२. नालन्दवग्गो
२. नालन्दसुत्तवण्णना
३७८. दुतियवग्गस्स दुतिये नालन्दायन्ति नालन्दाति एवंनामके नगरे, तं नगरं गोचरगामं कत्वा. पावारिकम्बवनेति दुस्सपावारिकसेट्ठिनो अम्बवने. तं किर तस्स उय्यानं अहोसि. सो भगवतो धम्मदेसनं सुत्वा भगवति पसन्नो तस्मिं उय्याने कुटिलेणमण्डपादिपटिमण्डितं भगवतो विहारं कत्वा निय्यातेसि. सो विहारो जीवकम्बवनं विय पावारिकम्बवनन्त्वेव सङ्खं गतो. तस्मिं पावारिकम्बवने विहरतीति अत्थो.
एवंपसन्नोति एवं उप्पन्नसद्धो, एवं सद्दहामीति अत्थो. भिय्योभिञ्ञतरोति भिय्यतरो अभिञ्ञातो भिय्यतराभिय्यो वा, उत्तरितरञाणोति अत्थो. सम्बोधियन्ति सब्बञ्ञुतञ्ञाणे अरहत्तमग्गञाणे वा अरहत्तमग्गेनेव हि बुद्धगुणा निप्पदेसा गहिता होन्ति, द्वेपि अग्गसावका अरहत्तमग्गेनेव सावकपारमीञाणं पटिलभन्ति, पच्चेकबुद्धा पच्चेकबोधिञाणं, बुद्धा सब्बञ्ञुतञ्ञाणञ्चेव सकले च बुद्धगुणे. सब्बम्पि नेसं अरहत्तमग्गेनेव इज्झति. तस्मा अरहत्तमग्गञाणं सम्बोधि नाम होति. तेन उत्तरितरो च भगवता नत्थि. तेनाह ‘‘भगवता भिय्योभिञ्ञतरो, यदिदं सम्बोधिय’’न्ति.
उळाराति सेट्ठा. अयञ्हि उळारसद्दो ‘‘उळारानि खादनीयानि खादन्ती’’तिआदीसु (म. नि. १.३६६) मधुरे आगच्छति. ‘‘उळाराय खलु भवं वच्छायनो समणं गोतमं पसंसाय पसंसती’’तिआदीसु (म. नि. १.२८८) सेट्ठे. ‘‘अप्पमाणो उळारो ओभासो’’तिआदीसु (दी. नि. २.३२; म. नि. ३.२०१) विपुले. स्वायमिध सेट्ठे आगतो. तेन वुत्तं ‘‘उळाराति सेट्ठा’’ति. आसभीति उसभस्स वाचासदिसी अचला असम्पवेधी. एकंसो गहितोति अनुस्सवेन वा आचरियपरम्पराय वा इतिकिराय वा पिटकसम्पदानेन वा आकारपरिवितक्केन वा दिट्ठिनिज्झानक्खन्तिया वा तक्कहेतु वा नयहेतु वा अकथेत्वा पच्चक्खतो ञाणेन पटिविज्झित्वा विय एकंसो गहितो, सन्निट्ठानकथाव कथिताति अत्थो. सीहनादोति सेट्ठनादो, वने उन्नादयन्तेन सीहेन विय उत्तमनादो नदितोति अत्थो.
किं नु ते सारिपुत्ताति इमं देसनं कस्मा आरभि? अनुयोगदापनत्थं. एकच्चो हि सीहनादं नदित्वा अत्तनो सीहनादे अनुयोगं दातुं न सक्कोति, निघंसनं न खमति, सिलेसे पतितमक्कटो विय होति. यथा धममानं अपरिसुद्धं लोहं झायित्वा अङ्गारो होति, एवं झामङ्गारो विय होति. एको सीहनादे अनुयोगं दापियमानो दातुं सक्कोति, निघंसनं खमति, धममानं निद्दोसजातरूपं विय अधिकतरं सोभति, तादिसो थेरो. तेन नं भगवा ‘‘अनुयोगक्खमो अय’’न्ति ञत्वा सीहनादे अनुयोगदापनत्थं इमं देसनं आरभि.
तत्थ सब्बे तेति सब्बे ते तया. एवंसीलाति मग्गसीलेन फलसीलेन लोकियलोकुत्तरसीलेन एवंसीला. एवंधम्माति एत्थ समाधिपक्खा धम्मा अधिप्पेता, मग्गसमाधिना फलसमाधिना लोकियलोकुत्तरेन समाधिना एवंसमाधीति अत्थो. एवंपञ्ञाति मग्गपञ्ञादिवसेनेव एवंपञ्ञा. एवंविहारिनोति एत्थ पन हेट्ठा समाधिपक्खानं धम्मानं गहितत्ता विहारो गहितोपि पुन कस्मा गहितमेव गण्हतीति चे. थेरेन इदं गहितमेव. इदञ्हि निरोधसमापत्तिदीपनत्थं वुत्तं. तस्मा एवं निरोधसमापत्तिविहारिनो ते भगवन्तो अहेसुन्ति एवमेत्थ अत्थो दट्ठब्बो.
एवंविमुत्ताति एत्थ विक्खम्भनविमुत्ति, तदङ्गविमुत्ति, समुच्छेदविमुत्ति, पटिपस्सद्धिविमुत्ति, निस्सरणविमुत्तीति पञ्चविधा विमुत्ति. तत्थ अट्ठ समापत्तियो सयं विक्खम्भितेहि नीवरणादीहि विमुत्तत्ता विक्खम्भनविमुत्तीति सङ्खं गच्छन्ति. अनिच्चानुपस्सनादिका सत्त अनुपस्सना सयं तस्स तस्स पच्चनीकवसेन परिच्चत्ताहि निच्चसञ्ञादीहि विमुत्तत्ता तदङ्गविमुत्तीति सङ्खं गच्छन्ति. चत्तारो अरियमग्गा सयं समुच्छिन्नेहि किलेसेहि विमुत्तत्ता समुच्छेदविमुत्तीति सङ्खं गच्छन्ति. चत्तारि सामञ्ञफलानि मग्गानुभावेन किलेसानं पटिपस्सद्धन्ते उप्पन्नत्ता पटिपस्सद्धिविमुत्तीति सङ्खं गच्छन्ति. निब्बानं सब्बकिलेसेहि निस्सटत्ता अपगतत्ता दूरे ठितत्ता निस्सरणविमुत्तीति सङ्खं गतं. इति इमासं पञ्चन्नं विमुत्तीनं वसेन एवं विमुत्ताति एत्थ अत्थो दट्ठब्बो.
किं पन ते सारिपुत्त ये ते भविस्सन्तीति अतीता ताव निरुद्धा अपण्णत्तिकभावं गता दीपसिखा विय निब्बुता, एवं निरुद्धे अपण्णत्तिकभावं गते त्वं कथं जानिस्ससि, अनागतबुद्धानं पन गुणा किं तया अत्तनो चित्तेन परिच्छिन्दित्वा विदिताति पुच्छन्तो एवमाह.
किं पन त्याहं सारिपुत्त एतरहीति अनागतापि बुद्धा अजाता अनिब्बत्ता अनुप्पन्ना, ते कथं जानिस्ससि. तेसञ्हि जाननं अपदे आकासे पददस्सनं विय होति. इदानि मया सद्धिं एकविहारे वससि, एकतो भिक्खाय चरसि, धम्मदेसनाकाले दक्खिणपस्से निसीदसि, किं पन मय्हं गुणा अत्तनो चेतसा परिच्छिन्दित्वा विदिता तयाति अनुयुञ्जन्तो एवमाह. थेरो पन पुच्छितपुच्छिते ‘‘नो हेतं भन्ते’’ति पटिक्खिपति.
थेरस्स च विदितम्पि अत्थि, अविदितम्पि. किं सो अत्तनो विदितट्ठाने पटिक्खेपं करोति, अविदितट्ठानेति? विदितट्ठाने न करोति, अविदितट्ठानेयेव करोति. थेरो किर अनुयोगे आरद्धे एवं अञ्ञासि ‘‘नायं अनुयोगो सावकपारमीञाणे, सब्बञ्ञुतञ्ञाणे पन अयं अनुयोगो’’ति अत्तनो सावकपारमीञाणे पटिक्खेपं अकत्वाव अविदितट्ठाने सब्बञ्ञुतञ्ञाणे पटिक्खेपं करोति. तेन इदम्पि दीपेति – भगवा मय्हं अतीतानागतपच्चुप्पन्नानं बुद्धानं सीलसमाधिपञ्ञाविमुत्तिकारणजाननसमत्थं सब्बञ्ञुतञ्ञाणं नत्थीति.
एत्थाति एतेसु अतीतादिभेदेसु बुद्धेसु. अथ किञ्चरहीति अथ कस्मा एवं ञाणे असति तया एवं कथितन्ति वदति. धम्मन्वयोति धम्मस्स पच्चक्खतो ञाणस्स अनुयोगं अनुगन्त्वा उप्पन्नं अनुमानञाणं नयग्गाहो विदितो, सावकपारमीञाणे ठत्वाव इमिना आकारेन जानामि भगवाति वदति. थेरस्स हि नयग्गाहो अप्पमाणो अपरियन्तो. यथा च सब्बञ्ञुतञ्ञाणस्स पमाणं वा परियन्तो वा नत्थि, एवं धम्मसेनापतिनो नयग्गाहस्स. तेन सो – ‘‘इमिना एवंविधो इमिना एवंविधो, इमिना अनुत्तरो इमिना अनुत्तरो सत्था’’ति जानाति. थेरस्स हि नयग्गाहो सब्बञ्ञुतञ्ञाणगतिको एव.
इदानि तं नयग्गाहं पाकटं कातुं उपमं दस्सेन्तो सेय्यथापि भन्तेतिआदिमाह. तत्थ यस्मा मज्झिमदेसे नगरस्स उद्धापपाकारादीनि थिरानि वा होन्तु दुब्बलानि वा, सब्बसो वा पन मा होन्तु, चोरानं आसङ्का न होति. तस्मा तं अग्गहेत्वा पच्चन्तिमं नगरन्ति आह. दळ्हुद्धापन्ति थिरमूलपाकारं. दळ्हपाकारतोरणन्ति थिरपाकारञ्चेव थिरपिट्ठसङ्घाटञ्च. एकद्वारन्ति कस्मा आह? बहुद्वारे हि नगरे बहूहि पण्डितदोवारिकेहि भवितब्बं, एकद्वारेव एको वट्टति. थेरस्स च पञ्ञाय सदिसो अञ्ञो नत्थि, तस्मा अत्तनो पण्डितभावस्स ओपम्मत्थं एकंयेव दोवारिकं दस्सेतुं ‘‘एकद्वार’’न्ति आह.
पण्डितोति पण्डिच्चेन समन्नागतो. ब्यत्तोति वेय्यत्तियेन समन्नागतो विसदञाणो. मेधावीति ठानुप्पत्तिकपञ्ञासङ्खाताय मेधाय समन्नागतो. अनुपरियायपथन्ति अनुपरियायनामकं पाकारमग्गं. पाकारसन्धिन्ति द्विन्नं इट्ठकानं अपगतट्ठानं. पाकारविवरन्ति पाकारस्स छिन्नट्ठानं. चेतसो उपक्किलेसेति पञ्चनीवरणा चित्तं उपक्किलिस्सन्ति किलिट्ठं करोन्ति उपतापेन्ति विहेठेन्ति, तस्मा ‘‘चेतसो उपक्किलेसा’’ति वुच्चन्ति. पञ्ञाय दुब्बलीकरणेति नीवरणा उप्पज्जमाना अनुप्पन्नाय पञ्ञाय उप्पज्जितुं न देन्ति, तस्मा ‘‘पञ्ञाय दुब्बलीकरणा’’ति वुच्चन्ति. सुपतिट्ठितचित्ताति चतूसु सतिपट्ठानेसु सुट्ठु ठपितचित्ता हुत्वा. सत्त बोज्झङ्गे यथाभूतन्ति सत्त बोज्झङ्गे यथासभावेन भावेत्वा. अनुत्तरं सम्मासम्बोधिन्ति अरहत्तं सब्बञ्ञुतञ्ञाणं पटिविज्झिंसूति दस्सेति.
अपिचेत्थ सतिपट्ठानाति विपस्सना, बोज्झङ्गा मग्गो, अनुत्तरसम्मासम्बोधि अरहत्तं. सतिपट्ठानाति वा विपस्सना, बोज्झङ्गामिस्सका, सम्मासम्बोधि अरहत्तमेव. दीघभाणकमहासीवत्थेरो पनाह ‘‘सतिपट्ठाने विपस्सनं गहेत्वा बोज्झङ्गे मग्गो च सब्बञ्ञुतञ्ञाणञ्चाति गहिते सुन्दरो पञ्हो भवेय्य, न पनेवं गहित’’न्ति. इति थेरो सब्बबुद्धानं नीवरणप्पहाने सतिपट्ठानभावनाय सम्बोधियञ्च मज्झे भिन्नसुवण्णरजतानं विय नानत्ताभावं दस्सेति.
इध ठत्वा उपमा संसन्देतब्बा – आयस्मा हि सारिपुत्तो पच्चन्तनगरं दस्सेसि, पाकारं दस्सेसि, अनुपरियायपथं दस्सेसि, द्वारं दस्सेसि, पण्डितदोवारिकं दस्सेसि, नगरं पविसनकनिक्खमनके ओळारिके पाणे दस्सेसि, दोवारिकस्स तेसं पाणानं पाकटभावं दस्सेसि. तत्थ किं केन सदिसन्ति चे? नगरं विय हि निब्बानं, पाकारो विय सीलं, अनुपरियायपथो विय हिरी, द्वारं विय अरियमग्गो, पण्डितदोवारिको विय धम्मसेनापति, नगरं पविसनकनिक्खमनका ओळारिकपाणा विय अतीतानागतपच्चुप्पन्ना बुद्धा, दोवारिकस्स तेसं पाणानं पाकटभावो विय आयस्मतो सारिपुत्तस्स अतीतानागतपच्चुप्पन्नानं बुद्धानं सीलसमथादीहि पाकटभावो. एत्तावता थेरेन भगवतो – ‘‘एवमहं सावकपारमीञाणे ठत्वा धम्मन्वयेन नयग्गाहेन जानामी’’ति अत्तनो सीहनादस्स अनुयोगो दिन्नो होति.
तस्माति यस्मा ‘‘न खो मेतं, भन्ते, अतीतानागतपच्चुप्पन्नेसु अरहन्तेसु सम्मासम्बुद्धेसु चेतोपरियञाणं अत्थि, अपिच धम्मन्वयो विदितो’’ति वदति, तस्मा. अभिक्खणं भासेय्यासीति पुनप्पुनं भासेय्यासि, ‘‘पुब्बण्हे मे कथित’’न्ति मा मज्झन्हिकादीसु न कथयित्थ, ‘‘अज्ज वा मे कथित’’न्ति मा परदिवसादीसु न कथयित्थाति अत्थो. सा पहीयिस्सतीति ‘‘सारिपुत्तसदिसोपि नाम ञाणजवनसम्पन्नो सावको बुद्धानं चित्ताचारं जानितुं न सक्कोति, एवं अप्पमेय्या तथागता’’ति चिन्तेन्तानं या तथागते कङ्खा वा विमति वा, सा पहीयिस्सतीति.
३. चुन्दसुत्तवण्णना
३७९. ततिये मगधेसूति एवंनामके जनपदे. नालकगामकेति राजगहस्स अविदूरे अत्तनो कुलसन्तके एवंनामके गामे. चुन्दो समणुद्देसोति अयं थेरो धम्मसेनापतिस्स कनिट्ठभातिको, तं भिक्खू अनुपसम्पन्नकाले ‘‘चुन्दो समणुद्देसो’’ति समुदाचरित्वा थेरकालेपि तथेव समुदाचरिंसु. तेन वुत्तं ‘‘चुन्दो समणुद्देसो’’ति. उपट्ठाको होतीति मुखोदकदन्तकट्ठदानेन चेव परिवेणसम्मज्जन-पिट्ठिपरिकम्मकरण-पत्तचीवरग्गहणेन च उपट्ठानकरो होति. परिनिब्बायीति अनुपादिसेसाय निब्बानधातुया परिनिब्बुतो. कतरस्मिं कालेति? भगवतो परिनिब्बानसंवच्छरे.
तत्रायं अनुपुब्बिकथा – भगवा किर वुत्थवस्सो वेळुवगामका निक्खमित्वा ‘‘सावत्थिं गमिस्सामी’’ति आगतमग्गेनेव पटिनिवत्तन्तो अनुपुब्बेन सावत्थिं पत्वा जेतवनं पाविसि. धम्मसेनापति भगवतो वत्तं दस्सेत्वा दिवाट्ठानं गतो, सो तत्थ अन्तेवासिकेसु वत्तं दस्सेत्वा पटिक्कन्तेसु दिवाट्ठानं सम्मज्जित्वा चम्मखण्डं पञ्ञापेत्वा पादे पक्खालेत्वा पल्लङ्कं आभुजित्वा फलसमापत्तिं पाविसि. अथस्स यथा परिच्छेदेन ततो वुट्ठितस्स अयं परिवितक्को उदपादि ‘‘बुद्धा नु खो पठमं परिनिब्बायन्ति, उदाहु अग्गसावकाति, ततो ‘‘अग्गसावका पठम’’न्ति ञत्वा अत्तनो आयुसङ्खारं ओलोकेसि. सो ‘‘सत्ताहमेव मे आयुसङ्खारा पवत्तिस्सन्ती’’ति ञत्वा ‘‘कत्थ परिनिब्बायिस्सामी’’ति चिन्तेसि.
ततो ‘‘राहुलो तावतिंसेसु परिनिब्बुतो, अञ्ञासिकोण्डञ्ञत्थेरो छद्दन्तदहे, अहं कत्थ परिनिब्बायिस्सामी’’ति पुनप्पुनं चिन्तेन्तो मातरं आरब्भ सतिं उप्पादेसि – ‘‘मय्हं माता सत्तन्नं अरहन्तानं माता हुत्वापि बुद्धधम्मसङ्घेसु अप्पसन्ना, अत्थि नु खो तस्सा उपनिस्सयो, नत्थि नु खो’’ति. सोतापत्तिमग्गस्स उपनिस्सयं दिस्वा ‘‘कस्स देसनाय अभिसमयो भविस्सती’’ति ओलोकेन्तो ‘‘ममेव धम्मदेसनाय भविस्सति, न अञ्ञस्स. सचे खो पनाहं अप्पोस्सुक्को भवेय्यं, भविस्सन्ति मे वत्तारो – ‘‘सारिपुत्तत्थेरो अवसेसजनानम्पि अवस्सयो होति. तथा हिस्स समचित्तसुत्तन्तदेसनादिवसे (अ. नि. २.३३-३७) कोटिसतसहस्सदेवता अरहत्तं पत्ता, तयो मग्गे पटिविद्धदेवतानं गणना नत्थि, अञ्ञेसु च ठानेसु अनेका अभिसमया दिस्सन्ति, थेरे च चित्तं पसादेत्वा सग्गे निब्बत्तानेव असीति कुलसहस्सानि, सो दानि सकमातुमिच्छादस्सनमत्तम्पि हरितुं नासक्खी’’ति. तस्मा मातरं मिच्छादस्सना मोचेत्वा जातोवरकेयेव परिनिब्बायिस्सामी’’ति सन्निट्ठानं कत्वा ‘‘अज्जेव भगवन्तं अनुजानापेत्वा निक्खमिस्सामी’’ति चुन्दत्थेरं आमन्तेसि – ‘‘आवुसो, चुन्द, अम्हाकं पञ्चसताय भिक्खुपरिसाय सञ्ञं देहि. ‘गण्हथावुसो पत्तचीवरानि, धम्मसेनापति नालकगामं गन्तुकामो’’’ति. थेरो तथा अकासि.
भिक्खू सेनासनं संसामेत्वा पत्तचीवरमादाय थेरस्स सन्तिकं अगमंसु. थेरो सेनासनं संसामेत्वा दिवाट्ठानं सम्मज्जित्वा दिवाट्ठानद्वारे ठत्वा दिवाट्ठानं ओलोकेत्वा ‘‘इदं दानि पच्छिमदस्सनं, पुन आगमनं नत्थी’’ति पञ्चसतभिक्खूहि परिवुतो भगवन्तं उपसङ्कमित्वा वन्दित्वा भगवन्तं एतदवोच ‘‘अनुजानातु मे भन्ते भगवा, अनुजानातु सुगतो. परिनिब्बानकालो मे, ओस्सट्ठो मे आयुसङ्खारो’’ति. बुद्धा पन यस्मा ‘‘परिनिब्बाही’’ति वुत्ते मरणवण्णं संवण्णेन्तीति, ‘‘मा परिनिब्बाही’’ति वुत्ते वट्टस्स गुणं कथेन्तीति मिच्छादिट्ठिका दोसं आरोपेस्सन्ति, तस्मा तदुभयम्पि न वदन्ति. तेन नं भगवा – ‘‘कत्थ परिनिब्बायिस्ससि सारिपुत्ता’’ति वत्वा – ‘‘अत्थि, भन्ते, मगधेसु नालकगामे जातोवरको, तत्थाहं परिनिब्बायिस्सामी’’ति वुत्ते – ‘‘यस्स दानि त्वं, सारिपुत्त, कालं मञ्ञसि, इदानि पन ते जेट्ठकनिट्ठभातिकानं तादिसस्स भिक्खुनो दस्सनं दुल्लभं भविस्सति, देसेहि नेसं धम्म’’न्ति आह.
थेरो – ‘‘सत्था मय्हं इद्धिविकुब्बनपुब्बङ्गमं धम्मदेसनं पच्चासीसती’’ति ञत्वा भगवन्तं वन्दित्वा तालप्पमाणं आकासं अब्भुग्गन्त्वा ओरुय्ह दसबलस्स पादे वन्दि, पुन द्वितालप्पमाणं अब्भुग्गन्त्वा ओरुय्ह दसबलस्स पादे वन्दि, एतेनुपायेन सत्ततालप्पमाणं अब्भुग्गन्त्वा अनेकानि पाटिहारियसतानि दस्सेन्तो धम्मकथं आरभि. दिस्समानेनपि कायेन कथेति, अदिस्समानेनपि. उपरिमेन वा हेट्ठिमेन वा उपड्ढकायेन कथेति अदिस्समानेनपि दिस्समानेनपि, कालेन चन्दवण्णं दस्सेति, कालेन सूरियवण्णं, कालेन पब्बतवण्णं, कालेन समुद्दवण्णं, कालेन चक्कवत्तिराजा होति, कालेन वेस्सवणमहाराजा, कालेन सक्को देवराजा, कालेन महाब्रह्माति एवं अनेकानि पाटिहारियसतानि दस्सेन्तो धम्मकथं कथेसि. सकलनगरं सन्निपति. थेरो ओरुय्ह दसबलस्स पादे वन्दित्वा अट्ठासि. अथ नं सत्था आह – ‘‘को नामो अयं सारिपुत्त धम्मपरियायो’’ति. सीहविकीळितो नाम, भन्तेति. तग्घ, सारिपुत्त, सीहविकीळितो तग्घ, सारिपुत्त, सीहविकीळितोति.
थेरो अलत्तकवण्णे हत्थे पसारेत्वा सत्थु सुवण्णकच्छपसदिसे पादे गोप्फकेसु गहेत्वा – ‘‘भन्ते, इमेसं पादानं वन्दनत्थाय कप्पसतसहस्साधिकं असङ्ख्येय्यं पारमियो पूरिता, सो मे मनोरथो मत्थकं पत्तो, इतो दानि पट्ठाय पटिसन्धिवसेन न पुन एकट्ठाने सन्निपातो समागमो अत्थि, छिन्नो एस विस्सासो, अनेकेहि बुद्धसतसहस्सेहि पविट्ठं अजरं अमरं खेमं सुखं सीतलं अभयं निब्बानपुरं पविसिस्सामि, सचे मे किञ्चि कायिकं वा वाचसिकं वा न रोचेथ, खमथ तं भगवा, गमनकालो मय्ह’’न्ति. खमामि ते, सारिपुत्त, न खो पन ते किञ्चि कायिकं वा वाचसिकं वा मय्हं अरुच्चनकं अत्थि, यस्स दानि त्वं, सारिपुत्त, कालं मञ्ञसीति.
इति भगवता अनुञ्ञातसमनन्तरं सत्थु पादे वन्दित्वा उट्ठितमत्ते आयस्मन्ते सारिपुत्ते सिनेरुचक्कवाळहिमवन्तपरिभण्डपब्बते धारयमानापि – ‘‘अज्ज इमं गुणरासिं धारेतुं न सक्कोमी’’ति वदन्ती विय एकप्पहारेनेव विरवमाना महापथवी याव उदकपरियन्ता अकम्पि, आकासे देवदुन्दुभियो फलिंसु, महामेघो उट्ठहित्वा पोक्खरवस्सं वस्सि.
सत्था – ‘‘धम्मसेनापतिं पटिपादेस्सामी’’ति धम्मासना वुट्ठाय गन्धकुटिअभिमुखो गन्त्वा मणिफलके अट्ठासि. थेरो तिक्खत्तुं पदक्खिणं कत्वा चतूसु ठानेसु वन्दित्वा – ‘‘भगवा इतो कप्पसतसहस्साधिकस्स असङ्ख्येय्यस्स उपरि अनोमदस्सीसम्मासम्बुद्धस्स पादमूले निपज्जित्वा तुम्हाकं दस्सनं पत्थेसिं, सा मे पत्थना समिद्धा, दिट्ठा तुम्हे, तं पठमदस्सनं, इदं पच्छिमदस्सनं. पुन तुम्हाकं दस्सनं नत्थी’’ति वत्वा दसनखसमोधानसमुज्जलं अञ्जलिं पग्गय्ह याव दस्सनविसया अभिमुखोव पटिक्कमित्वा वन्दित्वा पक्कामि. पुन महापथवी धारेतुं असक्कोन्ती उदकपरियन्तं कत्वा अकम्पि.
भगवा परिवारेत्वा ठिते भिक्खू आह – ‘‘अनुगच्छथ, भिक्खवे, तुम्हाकं जेट्ठभातिक’’न्ति. तस्मिं खणे चतस्सोपि परिसा सम्मासम्बुद्धं एककंयेव जेतवने ओहाय निरवसेसा निक्खमिंसु. सावत्थिनगरवासिनोपि – ‘‘सारिपुत्तत्थेरो किर सम्मासम्बुद्धं आपुच्छित्वा परिनिब्बायितुकामो निक्खन्तो, पस्सिस्साम न’’न्ति नगरद्वारानि निरोकासानि करोन्ता निक्खमित्वा गन्धमालादिहत्था केसे विकिरित्वा – ‘‘इदानि मयं कहं महापञ्ञो निसिन्नो, कहं धम्मसेनापति निसिन्नो’’ति पुच्छन्ता – ‘‘कस्स सन्तिकं गमिस्साम, कस्स हत्थे सत्थारं ठपेत्वा थेरो पक्कन्तो’’तिआदिना नयेन परिदेवन्ता रोदन्ता थेरं अनुबन्धिंसु.
थेरो महापञ्ञाय ठितत्ता – ‘‘सब्बेसं अनतिक्कमनीयो एस मग्गो’’ति महाजनं ओवदित्वा – ‘‘तुम्हेपि, आवुसो, तिट्ठथ, मा दसबले पमादं आपज्जित्था’’ति भिक्खुसङ्घम्पि निवत्तेत्वा अत्तनो परिसायेव सद्धिं पक्कामि. येपि मनुस्सा – ‘‘पुब्बे अय्यो पच्चागमनचारिकं चरति, इदं इदानि गमनं न पुन पच्चागमनाया’’ति परिदेवन्ता अनुबन्धिंसुयेव. तेपि – ‘‘अप्पमत्ता, आवुसो, होथ, एवंभाविनो नाम सङ्खारा’’ति निवत्तेसि.
अथ खो आयस्मा सारिपुत्तो सब्बत्थ एकरत्तिवासेन अन्तरामग्गे सत्ताहं मनुस्सानं सङ्गहं करोन्तो सायं नालकगामं पत्वा गामद्वारे निग्रोधरुक्खमूले अट्ठासि. अथ उपरेवतो नाम थेरस्स भागिनेय्यो बहिगामं गच्छन्तो थेरं दिस्वा उपसङ्कमित्वा वन्दित्वा अट्ठासि. थेरो तं आह – ‘‘अत्थि गेहे ते अय्यिका’’ति. आम भन्तेति. गच्छ अम्हाकं इधागतभावं आरोचेहि. ‘‘कस्मा आगतो’’ति च वुत्ते – ‘‘अज्ज किर एकदिवसं अन्तोगामे वसिस्सति, जातोवरकं पटिजग्गथ, पञ्चन्नञ्च किर भिक्खुसतानं वसनट्ठानं जानाथा’’ति. सो गन्त्वा – ‘‘अय्यिके मय्हं मातुलो आगतो’’ति आह. इदानि कुहिन्ति? गामद्वारेति. एककोव, अञ्ञोपि कोचि अत्थीति? अत्थि पञ्चसता भिक्खूति. किंकारणा आगतोति? सो तं पवत्तिं आरोचेसि. ब्राह्मणी – ‘‘किं नु खो एत्तकानं वसनट्ठानं पटिजग्गापेति, दहरकाले पब्बजित्वा महल्लककाले गिही होतुकामो’’ति चिन्तेन्ती जातोवरकं पटिजग्गापेत्वा पञ्चसतानं वसनट्ठानं कारेत्वा दण्डदीपिका जालेत्वा थेरस्स पाहेसि.
थेरो भिक्खूहि सद्धिं पासादं आरुय्ह जातोवरकं पविसित्वा निसीदि, निसीदित्वा ‘‘तुम्हाकं वसनट्ठानं गच्छथा’’ति भिक्खू उय्योजेसि. तेसु गतमत्तेसुयेव थेरस्स खरो आबाधो उप्पज्जि, लोहितपक्खन्दिका मारणन्तिका वेदना वत्तन्ति. एकं भाजनं पविसति, एकं निक्खमति. ब्राह्मणी – ‘‘मम पुत्तस्स पवत्ति मय्हं न रुच्चती’’ति अत्तनो वसनगब्भद्वारं निस्साय अट्ठासि.
चत्तारो महाराजानो ‘‘धम्मसेनापति कुहिं विहरती’’ति ओलोकेन्ता नालकगामे जातोवरके परिनिब्बानमञ्चे निपन्नो, पच्छिमदस्सनं गमिस्सामा’’ति आगम्म वन्दित्वा अट्ठंसु. के तुम्हेति? महाराजानो भन्तेति. कस्मा आगतत्थाति? गिलानुपट्ठाका भविस्सामाति. ‘‘होतु, अत्थि गिलानुपट्ठाको, गच्छथ तुम्हे’’ति उय्योजेसि. तेसं गतावसाने तेनेव नयेन सक्को देवानमिन्दो. तस्मिं गते महाब्रह्मा च आगमिंसु. तेपि तथेव थेरो उय्योजेसि.
ब्राह्मणी देवतानं आगमनञ्च गमनञ्च दिस्वा ‘‘के नु खो एते मम पुत्तं वन्दित्वा गच्छन्ती’’ति थेरस्स गब्भद्वारं गन्त्वा ‘‘तात, चुन्द, का पवत्ती’’ति पुच्छि. सो तं पवत्तिं आचिक्खित्वा ‘‘महाउपासिका, भन्ते, आगता’’ति आह. थेरो ‘‘कस्मा अवेलाय आगता’’ति पुच्छि. सा ‘‘तुय्हं, तात, दस्सनत्थाया’’ति वत्वा ‘‘तात, पठमं के आगता’’ति पुच्छि. चत्तारो महाराजानो उपासिकेति. तात, त्वं चतूहि महाराजेहि महन्ततरोति? आरामिकसदिसा एते उपासिके, अम्हाकं सत्थु पटिसन्धिग्गहणतो पट्ठाय खग्गहत्था हुत्वा आरक्खं अकंसूति. तेसं तात गतावसाने को आगतोति? सक्को देवानमिन्दोति. देवराजतोपि त्वं तात महन्ततरोति? भण्डग्गाहकसामणेरसदिसो एस उपासिके, अम्हाकं सत्थु तावतिंसतो ओतरणकाले पत्तचीवरं गहेत्वा ओतिण्णोति. तस्स तात गतावसाने जोतयमानो विय को आगतोति? उपासिके, तुय्हं भगवा च सत्था च महाब्रह्मा नाम एसोति. मय्हं भगवतो महाब्रह्मतोपि त्वं, तात, महन्ततरोति? आम उपासिके, एते नाम किर अम्हाकं सत्थु जातदिवसे चत्तारो महाब्रह्मानो महापुरिसं सुवण्णजालेन पटिग्गण्हिंसूति.
अथ ब्राह्मणिया – ‘‘पुत्तस्स ताव मे अयं आनुभावो, कीदिसो वत मय्हं पुत्तस्स भगवतो सत्थु आनुभावो भविस्सती’’ति चिन्तयन्तिया सहसा पञ्चवण्णा पीति उप्पज्जित्वा सकलसरीरं फरि. थेरो – ‘‘उप्पन्नं मे मातु पीतिसोमनस्सं, अयं दानि कालो धम्मदेसनाया’’ति चिन्तेत्वा ‘‘किं चिन्तेसि महाउपासिके’’ति आह. सा ‘‘पुत्तस्स ताव मे अयं गुणो, सत्थु पनस्स कीदिसो भविस्सतीति इदं, तात, चिन्तेमी’’ति आह. महाउपासिके, मय्हं सत्थुजातक्खणे महाभिनिक्खमने सम्बोधियं धम्मचक्कप्पवत्तने च दससहस्सिलोकधातु कम्पित्थ. सीलेन समाधिना पञ्ञाय विमुत्तिया विमुत्तिञाणदस्सनेन समो नाम नत्थि, इतिपि सो भगवाति वित्थारेत्वा बुद्धगुणपटिसंयुत्तं धम्मदेसनं कथेसि.
ब्राह्मणी पियपुत्तस्स धम्मदेसनापरियोसाने सोतापत्तिफले पतिट्ठाय पुत्तं आह – ‘‘तात उपतिस्स, कस्मा एवमकासि, एवरूपं नाम अमतं मय्हं एत्तकं कालं न अदासी’’ति. थेरो – ‘‘दिन्नं दानि मे मातु रूपसारिया ब्राह्मणिया पोसावनिकमूलं, एत्तकेन वट्टिस्सती’’ति चिन्तेत्वा – ‘‘गच्छ महाउपसिके’’ति ब्राह्मणिं उय्योजेत्वा – ‘‘चुन्द का वेला’’ति आह. बलवपच्चूसकालो, भन्तेति. भिक्खुसङ्घं सन्निपातेहीति. सन्निपतितो भन्ते भिक्खुसङ्घोति. ‘‘मं उक्खिपित्वा निसीदापेहि चुन्दा’’ति उक्खिपित्वा निसीदापेसि.
थेरो भिक्खू आमन्तेसि – ‘‘आवुसो चतुचत्तालीसं वो वस्सानि मया सद्धिं विचरन्तानं यं मे कायिकं वा वाचसिकं वा न रोचेथ, तं खमथ आवुसो’’ति. एत्तकं, भन्ते, अम्हाकं छाया विय तुम्हे अमुञ्चित्वा विचरन्तानं अरुच्चनकं नाम नत्थि, तुम्हे पन अम्हाकं खमथाति. अथ थेरो महाचीवरं सङ्कड्ढित्वा मुखं पिधाय दक्खिणेन पस्सेन निपन्नो सत्था विय नव अनुपुब्बसमापत्तियो अनुलोमपटिलोमतो समापज्जित्वा पुन पठमज्झानं आदिं कत्वा याव चतुत्थज्झाना समापज्जि. ततो वुट्ठाय अनन्तरंयेव महापथविं उन्नादेन्तो अनुपादिसेसाय निब्बानधातुया परिनिब्बायि.
उपासिका – ‘‘किं नु खो मे पुत्तो, न किञ्चि कथेती’’ति उट्ठाय पिट्ठिपादे परिमज्जन्ती परिनिब्बुतभावं ञत्वा महासद्दं कुरुमाना पादेसु निपतित्वा – ‘‘तात मयं इतो पुब्बे तव गुणं न जानिम्हा, इदानि पन तं आदिं कत्वा अनेकसते अनेकसहस्से अनेकसतसहस्से भिक्खू इमस्मिं निवेसने निसीदापेत्वा भोजेतुं न लभिम्हा, चीवरेहि अच्छादेतुं न लभिम्हा, विहारसतं विहारसहस्सं कारेतुं न लभिम्हा’’ति याव अरुणुग्गमना परिदेवि. अरुणे उग्गतमत्तेयेव सुवण्णकारे पक्कोसापेत्वा सुवण्णगब्भं विवरापेत्वा सुवण्णघटियो महातुलाय तुलापेत्वा – ‘‘पञ्च कूटागारसतानि पञ्च अग्घिकसतानि करोथा’’ति दापेति.
सक्कोपि देवराजा विस्सकम्मदेवपुत्तं आमन्तेत्वा – ‘‘तात धम्मसेनापति परिनिब्बुतो, पञ्च कूटागारसतानि पञ्च अग्घिकसतानि च मापेही’’ति आह. इति उपासिकाय कारितानि च विस्सकम्मेन निम्मितानि च सब्बानिपि द्वेसहस्सानि अहेसुं. ततो नगरमज्झे सारमयं महामण्डपं कारेत्वा मण्डपमज्झे महाकूटागारं ठपेत्वा सेसानि परिवारसङ्खेपेन ठपेत्वा साधुकीळिकं आरभिंसु. देवानं अन्तरे मनुस्सा, मनुस्सानं अन्तरे देवा अहेसुं.
रेवती नाम एका थेरस्स उपट्ठायिका – ‘‘अहं थेरस्स पूजं करिस्सामी’’ति सुवण्णपुप्फानं तयो कुम्भे कारेसि. ‘‘थेरस्स पूजं करिस्सामी’’ति सक्को देवराजा अड्ढतेय्यकोटिनाटकेहि परिवारितो ओतरि. ‘‘सक्को ओतरती’’ति महाजनो पच्छामुखो पटिक्कमि. तत्थ सापि उपासिका पटिक्कममाना गरुभारत्ता एकमन्तं अपसक्कितुं असक्कोन्ती मनुस्सानं अन्तरे पति. मनुस्सा अपस्सन्ता तं मद्दित्वा अगमिंसु. सा तत्थेव कालं कत्वा तावतिंसभवने कनकविमाने निब्बत्ति. निब्बत्तक्खणेयेवस्सा रतनक्खन्धो विय तिगावुतप्पमाणो अत्तभावो अहोसि सट्ठिसकटपूरप्पमाणअलङ्कारपटिमण्डिता अच्छरासहस्सपरिवारिता. अथस्सा दिब्बं सब्बकायिकादासं पुरतो ठपयिंसु. सा अत्तनो सिरिसम्पत्तिं दिस्वा – ‘‘उळारा अयं सम्पत्ति, किं नु खो मे कम्मं कत’’न्ति चिन्तयमाना अद्दस – ‘‘मया सारिपुत्तत्थेरस्स परिनिब्बुतट्ठाने तीहि सुवण्णपुप्फकुम्भेहि पूजा कता, महाजनो मं मद्दित्वा गतो, साहं तत्थ कालं कत्वा इधूपपन्ना, थेरं निस्साय लद्धं इदानि पुञ्ञविपाकं मनुस्सानं कथेस्सामी’’ति सह विमानेनेव ओतरि.
महाजनो दूरतोव दिस्वा – ‘‘किं नु खो द्वे सूरिया उट्ठिता’’ति? ओलोकेन्तो – ‘‘विमाने आगच्छन्ते कूटागारसण्ठानं पञ्ञायति, नायं सूरियो, विमानमेतं एक’’न्ति आह. तम्पि विमानं तावदेव आगन्त्वा थेरस्स दारुचितकमत्थके वेहासं अट्ठासि. देवधीता विमानं आकासेयेव ठपेत्वा पथविं ओतरि. महाजनो – ‘‘का त्वं, अय्ये’’ति? पुच्छि. ‘‘न मं तुम्हे जानाथ, रेवती नामाहं, तीहि सुवण्णपुप्फकुम्भेहि थेरं पूजं कत्वा मनुस्सेहि मद्दिता कालं कत्वा तावतिंसभवने निब्बत्ता, पस्सथ मे सिरिसम्पत्तिं, तुम्हेपि दानि दानानि देथ, पुञ्ञानि करोथा’’ति कुसलकिरियाय वण्णं कथेत्वा थेरस्स चितकं पदक्खिणं कत्वा वन्दित्वा अत्तनो देवट्ठानंयेव गता.
महाजनोपि सत्ताहं साधुकीळिकं कीळित्वा सब्बगन्धेहि चितकं अकासि, चितका एकूनरतनसतिका अहोसि. थेरस्स सरीरं चितकं आरोपेत्वा उसीरकलापकेहि आलिम्पेसुं. आळाहने सब्बरत्तिं धम्मस्सवनं पवत्ति. अनुरुद्धत्थेरो सब्बगन्धोदकेन थेरस्स चितकं निब्बापेसि. चुन्दत्थेरो धातुयो परिस्सावने पक्खिपित्वा – ‘‘न दानि मया इधेव सक्का ठातुं, मय्हं जेट्ठभातिकस्स धम्मसेनापतिसारिपुत्तत्थेरस्स परिनिब्बुतभावं सम्मासम्बुद्धस्स आरोचेस्सामी’’ति धातुपरिस्सावनं थेरस्स च पत्तचीवरं गहेत्वा सावत्थिं अगमासि. एकट्ठानेपि च द्वे रत्तियो अवसित्वा सब्बत्थ एकरत्तिवासेनेव सावत्थिं पापुणि. तमत्थं दस्सेतुं अथ खो चुन्दो समणुद्देसोतिआदि वुत्तं.
तत्थ येनायस्मा आनन्दोति येन अत्तनो उपज्झायो धम्मभण्डागारिको आयस्मा आनन्दो, तेनुपसङ्कमि. कस्मा पनेस उजुकं सत्थु सन्तिकं अगन्त्वा थेरस्स सन्तिकं अगमासीति? सत्थरि च थेरे च गारवेन. जेतवनमहाविहारे पोक्खरणियं किरस्स न्हत्वा पच्चुत्तरित्वा सुनिवत्थसुपारुतस्स एतदहोसि – ‘‘बुद्धा नाम महापासाणच्छत्तं विय गरुनो, फणकतसप्प सीहब्यग्घमत्तवरवारणादयो विय च दुरासदा, न सक्का मया उजुकमेव सत्थु सन्तिकं गन्त्वा कथेतुं, कस्स नु खो सन्तिकं गन्तब्ब’’न्ति. ततो चिन्तेसि – ‘‘उपज्झायो मे धम्मभण्डागारिको जेट्ठभातिकत्थेरस्स उत्तमसहायो, तस्स सन्तिकं गन्त्वा तं आदाय सत्थारा सद्धिं कथेस्सामी’’ति सत्थरि चेव थेरे च गारवेन उपसङ्कमि.
इदमस्स पत्तचीवरन्ति ‘‘अयमस्स परिभोगपत्तो, इदं धातुपरिस्सावन’’न्ति एवं एकेकं आचिक्खि. पाळियं पन ‘‘इदमस्स पत्तचीवर’’न्ति एत्तकमेव वुत्तं. कथापाभतन्ति कथामूलं. मूलञ्हि पाभतन्ति वुच्चति. यथाह –
‘‘अप्पकेनपि मेधावी, पाभतेन विचक्खणो;
समुट्ठापेति अत्तानं, अणुं अग्गिंव सन्धम’’न्ति. (जा. १.१.४);
भगवन्तं दस्सनायाति भगवन्तं दस्सनत्थाय. किं पनिमिना भगवा न दिट्ठपुब्बोति? नो न दिट्ठपुब्बो. अयञ्हि आयस्मा दिवा नव वारे, रत्तिं नव वारेति एकाहं अट्ठारस वारे उपट्ठानमेव गच्छति. दिवसस्स पन सतवारं वा सहस्सवारं वा गन्तुकामो समानोपि न अकारणा गच्छति, एकं पञ्हद्वारं गहेत्वाव गच्छति. सो तंदिवसं तेन कथापाभतेन गन्तुकामो एवमाह. इदमस्स पत्तचीवरन्ति थेरोपि – ‘‘इदं तस्स पत्तचीवरं, इदञ्च धातुपरिस्सावन’’न्ति पाटियेक्कंयेव दस्सेत्वा आचिक्खि.
सत्था हत्थं पसारेत्वा धातुपरिस्सावनं गहेत्वा हत्थतले ठपेत्वा भिक्खू आमन्तेसि – ‘‘यो सो, भिक्खवे, भिक्खु पुरिमदिवसे अनेकानि पाटिहारियसतानि कत्वा परिनिब्बानं अनुजानापेसि, तस्स इदानि इमा सङ्खवण्णसन्निभा धातुयोव पञ्ञायन्ति, कप्पसतसहस्साधिकं असङ्ख्येय्यं पूरितपारमी एस, भिक्खवे, भिक्खु, मया पवत्तितं धम्मचक्कं अनुपवत्तको एस भिक्खु, पटिलद्धदुतियआसनो एस भिक्खु, पूरितसावकसन्निपातो एस भिक्खु, ठपेत्वा मं दससु चक्कवाळसहस्सेसु पञ्ञाय असदिसो एस भिक्खु, महापञ्ञो एस भिक्खु, पुथुपञ्ञो हासपञ्ञो जवनपञ्ञो तिक्खपञ्ञो निब्बेधिकपञ्ञो एस भिक्खु, अप्पिच्छो एस भिक्खु, सन्तुट्ठो पविवित्तो असंसट्ठो आरद्धवीरियो चोदको पापगरही एस भिक्खु, पञ्च जातिसतानि पटिलद्धमहासम्पत्तियो पहाय पब्बजितो एस भिक्खु, मम सासने पथवीसमखन्तिको एस भिक्खु, छिन्नविसाणउसभसदिसो एस भिक्खु, चण्डालपुत्तसदिसनीचचित्तो एस भिक्खु. पस्सथ, भिक्खवे, महापञ्ञस्स धातुयो, पस्सथ, भिक्खवे, पुथुपञ्ञस्स हासपञ्ञस्स जवनपञ्ञस्स तिक्खपञ्ञस्स निब्बेधिकपञ्ञस्स अप्पिच्छस्स सन्तुट्ठस्स पविवित्तस्स असंसट्ठस्स आरद्धवीरियस्स, चोदकस्स, पस्सथ, भिक्खवे, पापगरहिस्स धातुयोति.
‘‘यो पब्बजी जातिसतानि पञ्च,
पहाय कामानि मनोरमानि;
तं वीतरागं सुसमाहितिन्द्रियं,
परिनिब्बुतं वन्दथ सारिपुत्तं.
‘‘खन्तिबलो पथविसमो न कुप्पति,
न चापि चित्तस्स वसेन वत्तति;
अनुकम्पको कारुणिको च निब्बुतो,
परिनिब्बुतं वन्दथ सारिपुत्तं.
‘‘चण्डालपुत्तो यथा नगरं पविट्ठो,
नीचमनो चरति कळोपिहत्थो;
तथा अयं विहरति सारिपुत्तो,
परिनिब्बुतं वन्दथ सारिपुत्तं.
‘‘उसभो यथा छिन्नविसाणको,
अहेठयन्तो चरति पुरन्तरे वने;
तथा अयं विहरति सारिपुत्तो,
परिनिब्बुतं वन्दथ सारिपुत्त’’न्ति.
इति भगवा पञ्चहि गाथासतेहि थेरस्स वण्णं कथेसि. यथा यथा भगवा थेरस्स वण्णं कथेसि, तथा तथा आनन्दत्थेरो सन्धारेतुं न सक्कोति, बिळारमुखे पक्खन्तकुक्कुटो विय पवेधति. तेनाह अपिच मे, भन्ते, मधुरकजातो विय कायोति सब्बं वित्थारेतब्बं. तत्थ मधुरकजातोतिआदीनं अत्थो वुत्तोयेव. इध पन धम्माति उद्देसपरिपुच्छाधम्मा अधिप्पेता. तस्स हि उद्देसपरिपुच्छाधम्मे अगहिते वा गहेतुं, गहिते वा सज्झायं कातुं चित्तं न पवत्तति. अथ सत्था पञ्चपसादविचित्रानि अक्खीनि उम्मीलेत्वा थेरं ओलोकेन्तो ‘‘अस्सासेस्सामि न’’न्ति अस्सासेन्तो किं नु खो ते, आनन्द, सारिपुत्तोतिआदिमाह.
तत्थ सीलक्खन्धन्ति लोकियलोकुत्तरसीलं. समाधिपञ्ञासुपि एसेव नयो. विमुत्ति पन लोकुत्तराव. विमुत्तिञाणदस्सनं पच्चवेक्खणञाणं, तं लोकियमेव. ओवादकोति ओवाददायको. ओतिण्णोति ओतिण्णेसु वत्थूसु नानप्पकारेन ओतरणसीलो. विञ्ञापकोति धम्मकथाकाले अत्थञ्च कारणञ्च विञ्ञापेता. सन्दस्सकोति खन्धधातुआयतनवसेन तेसं तेसं धम्मानं दस्सेता. समादपकोति ‘‘इदञ्चिदञ्च गण्हथा’’ति एवं गण्हापको. समुत्तेजकोति अब्भुस्साहको. सम्पहंसकोति पटिलद्धगुणेहि मोदापको जोतापको.
अकिलासु धम्मदेसनायाति धम्मदेसनं आरभित्वा ‘‘सीसं वा मे रुज्जति, हदयं वा कुच्छि वा पिट्ठि वा’’ति एवं ओसक्कनाकारविरहितो निक्किलासु विसारदो एकस्सापि द्विन्नम्पि सीहवेगेनेव पक्खन्दति. अनुग्गाहको सब्रह्मचारीनन्ति पदस्स अत्थो खन्धकवग्गे वित्थारितोव. धम्मोजं धम्मभोगन्ति उभयेनपि धम्मपरिभोगोव कथितो. धम्मानुग्गहन्ति धम्मेन अनुग्गहणं.
सत्था ‘‘अतिविय अयं भिक्खु किलमती’’ति पुन तं अस्सासेन्तो ननु तं, आनन्द, मयातिआदिमाह. तत्थ पियेहि मनापेहीति मातापिताभाताभगिनीआदिकेहि जातिया नानाभावो, मरणेन विनाभावो, भवेन अञ्ञथाभावो. तं कुतेत्थ, आनन्द, लब्भाति तन्ति तस्मा. यस्मा सब्बेहि पियेहि मनापेहि नानाभावो, तस्मा दस पारमियो पूरेत्वापि सम्बोधिं पत्वापि धम्मचक्कं पवत्तेत्वापि यमकपाटिहारियं दस्सेत्वापि देवोरोहनं कत्वापि यं तं जातं भूतं सङ्खतं पलोकधम्मं, तं तथागतस्सापि सरीरं मा पलुज्जीति नेतं ठानं विज्जति, रोदन्तेनपि कन्दन्तेनपि न सक्का तं कारणं लद्धुन्ति. सो पलुज्जेय्याति सो भिज्जेय्य.
एवमेव खोति एत्थ योजनसतुब्बेधो महाजम्बुरुक्खो विय भिक्खुसङ्घो तस्स दक्खिणदिसं गतो पञ्ञासयोजनिको महाखन्धो विय धम्मसेनापति. तस्मिं महाखन्धे भिन्ने ततो पट्ठाय अनुपुब्बेन वड्ढित्वा पुप्फफलादीहि तं ठानं पूरेतुं समत्थस्स अञ्ञस्स खन्धस्स अभावो विय थेरे परिनिब्बुते सोळसन्नं पञ्ञानं मत्थकं पत्तस्स अञ्ञस्स दक्खिणासने निसीदनसमत्थस्स सारिपुत्तसदिसस्स भिक्खुनो अभावो. ताय परिभिन्नाय सो रुक्खो विय भिक्खुसङ्घो खन्धोत्वेव जातोति वेदितब्बो. तस्माति यस्मा सब्बं सङ्खतं पलोकधम्मं, तं मा पलुज्जीति न सक्का लद्धुं, तस्मा.
४-५. उक्कचेलसुत्तादिवण्णना
३८०-३८१. चतुत्थे अचिरपरिनिब्बुतेसु सारिपुत्तमोग्गल्लानेसूति नचिरपरिनिब्बुतेसु द्वीसु अग्गसावकेसु. तेसञ्हि धम्मसेनापति कत्तिकमासपुण्णमाय परिनिब्बुतो, महामोग्गल्लानो ततो अड्ढमासं अतिक्कम्म अमावसुपोसथे. सत्था द्वीसु अग्गसावकेसु परिनिब्बुतेसु महाभिक्खुसङ्घपरिवारो महामण्डले चारिकं चरमानो अनुपुब्बेन उक्कचेलनगरं पत्वा तत्थ पिण्डाय चरित्वा गङ्गापिट्ठे रजतपट्टवण्णवालिकापुलिने विहासि. तेन वुत्तं ‘‘अचिरपरिनिब्बुतेसु सारिपुत्तमोग्गल्लानेसू’’ति. ये महन्ततरा खन्धा ते पलुज्जेय्युन्ति इधापि योजनसतुब्बेधो महाजम्बुरुक्खो विय भिक्खुसङ्घो, तस्स दक्खिणतो च उत्तरतो च गता पण्णासयोजनिका द्वे महाखन्धा विय द्वे अग्गसावकाति. सेसं पुरिमनयेनेव योजेतब्बं. पञ्चमे दिट्ठीति कम्मस्सकदिट्ठि.
६. उत्तियसुत्तवण्णना
३८२. छट्ठे मच्चुधेय्यस्स पारन्ति तेभूमकवट्टस्स पारभूतं, निब्बानं.
८. ब्रह्मसुत्तवण्णना
३८४. अट्ठमे काये वा भिक्खूति तस्मिं काले भिक्खुयेव नत्थि, एवं सन्तेपि यो सतिपट्ठाने भावेति, सो किलेसभिन्दनेन भिक्खुयेवाति दस्सेन्तो एवमाह. एकायनन्ति एकमग्गं. जातिक्खयन्तदस्सीति जातिया खयोति च अन्तोति च निब्बानं, तं पस्सतीति अत्थो. मग्गं पजानातीति एकायनसङ्खातं एकमग्गभूतं मग्गं पजानाति. एकायनमग्गो वुच्चति पुब्बभागसतिपट्ठानमग्गो, तं पजानातीति अत्थो.
९. सेदकसुत्तवण्णना
३८५. नवमे सुम्भेसूति एवंनामके जनपदे. मेदकथालिकाति एवं इत्थिलिङ्गवसेन लद्धनामं. ममं रक्ख, अहं तं रक्खिस्सामीति एत्थ अयं तस्स लद्धि – आचरियो उक्खित्तवंसं सुग्गहितं अगण्हन्तो, अन्तेवासिकेन पक्खन्तपक्खन्तदिसं अगच्छन्तो, सब्बकालञ्च वंसग्गं अनुल्लोकेन्तो अन्तेवासिकं न रक्खति नाम, एवं अरक्खितो अन्तेवासिको पतित्वा चुण्णविचुण्णं होति. वंसं पन सुग्गहितं गण्हन्तो, तेन पक्खन्तपक्खन्तदिसं गच्छन्तो, सब्बकालञ्च वंसग्गं उल्लोकेन्तो तं रक्खति नाम. अन्तेवासिकोपि इतो चितो च पक्खन्दित्वा मिगो विय कीळन्तो आचरियं न रक्खति नाम. एवञ्हि सति तिखिणवंसकोटि आचरियस्स गलवाटके वा नलाटे वा ठपिता ठितट्ठानं भिन्दित्वा गच्छेय्य. आचारसम्पन्नताय पन यतो वंसो नमति, ततो अनामेन्तो तं आकड्ढेन्तो विय एकतोभागियं कत्वा वातूपथम्भं गाहापेत्वा सतिं सूपट्ठितं कत्वा निच्चलोव निसीदन्तो आचरियं रक्खति नामाति.
त्वं आचरिय अत्तानं रक्ख, अहं अत्तानं रक्खिस्सामीति एत्थ अयमधिप्पायो – आचरियो वंसं सुग्गहितं गण्हन्तो, अन्तेवासिकेन पक्खन्तपक्खन्तदिसंगच्छन्तो, सब्बकालञ्च वंसग्गं उल्लोकेन्तो, अत्तानमेव रक्खति, न अन्तेवासिकं. अन्तेवासिकोपि कायम्पि एकतोभागियं कत्वा वातूपथम्भं गाहापेत्वा सतिं सूपट्ठितं कत्वा निच्चलोव निसीदमानो अत्तानंयेव रक्खति नाम, न आचरियं.
सो तत्थ ञायोति यं मेदकथालिका आह. सो तत्थ ञायो, सो उपायो, तं कारणन्ति अत्थो. सतिपट्ठानं सेवितब्बन्ति चतुब्बिधं सतिपट्ठानं सेवितब्बं. आसेवनायाति कम्मट्ठानासेवनाय. एवं खो, भिक्खवे, अत्तानं रक्खन्तो परं रक्खतीति यो भिक्खु कम्मारामतादीनि पहाय रत्तिट्ठानदिवाट्ठानेसु मूलकम्मट्ठानं आसेवन्तो भावेन्तो अरहत्तं पापुणाति, अथ नं परो दिस्वा – ‘‘भद्दको वतायं, भिक्खु, सम्मापटिपन्नो’’ति तस्मिं चित्तं पसादेत्वा सग्गपरायणो होति. अयं अत्तानं रक्खन्तो परं रक्खति नाम.
खन्तियाति अधिवासनखन्तिया. अविहिंसायाति सपुब्बभागाय करुणाय. मेत्तचित्ततायाति सपुब्बभागाय मेत्ताय. अनुदयतायाति अनुवड्ढिया, सपुब्बभागाय मुदितायाति अत्थो. परं रक्खन्तो अत्तानं रक्खतीति एत्थ यो भिक्खु रत्तिट्ठानदिवाट्ठानं गतो तीसु ब्रह्मविहारेसु तिकचतुक्कज्झानानि निब्बत्तेत्वा झानं पादकं कत्वा सङ्खारे सम्मसन्तो विपस्सनं वड्ढेत्वा अरहत्तं पापुणाति. अयं परं रक्खन्तो अत्तानं रक्खति नामाति वेदितब्बो.
१०. जनपदकल्याणीसुत्तवण्णना
३८६. दसमे जनपदकल्याणीति जनपदम्हि कल्याणी उत्तमा छसरीरदोसरहिता पञ्चकल्याणसमन्नागता. सा हि यस्मा नातिदीघा नातिरस्सा, नातिकिसा नातिथूला, नातिकाळा नाच्चोदाता, अतिक्कन्ता, मानुसवण्णं अप्पत्ता दिब्बवण्णं, तस्मा छसरीरदोसरहिता. छविकल्याणं, मंसकल्याणं, न्हारुकल्याणं, अट्ठिकल्याणं, वयकल्याणन्ति इमेहि पन कल्याणेहि समन्नागतत्ता पञ्चकल्याणेहि समन्नागता नाम. तस्सा हि आगन्तुकोभासकिच्चं नत्थि, अत्तनो सरीरोभासेनेव द्वादसहत्थट्ठाने आलोकं करोति, पियङ्गुसामा वा होति, सुवण्णसामा वा, अयमस्सा छविकल्याणता. चत्तारो पनस्सा हत्थपादा मुखपरियोसानञ्च लाखारसपरिकम्मकतं विय रत्तपवाळरत्तकम्बलसदिसं होति, अयमस्सा मंसकल्याणता. वीसति पन नखपत्तानि मंसतो अमुत्तट्ठाने लाखारसपूरितानि विय, मुत्तट्ठाने खीरधारासदिसानि, होन्ति अयमस्सा न्हारुकल्याणकता. द्वत्तिंस दन्ता सुफुसिता सुधोतवजिरपन्ति विय खायन्ति, अयमस्सा अट्ठिकल्याणता. वीसतिवस्ससतिकापि पन समाना सोळसवस्सुद्देसिका विय होति निप्पलिता, अयमस्सा वयकल्याणता.
परमपासाविनीति एत्थ पसवनं पसावो, पवत्तीति अत्थो. पसावो एव पासावो. परमो पासावो परमपासावो, सो अस्सा अत्थीति परमपासाविनी. नच्चे च गीते च उत्तमपवत्ति सेट्ठकिरिया, उत्तममेव नच्चं नच्चति, गीतं वा गायतीति वुत्तं होति. सेसं सब्बत्थ उत्तानत्थमेव. इमेसु पन द्वीसु सुत्तेसु पुब्बभागविपस्सनाव कथिताति.
नालन्दवग्गो दुतियो.