४. एकबीजीसुत्तवण्णना
४९४. चतुत्थे ततो मुदुतरेहीति विपस्सनतो निस्सक्कं वेदितब्बं. समत्तानि हि पञ्चिन्द्रियानि अरहत्तमग्गस्स विपस्सनिन्द्रियानि नाम होन्ति, ततो मुदुतरानि अन्तरापरिनिब्बायिस्स विपस्सनिन्द्रियानि, ततो मुदुतरानि उपहच्चपरिनिब्बायिस्स, ततो मुदुतरानि असङ्खारपरिनिब्बायिस्स, ततो मुदुतरानि ससङ्खारपरिनिब्बायिस्स, ततो मुदुतरानि उद्धंसोतअकनिट्ठगामिस्स विपस्सनिन्द्रियानि नाम. इधापि पुरिमनयेनेव अरहत्तमग्गे ठत्वा पञ्च निस्सक्कानि नीहरितब्बानि.
यथा पन पुरिमनये सकदागामिमग्गे ठत्वा तीणि निस्सक्कानि, एवमिध पञ्च नीहरितब्बानि. सकदागामिमग्गस्स हि विपस्सनिन्द्रियेहि मुदुतरानि सोतापत्तिमग्गस्स विपस्सनिन्द्रियानि, सोतापत्तिमग्गस्स च तेहि विपस्सनिन्द्रियेहि मुदुतरानि एकबीजिआदीनं मग्गस्स विपस्सनिन्द्रियानि.
एत्थ च एकबीजीतिआदीसु यो सोतापन्नो हुत्वा एकमेव अत्तभावं जनेत्वा अरहत्तं पापुणाति, अयं एकबीजी नाम. यथाह ‘‘कतमो च पुग्गलो एकबीजी, इधेकच्चो पुग्गलो तिण्णं संयोजनानं परिक्खया सोतापन्नो होति अविनिपातधम्मो नियतो सम्बोधिपरायणो, सो एकञ्ञेव मानुसकं भवं सन्धावित्वा संसरित्वा दुक्खस्सन्तं करोति. अयं वुच्चति पुग्गलो एकबीजी’’ति (पु. प. ३३).
यो पन द्वे तयो भवे संसरित्वा दुक्खस्सन्तं करोति, अयं कोलंकोलो नाम. यथाह ‘‘कतमो च पुग्गलो कोलंकोलो. इधेकच्चो पुग्गलो तिण्णं संयोजनानं परिक्खया सोतापन्नो होति अविनिपातधम्मो नियतो सम्बोधिपरायणो, सो द्वे वा तीणि वा कुलानि सन्धावित्वा संसरित्वा दुक्खस्सन्तं करोति. अयं वुच्चति पुग्गलो कोलंकोलो’’ति (पु. प. ३२). तत्थ कुलानीति भवा वेदितब्बा. ‘‘द्वे वा तीणि वा’’ति इदं देसनामत्तमेव, याव छट्ठभवा संसरन्तो पन कोलंकोलोव होति.
यस्स सत्तक्खत्तुं परमा उपपत्ति, अट्ठमं भवं नादियति, अयं सत्तक्खत्तुपरमो नाम. यथाह ‘‘कतमो च पुग्गलो सत्तक्खत्तुपरमो. इधेकच्चो पुग्गलो तिण्णं संयोजनानं परिक्खया सोतापन्नो होति अविनिपातधम्मो नियतो सम्बोधिपरायणो, सो सत्तक्खत्तुं देवे च मनुस्से च सन्धावित्वा संसरित्वा दुक्खस्सन्तं करोति, अयं वुच्चति पुग्गलो सत्तक्खत्तुपरमो’’ति (पु. प. ३१).
भगवता गहितनामवसेनेव चेतानि तेसं नामानि. ‘‘एत्तकञ्हि ठानं गतो एकबीजी नाम होति, एत्तकं कोलंकोलो, एत्तकं सत्तक्खत्तुपरमो’’ति भगवता एतेसं नामं गहितं. नियमतो पन ‘‘अयं एकबीजी, अयं कोलंकोलो, अयं सत्तक्खत्तुपरमो’’ति नत्थि.
को पन नेसं एतं पभेदं नियमेतीति? केचि पन थेरा ‘‘पुब्बहेतु नियमेती’’ति वदन्ति, केचि ‘‘पठममग्गो’’, केचि ‘‘उपरिम तयो मग्गा’’, केचि ‘‘तिण्णं मग्गानं विपस्सना’’ति. तत्थ ‘‘पुब्बहेतु नियमेती’’ति वादे पठममग्गस्स उपनिस्सयो कतो नाम होति, उपरि तयो मग्गा अनुपनिस्सया उप्पन्नाति वचनं आपज्जति. ‘‘पठममग्गो नियमेती’’ति वादे उपरि तिण्णं मग्गानं निरत्थकता आपज्जति. ‘‘उपरि तयो मग्गा नियमेन्ती’’ति वादे पठममग्गे अनुप्पन्नेव उपरि तयो मग्गा उप्पन्नाति आपज्जति. ‘‘तिण्णं मग्गानं विपस्सना नियमेती’’ति वादो पन युज्जति. सचे हि उपरि तिण्णं मग्गानं विपस्सना बलवती होति, एकबीजी नाम होति, ततो मन्दतराय कोलंकोलो, ततो मन्दतराय सत्तक्खत्तुपरमोति.
एकच्चो हि सोतापन्नो वट्टज्झासयो होति वट्टाभिरतो पुनप्पुनं वट्टस्मिंयेव विचरति सन्दिस्सति. अनाथपिण्डिको सेट्ठि, विसाखा उपासिका, चूळरथमहारथा देवपुत्ता, अनेकवण्णो देवपुत्तो, सक्को देवराजा, नागदत्तो देवपुत्तोति इमे हि एत्तका जना वट्टज्झासया वट्टाभिरता आदितो पट्ठाय छ देवलोके सोधेत्वा अकनिट्ठे ठत्वा परिनिब्बायिस्सन्ति, इमे इध न गहिता. न केवलञ्चिमे, योपि मनुस्सेसुयेव सत्तक्खत्तुं संसरित्वा अरहत्तं पापुणाति, योपि देवलोके निब्बत्तो देवेसुयेव सत्तक्खत्तुं अपरापरं संसरित्वा अरहत्तं पापुणाति, इमेपि इध न गहिता. कालेन देवे, कालेन मनुस्से संसरित्वा पन अरहत्तं पापुणन्तोव इध गहितो. तस्मा सत्तक्खत्तुपरमोति इदं इधट्ठकवोकिण्णसुक्खविपस्सकस्स नामं कथितन्ति वेदितब्बं.
धम्मानुसारी सद्धानुसारीति एत्थ पन इमस्मिं सासने लोकुत्तरधम्मं निब्बत्तेन्तस्स द्वे धुरानि, द्वे सीसानि, द्वे अभिनिवेसा – सद्धाधुरं, पञ्ञाधुरं, सद्धासीसं, पञ्ञासीसं, सद्धाभिनिवेसो, पञ्ञाभिनिवेसोति. तत्थ यो भिक्खु ‘‘सचे सद्धाय सक्का निब्बत्तेतुं, निब्बत्तेस्सामि लोकुत्तरमग्ग’’न्ति सद्धं धुरं कत्वा सोतापत्तिमग्गं निब्बत्तेति, सो मग्गक्खणे सद्धानुसारी नाम होति. फलक्खणे पन सद्धाविमुत्तो नाम हुत्वा एकबीजी कोलंकोलो सत्तक्खत्तुपरमोति तिविधो होति. तत्थ एकेको दुक्खापटिपदादिवसेन चतुब्बिधभावं आपज्जतीति सद्धाधुरेन द्वादस जना होन्ति.
यो पन ‘‘सचे पञ्ञाय सक्का निब्बत्तेतुं, निब्बत्तेस्सामि लोकुत्तरमग्ग’’न्ति पञ्ञं धुरं कत्वा सोतापत्तिमग्गं निब्बत्तेति, सो मग्गक्खणे धम्मानुसारी नाम होति. फलक्खणे पन पञ्ञाविमुत्तो नाम हुत्वा एकबीजिआदिभेदेन द्वादसभेदोव होति. एवं द्वे मग्गट्ठा फलक्खणे चतुवीसति सोतापन्ना होन्तीति.
तिपिटकतिस्सत्थेरो किर ‘‘तीणि पिटकानि सोधेस्सामी’’ति परतीरं गतो. तं एको कुटुम्बिको चतूहि पच्चयेहि उपट्ठासि, थेरो आगमनकाले ‘‘गच्छामि उपासका’’ति आह. ‘‘कहं भन्ते’’ति? ‘‘अम्हाकं आचरियुपज्झायानं सन्तिक’’न्ति. ‘‘न सक्का, भन्ते, मया गन्तुं, भद्दन्तं पन निस्साय मया सासनस्स गुणो ञातो, तुम्हाकं परम्मुखा कीदिसं भिक्खुं उपसङ्कमामी’’ति? अथ नं थेरो आह – ‘‘यो भिक्खु चतुवीसति सोतापन्ने द्वादस सकदागामी अट्ठचत्तालीस अनागामी द्वादस अरहन्ते दस्सेत्वा धम्मकथं कथेतुं सक्कोति, एवरूपं भिक्खुं उपट्ठातुं वट्टती’’ति. इमस्मिं सुत्ते विपस्सना कथिताति.