३. अयोगुळवग्गो

२. अयोगुळसुत्तवण्णना

८३४. ततियवग्गस्स दुतिये इमिना चातुमहाभूतिकेनाति इमिना चतुमहाभूतमयेन एवं भारिकेन गरुकेन समानेनापि. ओमातीति पहोति सक्कोति, इदं तेपिटके बुद्धवचने असम्भिन्नपदं. कायम्पि चित्ते समोदहतीति कायं गहेत्वा चित्ते आरोपेति, चित्तसन्निस्सितं करोति, चित्तगतिया पेसेति. चित्तं नाम महग्गतचित्तं, चित्तगतिगमनं लहुकं होति. चित्तम्पि काये समोदहतीति चित्तं गहेत्वा काये आरोपेति, कायसन्निस्सितं करोति, कायगतिया पेसेति, कायो नाम करजकायो, कायगतिगमनं दन्धं होति. सुखसञ्ञञ्च लहुसञ्ञञ्चाति अभिञ्ञाचित्तसहजातसञ्ञा. सा हि सन्तसुखसमन्नागतत्ता सुखसञ्ञा नाम होति, किलेसदन्धायितत्तस्स च अभावा लहुसञ्ञा नाम.

अयोगुळो दिवसं सन्तत्तो लहुतरो चेव होतीति सो हि द्वीहि तीहि जनेहि उक्खिपित्वा कम्मारुद्धने पक्खित्तोपि दिवसं पच्चमानो विवरानुपविट्ठेन तेजेन चेव वायेन च वायोसहगतो च उस्मासहगतो च तेजोसहगतो च हुत्वा एवं लहुको होति, यथा नं कम्मारो महासण्डासेन गहेत्वा एकतो परिवत्तेति उक्खिपति बहि नीहरति. एवं पन मुदु च होति कम्मनियो च. यथा नं सो खण्डं खण्डं विच्छिन्दति, कूटेन हनन्तो दीघचतुरस्सादिभेदं करोति. इमस्मिं सुत्ते विकुब्बनिद्धि कथिता.

३-१०. भिक्खुसुत्तादिवण्णना

८३५-८४२. ततिये विवट्टपादकिद्धि कथिता, तथा चतुत्थे. अपिच द्वे फलानि आदिं कत्वा हेट्ठा मिस्सकिद्धिपादा कथिता, सत्तसु फलेसु पुब्बभागा. सत्तमादीनि चत्तारि हेट्ठा कथितनयानेव.

११-१२. मोग्गल्लानसुत्तादिवण्णना

८४३-८४४. एकादसमद्वादसमेसु छ अभिञ्ञा कथिता. सेसं सब्बत्थ उत्तानत्थमेवाति.

इद्धिपादसंयुत्तवण्णना निट्ठिता.