो.

तथा ही चक्कानि समन्तनेमिनि,

सचे न पब्बज्जमुपेति तादिसो;

वत्तेति चक्कं पथविं पसासति,

तस्सानुयन्ताध [तस्सानुयुत्ता इध (सी. पी.), तस्सानुयन्ता इध (स्या. क.)] भवन्ति खत्तिया.

‘‘महायसं संपरिवारयन्ति नं,

सचे च पब्बज्जमुपेति तादिसो;

नेक्खम्मछन्दाभिरतो विचक्खणो,

देवामनुस्सासुरसक्करक्खसा [सत्तरक्खसा (क.) सी. स्याअट्ठकथा ओलोकेतब्बा].

‘‘गन्धब्बनागा विहगा चतुप्पदा,

अनुत्तरं देवमनुस्सपूजितं;

महायसं संपरिवारयन्ति न’’न्ति.

(३-५) आयतपण्हितादितिलक्खणं

२०६. ‘‘यम्पि, भिक्खवे, तथागतो पुरिमं जातिं पुरिमं भवं पुरिमं निकेतं पुब्बे मनुस्सभूतो समानो पाणातिपातं पहाय पाणातिपाता पटिविरतो अहोसि निहितदण्डो निहितसत्थो लज्जी दयापन्नो, सब्बपाणभूतहितानुकम्पी विहासि. सो तस्स कम्मस्स कटत्ता उपचितत्ता उस्सन्नत्ता विपुलत्ता…पे… सो ततो चुतो इत्थत्तं आगतो समानो इमानि तीणि महापुरिसलक्खणानि पटिलभति. आयतपण्हि च होति, दीघङ्गुलि च ब्रह्मुजुगत्तो च.

‘‘सो तेहि लक्खणेहि समन्नागतो सचे अगारं अज्झावसति, राजा होति चक्कवत्ती…पे… राजा समानो किं लभति? दीघायुको होति चिरट्ठितिको, दीघमायुं पालेति, न सक्का होति अन्तरा जीविता वोरोपेतुं केनचि मनुस्सभूतेन पच्चत्थिकेन पच्चामित्तेन. राजा समानो इदं लभति… बुद्धो समानो किं लभति? दीघायुको होति चिरट्ठितिको, दीघमायुं पालेति, न सक्का होति अन्तरा जीविता वोरोपेतुं पच्चत्थिकेहि पच्चामित्तेहि समणेन वा ब्राह्मणेन वा देवेन वा मारेन वा ब्रह्मुना वा केनचि वा लोकस्मिं. बुद्धो समानो इदं लभति’’. एतमत्थं भगवा अवोच.

२०७. तत्थेतं वुच्चति –

‘‘मारणवधभयत्तनो [मरणवधभयत्तनो (सी. पी. क.), मरणवधभयमत्तनो (स्या.)] विदित्वा,

पटिविरतो परं मारणायहोसि;

तेन सुचरितेन सग्गमगमा [तेन सो सुचरितेन सग्गमगमासि (स्या.)],

सुकतफलविपाकमनुभोसि.

‘‘चविय पुनरिधागतो समानो,

पटिलभति इध तीणि लक्खणानि;

भवति विपुलदीघपासण्हिको,

ब्रह्माव सुजु सुभो सुजातगत्तो.

‘‘सुभुजो सुसु सुसण्ठितो सुजातो,

मुदुतलुनङ्गुलियस्स होन्ति;

दीघा तीभि पुरिसवरग्गलक्खणेहि,

चिरयपनाय [चिरयापनाय (स्या.)] कुमारमादिसन्ति.

‘‘भवति यदि गिही चिरं यपेति,

चिरतरं पब्बजति यदि ततो हि;

यापयति च वसिद्धिभावनाय,

इति दीघायुकताय तं निमित्त’’न्ति.

(६) सत्तुस्सदतालक्खणं

२०८. ‘‘यम्पि, भिक्खवे, तथागतो पुरिमं जातिं पुरिमं भवं पुरिमं निकेतं पुब्बे मनुस्सभूतो समानो दाता अहोसि पणीतानं रसितानं खादनीयानं भोजनीयानं सायनीयानं लेहनीयानं पानानं. सो तस्स कम्मस्स कटत्ता…पे… सो ततो चुतो इत्थत्तं आगतो समानो इमं महापुरिसलक्खणं पटिलभति, सत्तुस्सदो होति, सत्तस्स उस्सदा होन्ति; उभोसु हत्थेसु उस्सदा होन्ति, उभोसु पादेसु उस्सदा होन्ति, उभोसु अंसकूटेसु उस्सदा होन्ति, खन्धे उस्सदो होति.

‘‘सो तेन लक्खणेन समन्नागतो सचे अगारं अज्झावसति, राजा होति चक्कवत्ती…पे… राजा समानो किं लभति? लाभी होति पणीतानं रसितानं खादनीयानं भोजनीयानं सायनीयानं लेहनीयानं पानानं. राजा समानो इदं लभति… बुद्धो समानो किं लभति? लाभी होति पणीतानं रसितानं खादनीयानं भोजनीयानं सायनीयानं लेहनीयानं पानानं. बुद्धो समानो इदं लभति’’. एतमत्थं भगवा अवोच.

२०९. तत्थेतं वुच्चति –

‘‘खज्जभोज्जमथ लेय्य सायियं,

उत्तमग्गरसदायको अहु;

तेन सो सुचरितेन कम्मुना,

नन्दने चिरमभिप्पमोदति.

‘‘सत्त चुस्सदे इधाधिगच्छति,

हत्थपादमुदुतञ्च विन्दति;

आहु ब्यञ्जननिमित्तकोविदा,

खज्जभोज्जरसलाभिताय नं.

‘‘यं गिहिस्सपि [न तं गिहिस्सापि (स्या.)] तदत्थजोतकं,

पब्बज्जम्पि च तदाधिगच्छति;

खज्जभोज्जरसलाभिरुत्तमं,

आहु सब्बगिहिबन्धनच्छिद’’न्ति.

(७-८) करचरणमुदुजालतालक्खणानि

२१०. ‘‘यम्पि, भिक्खवे, तथागतो पुरिमं जातिं पुरिमं भवं पुरिमं निकेतं पुब्बे मनुस्सभूतो समानो चतूहि सङ्गहवत्थूहि जनं सङ्गाहको अहोसि – दानेन पेय्यवज्जेन [पियवाचेन (स्या. क.)] अत्थचरियाय समानत्तताय. सो तस्स कम्मस्स कटत्ता…पे… सो ततो चुतो इत्थत्तं आगतो समानो इमानि द्वे महापुरिसलक्खणानि पटिलभति. मुदुतलुनहत्थपादो च होति जालहत्थपादो च.

‘‘सो तेहि लक्खणेहि समन्नागतो सचे अगारं अज्झावसति, राजा होति चक्कवत्ती…पे… राजा समानो किं लभति? सुसङ्गहितपरिजनो होति, सुसङ्गहितास्स होन्ति ब्राह्मणगहपतिका नेगमजानपदा गणकमहामत्ता अनीकट्ठा दोवारिका अमच्चा पारिसज्जा राजानो भोगिया कुमारा. राजा समानो इदं लभति… बुद्धो समानो किं लभति? सुसङ्गहितपरिजनो होति, सुसङ्गहितास्स होन्ति भिक्खू भिक्खुनियो उपासका उपासिकायो देवा मनुस्सा असुरा नागा गन्धब्बा. बुद्धो समानो इदं लभति’’. एतमत्थं भगवा अवोच.

२११. तत्थेतं वुच्चति –

‘‘दानम्पि चत्थचरियतञ्च [दानम्पि च अत्थचरियतम्पि च (सी. पी.)],

पियवादितञ्च समानत्ततञ्च [पियवदतञ्च समानछन्दतञ्च (सी. पी.)];

करियचरियसुसङ्गहं बहूनं,

अनवमतेन गुणेन याति सग्गं.

‘‘चविय पुनरिधागतो समानो,

करचरणमुदुतञ्च जालिनो च;

अतिरुचिरसुवग्गुदस्सनेय्यं,

पटिलभति दहरो सुसु कुमारो.

‘‘भवति परिजनस्सवो विधेय्यो,

महिमं आवसितो सुसङ्गहितो;

पियवदू हितसुखतं जिगीसमानो [जिगिं समानो (सी. स्या. पी.)],

अभिरुचितानि गुणानि आचरति.

‘‘यदि च जहति सब्बकामभोगं,

कथयति धम्मकथं जिनो जनस्स;

वचनपटिकरस्साभिप्पसन्ना,

सुत्वान धम्मानुधम्ममाचरन्ती’’ति.

(९-१०) उस्सङ्खपादउद्धग्गलोमतालक्खणानि

२१२. ‘‘यम्पि, भिक्खवे, तथागतो पुरिमं जातिं पुरिमं भवं पुरिमं निकेतं पुब्बे मनुस्सभूतो समानो [समानो बहुनो जनस्स (सी. पी.)] अत्थूपसंहितं धम्मूपसंहितं वाचं भासिता अहोसि, बहुजनं निदंसेसि, पाणीनं हितसुखावहो धम्मयागी. सो तस्स कम्मस्स कटत्ता…पे… सो ततो चुतो इत्थत्तं आगतो समानो इमानि द्वे महापुरिसलक्खणानि पटिलभति. उस्सङ्खपादो च होति, उद्धग्गलोमो च.

‘‘सो तेहि लक्खणेहि समन्नागतो, सचे अगारं अज्झावसति, राजा होति चक्कवत्ती…पे… राजा समानो किं लभति? अग्गो च होति सेट्ठो च पामोक्खो च उत्तमो च पवरो च कामभोगीनं. राजा समानो इदं लभति… बुद्धो समानो किं लभति? अग्गो च होति सेट्ठो च पामोक्खो च उत्तमो च पवरो च सब्बसत्तानं. बुद्धो समानो इदं लभति’’. एतमत्थं भगवा अवोच.

२१३. तत्थेतं वुच्चति –

‘‘अत्थधम्मसहितं [अत्थधम्मसंहितं (क. सी. पी.), अत्थधम्मुपसंहितं (क.)] पुरे गिरं,

एरयं बहुजनं निदंसयि;

पाणिनं हितसुखावहो अहु,

धम्मयागमयजी [धम्मयागं अस्सजि (क.)] अमच्छरी.

‘‘तेन सो सुचरितेन कम्मुना,

सुग्गतिं वजति तत्थ मोदति;

लक्खणानि च दुवे इधागतो,

उत्तमप्पमुखताय [उत्तमसुखताय (स्या.), उत्तमपमुक्खताय (क.)] विन्दति.

‘‘उब्भमुप्पतितलोमवा ससो,

पादगण्ठिरहु साधुसण्ठिता;

मंसलोहिताचिता तचोत्थता,

उपरिचरणसोभना [उपरिजानुसोभना (स्या.), उपरि च पन सोभना (सी. पी.)] अहु.

‘‘गेहमावसति चे तथाविधो,

अग्गतं वजति कामभोगिनं;

तेन उत्तरितरो न विज्जति,

जम्बुदीपमभिभुय्य इरियति.

‘‘पब्बजम्पि च अनोमनिक्कमो,

अग्गतं वजति सब्बपाणिनं;

तेन उत्तरितरो न विज्जति,

सब्बलोकमभिभुय्य विहरती’’ति.

(११) एणिजङ्घलक्खणं

२१४. ‘‘यम्पि, भिक्खवे, तथागतो पुरिमं जातिं पुरिमं भवं पुरिमं निकेतं पुब्बे मनुस्सभूतो समानो सक्कच्चं वाचेता अहोसि सिप्पं वा विज्जं वा चरणं वा कम्मं वा – ‘किं तिमे खिप्पं विजानेय्युं, खिप्पं पटिपज्जेय्युं, न चिरं किलिस्सेय्यु’’न्ति. सो तस्स कम्मस्स कटत्ता…पे… सो ततो चुतो इत्थत्तं आगतो समानो इमं महापुरिसलक्खणं पटिलभति. एणिजङ्घो होति.

‘‘सो तेन लक्खणेन समन्नागतो सचे अगारं अज्झावसति, राजा होति चक्कवत्ती…पे… राजा समानो किं लभति? यानि तानि राजारहानि राजङ्गानि राजूपभोगानि राजानुच्छविकानि तानि खिप्पं पटिलभति. राजा समानो इदं लभति… बुद्धो समानो किं लभति? यानि तानि समणारहानि समणङ्गानि समणूपभोगानि समणानुच्छविकानि, तानि खिप्पं पटिलभति. बुद्धो समानो इदं लभति’’. एतमत्थं भगवा अवोच.

२१५. तत्थेतं वुच्चति –

‘‘सिप्पेसु विज्जाचरणेसु कम्मेसु [कम्मसु (सी. पी.)],

कथं विजानेय्युं [विजानेय्य (सी. पी.), विजानेय्यु (स्या.)] लहुन्ति इच्छति;

यदूपघाताय न होति कस्सचि,

वाचेति खिप्पं न चिरं किलिस्सति.