१. परिमण्डलवग्गवण्णना
यानि सिक्खितसिक्खेन, सेखियानीति तादिना;
भासितानि अयं दानि, तेसम्पि वण्णनाक्कमो.
५७६. तत्थ परिमण्डलन्ति समन्ततो मण्डलं. नाभिमण्डलं जाणुमण्डलन्ति उद्धं नाभिमण्डलं अधो जाणुमण्डलं पटिच्छादेन्तेन जाणुमण्डलस्स हेट्ठा जङ्घट्ठिकतो पट्ठाय अट्ठङ्गुलमत्तं निवासनं ओतारेत्वा निवासेतब्बं, ततो परं ओतारेन्तस्स दुक्कटन्ति वुत्तं. यथा निसिन्नस्स जाणुमण्डलतो हेट्ठा चतुरङ्गुलमत्तं पटिच्छन्नं होतीति महापच्चरियं वुत्तं; एवं निवासेन्तस्स पन निवासनं पमाणिकं वट्टति. तत्रिदं पमाणं – दीघतो मुट्ठिपञ्चकं, तिरियं अड्ढतेय्यहत्थं. तादिसस्स पन अलाभे तिरियं द्विहत्थपमाणम्पि वट्टति जाणुमण्डलपटिच्छादनत्थं, नाभिमण्डलं पन चीवरेनापि सक्का पटिच्छादेतुन्ति. तत्थ एकपट्टचीवरं एवं निवत्थम्पि निवत्थट्ठाने न तिट्ठति, दुपट्टं पन तिट्ठति.
ओलम्बेन्तो निवासेति आपत्ति दुक्कटस्साति एत्थ न केवलं पुरतो च पच्छतो च ओलम्बेत्वा निवासेन्तस्सेव दुक्कटं, ये पनञ्ञे ‘‘तेन खो पन समयेन छब्बग्गिया भिक्खू गिहिनिवत्थं निवासेन्ति हत्थिसोण्डकं मच्छवालकं चतुक्कण्णकं तालवण्टकं सतवलिकं निवासेन्ती’’तिआदिना (चूळव. २८०) नयेन खन्धके निवासनदोसा वुत्ता, तथा निवासेन्तस्सापि दुक्कटमेव. ते सब्बे वुत्तनयेन परिमण्डलं निवासेन्तस्स न होन्ति. अयमेत्थ सङ्खेपो, वित्थारतो पन तत्थेव आवि भविस्सति.
असञ्चिच्चाति पुरतो वा पच्छतो वा ओलम्बेत्वा निवासेस्सामीति एवं असञ्चिच्च; अथ खो परिमण्डलंयेव निवासेस्सामीति विरज्झित्वा अपरिमण्डलं निवासेन्तस्स अनापत्ति. अस्सतियाति अञ्ञविहितस्सापि तथा निवासेन्तस्स अनापत्ति. अजानन्तस्साति एत्थ निवासनवत्तं अजानन्तस्स मोक्खो नत्थि. निवासनवत्तञ्हि साधुकं उग्गहेतब्बं, तस्स अनुग्गहणमेवस्स अनादरियं. तं पन सञ्चिच्च अनुग्गण्हन्तस्स युज्जति, तस्मा उग्गहितवत्तोपि यो आरुळ्हभावं वा ओरुळ्हभावं वा न जानाति, तस्स अनापत्ति. कुरुन्दियं पन ‘‘परिमण्डलं निवासेतुं अजानन्तस्स अनापत्ती’’ति वुत्तं. यो पन सुक्खजङ्घो वा महापिण्डिकमंसो वा होति, तस्स सारुप्पत्थाय जाणुमण्डलतो अट्ठङ्गुलाधिकम्पि ओतारेत्वा निवासेतुं वट्टति.
गिलानस्साति जङ्घाय वा पादे वा वणो होति, उक्खिपित्वा वा ओतारेत्वा वा निवासेतुं वट्टति. आपदासूति वाळमिगा वा चोरा वा अनुबन्धन्ति, एवरूपासु आपदासु अनापत्ति. सेसमेत्थ उत्तानमेव.
पठमपाराजिकसमुट्ठानं – किरियं, सञ्ञाविमोक्खं, सचित्तकं, लोकवज्जं, कायकम्मं, अकुसलचित्तं, दुक्खवेदनन्ति. फुस्सदेवत्थेरो ‘‘अचित्तकं, पण्णत्तिवज्जं, तिवेदन’’न्ति आह. उपतिस्सत्थेरो पन ‘‘अनादरियं पटिच्चा’’ति वुत्तत्ता ‘‘लोकवज्जं, अकुसलचित्तं, दुक्खवेदन’’न्ति आह.
५७७. परिमण्डलं पारुपितब्बन्ति ‘‘तेन खो पन समयेन छब्बग्गिया भिक्खू गिहिपारुतं पारुपन्ती’’ति (चूळव. २८०) एवं वुत्तं अनेकप्पकारं गिहिपारुपनं अपारुपित्वा इध वुत्तनयेनेव उभो कण्णे समं कत्वा पारुपनवत्तं पूरेन्तेन परिमण्डलं पारुपितब्बं. इमानि च द्वे सिक्खापदानि अविसेसेन वुत्तानि. तस्मा विहारेपि अन्तरघरेपि परिमण्डलमेव निवासेतब्बञ्च पारुपितब्बञ्चाति. समुट्ठानादीनि पठमसिक्खापदे वुत्तनयेनेव वेदितब्बानि सद्धिं थेरवादेन.
५७८. कायं विवरित्वाति जत्तुम्पि उरम्पि विवरित्वा. सुप्पटिच्छन्नेनाति न ससीसं पारुतेन; अथ खो गण्ठिकं पटिमुञ्चित्वा अनुवातन्तेन गीवं पटिच्छादेत्वा उभो कण्णे समं कत्वा पटिसंहरित्वा याव मणिबन्धं पटिच्छादेत्वा अन्तरघरे गन्तब्बं. दुतियसिक्खापदे – गलवाटकतो पट्ठाय सीसं मणिबन्धतो पट्ठाय हत्थे पिण्डिकमंसतो च पट्ठाय पादे विवरित्वा निसीदितब्बं.
५७९. वासूपगतस्साति वासत्थाय उपगतस्स रत्तिभागे वा दिवसभागे वा कायं विवरित्वापि निसीदतो अनापत्ति.
५८०. सुसंवुतोति हत्थं वा पादं वा अकीळापेन्तो; सुविनीतोति अत्थो.
५८२. ओक्खित्तचक्खूति हेट्ठा खित्तचक्खु हुत्वा. युगमत्तं पेक्खमानोति युगयुत्तको हि दन्तो आजानेय्यो युगमत्तं पेक्खति, पुरतो चतुहत्थप्पमाणं भूमिभागं; इमिनापि एत्तकं पेक्खन्तेन गन्तब्बं. यो अनादरियं पटिच्च तहं तहं ओलोकेन्तोति यो तंतंदिसाभागं पासादं कूटागारं वीथिं ओलोकेन्तो गच्छति, आपत्ति दुक्कटस्स. एकस्मिं पन ठाने ठत्वा हत्थिअस्सादिपरिस्सयाभावं ओलोकेतुं वट्टति. निसीदन्तेनापि ओक्खित्तचक्खुनाव निसीदितब्बं.
५८४. उक्खित्तकायाति उक्खेपेन; इत्थम्भूतलक्खणे करणवचनं एकतो वा उभतो वा उक्खित्तचीवरो हुत्वाति अत्थो. अन्तोइन्दखीलतो पट्ठाय न एवं गन्तब्बं. निसिन्नकाले पन धमकरणं नीहरन्तेनापि चीवरं अनुक्खिपित्वाव नीहरितब्बन्ति.
पठमो वग्गो.