५. चक्कवत्तिवग्गो

१. विधासुत्तवण्णना

२२२. पञ्चमवग्गस्स पठमे तिस्सो विधाति तयो मानकोट्ठासा, मानोयेव वा. तथा तथा विदहनतो हि मानोव विधाति वुच्चति.

२. चक्कवत्तिसुत्तवण्णना

२२३. दुतिये रञ्ञो, भिक्खवे, चक्कवत्तिस्साति एत्थ अत्तनो सिरिसम्पत्तिया राजति, चतूहि वा सङ्गहवत्थूहि लोकं रञ्जेतीति राजा, तस्स रञ्ञो. ‘‘पवत्ततु भवं चक्करतन’’न्ति पुञ्ञानुभावेन अब्भुग्गताय वाचाय चोदेन्तो चक्कं वत्तेतीति चक्कवत्ती, तस्स चक्कवत्तिस्स. पातुभावाति पातुभावेन. सत्तन्नन्ति गणनपरिच्छेदो. रतनानन्ति परिच्छिन्नअत्थदस्सनं. वचनत्थो पनेत्थ रतिजननट्ठेन रतनं. अपिच –

‘‘चित्तीकतं महग्घञ्च, अतुलं दुल्लभदस्सनं;

अनोमसत्तपरिभोगं, रतनं तेन वुच्चती’’ति.

चक्करतनस्स च निब्बत्तकालतो पट्ठाय अञ्ञं देवट्ठानं नाम न होति, सब्बेव गन्धपुप्फादीहि तस्सेव पूजञ्च अभिवादनादीनि च करोन्तीति चित्तीकतट्ठेन रतनं. चक्करतनस्स च ‘‘एत्तकं नाम धनं अग्घती’’ति अग्घो नत्थि, इति महग्घट्ठेनापि रतनं. चक्करतनञ्च अञ्ञेहि लोके विज्जमानरतनेहि असदिसन्ति अतुलट्ठेन रतनं. यस्मा पन यस्मिं कप्पे बुद्धा उप्पज्जन्ति, तस्मिंयेव चक्कवत्तिनो, बुद्धा च कदाचि करहचि उप्पज्जन्ति, तस्मा दुल्लभदस्सनट्ठेन रतनं. तदेतं जातिरूपकुलइस्सरियादीहि अनोमस्स उळारसत्तस्सेव उप्पज्जति, न अञ्ञस्साति अनोमसत्तपरिभोगट्ठेनापि रतनं. यथा च चक्करतनं, एवं सेसानिपीति. तेन वुत्तं –

‘‘चित्तीकतं महग्घञ्च, अतुलं दुल्लभदस्सनं;

अनोमसत्तपरिभोगं, रतनं तेन वुच्चती’’ति.

पातुभावो होतीति निब्बत्ति होति. तत्रायं योजना – चक्कवत्तिस्स पातुभावा सत्तन्नं रतनानं पातुभावोति अयुत्तं. उप्पन्नञ्हि चक्कं वत्तेत्वा सो चक्कवत्ती नाम होतीति नायुत्तं. कस्मा? चक्कवत्तननियमापेक्खताय. यो हि नियमेन चक्कं वत्तेस्सति, सो पटिसन्धितो पभुति ‘‘चक्कवत्ति पातुभूतो’’ति वत्तब्बतं आपज्जति. लद्धनामस्स च पुरिसस्स मूलुप्पत्तिवचनतोपि युत्तमेवेतं. यो हि एस चक्कवत्तीति लद्धनामो सत्तविसेसो, तस्स पटिसन्धिसङ्खातो पातुभावोति अयमेत्थ अत्थो. तस्स हि पातुभावा रतनानि पातुभवन्ति. पातुभूतेहि पन तेहि सद्धिं परिपक्के पुञ्ञसम्भारे सो संयुज्जति, तदा लोकस्स तेसु पातुभावचित्तं उप्पज्जति. बहुलवचनतो चापि युत्तमेवेतं. यदा हि लोकस्स तेसु पातुभावसञ्ञा उप्पज्जति, तदा एकमेव पठमं, पच्छा इतरानि छ पातुभवन्तीति बहुलवचनतो चापि एतं युत्तं. पातुभावस्स च अत्थभेदतोपि युत्तमेवेतं. न केवलञ्हि पातुभूतमेव पातुभावो, पातुभावयतीति पातुभावो. अयं पातुभावस्स अत्थभेदो. यस्मा यो सो पुञ्ञसम्भारो राजानं चक्कवत्तिं पटिसन्धिवसेन पातुभावयति, तस्मा रञ्ञो चक्कवत्तिस्स पातुभावा. न केवलञ्हि चक्कवत्तियेव, इमानि पन सत्त रतनानिपि पातुभवन्तीति अयमेत्थ अत्थो. यथेव हि सो पुञ्ञसम्भारो रञ्ञो जनकहेतु, एवं रतनानम्पि परियायेन उपनिस्सयहेतूति युत्तमेवेतं ‘‘रञ्ञो, भिक्खवे, चक्कवत्तिस्स पातुभावा सत्तन्नं रतनानं पातुभावो होती’’ति.

इदानि तेसं रतनानं सरूपवसेन दस्सनत्थं कतमेसं सत्तन्नं चक्करतनस्सातिआदिमाह. तत्थ चक्करतनस्सातिआदीसु अयं सङ्खेपाधिप्पायो – द्विसहस्सदीपपरिवारानं चतुन्नं महादीपानं सिरिविभवं गहेत्वा दातुं समत्थस्स चक्करतनस्स पातुभावो होति, तथा पुरेभत्तमेव सागरपरियन्तं पथविं अनुपरियायनसमत्थस्स वेहासङ्गमस्स हत्थिरतनस्स, तादिसस्सेव अस्सरतनस्स, चतुरङ्गसमन्नागतेपि अन्धकारे योजनप्पमाणं अन्धकारं विधमित्वा आलोकदस्सनसमत्थस्स मणिरतनस्स, छब्बिधं दोसं विवज्जेत्वा मनापचारिनो इत्थिरतनस्स, योजनप्पमाणे पदेसे अन्तोपथविगतानं निधीनं दस्सनसमत्थस्स गहपतिरतनस्स, अग्गमहेसिया कुच्छिम्हि निब्बत्तित्वा सकलरज्जानुसासनसमत्थस्स जेट्ठपुत्तसङ्खातस्स परिणायकरतनस्स च पातुभावो होतीति. अयमेत्थ सङ्खेपो. वित्थारतो पन तेसं चक्करतनादीनं पातुभावविधानं महासुदस्सनादीसु सुत्तेसु आगतमेव. अत्थोपिस्स तेसं वण्णनाय संवण्णितोयेव.

सतिसम्बोज्झङ्गरतनस्सातिआदीसु सरिक्खकता एवं वेदितब्बा – यथेव हि चक्कवत्तिनो चक्करतनं सब्बरतनानं पुरेचरं, एवं सतिसम्बोज्झङ्गरतनं सब्बेसं चतुभूमकधम्मानं पुरेचरन्ति, पुरेचरणट्ठेन चक्कवत्तिरञ्ञो चक्करतनसदिसं होति. चक्कवत्तिनो च रतनेसु महाकायूपपन्नं अच्चुग्गतं विपुलं महन्तं हत्थिरतनं, इदम्पि धम्मविचयसम्बोज्झङ्गरतनं महन्तं धम्मकायूपपन्नं अच्चुग्गतं विपुलं महन्तन्ति हत्थिरतनसदिसं होति. चक्कवत्तिनो अस्सरतनं सीघं लहु जवं, इदम्पि वीरियसम्बोज्झङ्गरतनं सीघं लहु जवन्ति इमाय सीघलहुजवताय अस्सरतनसदिसं होति. चक्कवत्तिनो मणिरतनं अन्धकारं विधमति, आलोकं दस्सेति, इदम्पि पीतिसम्बोज्झङ्गरतनं ताय एकन्तकुसलत्ता किलेसन्धकारं विधमति, सहजातपच्चयादिवसेन ञाणालोकं दस्सेतीति इमिना अन्धकारविधमनआलोकदस्सनभावेन मणिरतनसदिसं होति.

चक्कवत्तिनो इत्थिरतनं कायचित्तदरथं पटिपस्सम्भेति, परिळाहं वूपसमेति. इदम्पि पस्सद्धिसम्बोज्झङ्गरतनं कायचित्तदरथं पटिपस्सम्भेति, परिळाहं वूपसमेतीति इत्थिरतनसदिसं होति. चक्कवत्तिनो गहपतिरतनं इच्छितिच्छितक्खणे धनदानेन विक्खेपं पच्छिन्दित्वा चित्तं एकग्गं करोति, इदम्पि समाधिसम्बोज्झङ्गरतनं यथिच्छितादिवसेन अप्पनं सम्पादेति, विक्खेपं पच्छिन्दित्वा चित्तं एकग्गं करोतीति गहपतिरतनसदिसं होति. चक्कवत्तिनो च परिणायकरतनं सब्बत्थकिच्चसम्पादनेन अप्पोस्सुक्कतं करोति. इदम्पि उपेक्खासम्बोज्झङ्गरतनं चित्तुप्पादं लीनुद्धच्चतो मोचेत्वा पयोगमज्झत्ते ठपयमानं अप्पोस्सुक्कतं करोतीति परिणायकरतनसदिसं होति. इति इमस्मिं सुत्ते चतुभूमको सब्बसङ्गाहिकधम्मपरिच्छेदो कथितोति वेदितब्बो.

४-१०. दुप्पञ्ञसुत्तादिवण्णना

२२५-२३१. चतुत्थे एळमूगोति मुखेन वाचं निच्छारेतुं सक्कोन्तोपि दोसेहि मूगो असम्पन्नवचनो. सेसं सब्बत्थ उत्तानत्थमेवाति.

चक्कवत्तिवग्गो.