५. सगाथकपुञ्ञाभिसन्दवग्गो
१. पठमअभिअसन्दसुत्तवण्णना
१०३७. पञ्चमस्स पठमे असङ्ख्येय्योति आळ्हकगणनाय असङ्ख्येय्यो, योजनवसेन पनस्स सङ्ख्या अत्थि. बहुभेरवन्ति सविञ्ञाणकअविञ्ञाणकानं भेरवारम्मणानं वसेन बहुभेरवं. पुथूति बहु. सवन्तीति सन्दमाना. उपयन्तीति उपगच्छन्ति.
२. दुतियअभिसन्दसुत्तवण्णना
१०३८. दुतिये यत्थिमा महानदियो संसन्दन्ति समेन्तीति यस्मिं संभज्जे एता महानदियो एकीभवन्ति, निरन्तरा भवन्तीति अत्थो.
३. ततियअभिसन्दसुत्तवण्णना
१०३९. ततिये पुञ्ञकामोति पुञ्ञत्थिको. कुसले पतिट्ठितोति मग्गकुसले पतिट्ठितो. भावेति मग्गं अमतस्स पत्तियाति निब्बानस्स पापुणनत्थं अरहत्तमग्गं भावेति. धम्मसाराधिगमोति धम्मसारो वुच्चति अरियफलं धम्मसारो, अधिगमो अस्साति धम्मसाराधिगमो, अधिगतफलोति अत्थो. खये रतोति किलेसक्खये रतो.
४. पठममहद्धनसुत्तवण्णना
१०४०. चतुत्थे अड्ढो महद्धनोति सत्तविधेन अरियधनेन अड्ढो चेव महद्धनो च. तेनेव भोगेन महाभोगो. सेसं सब्बत्थ उत्तानमेवाति.
सगाथकपुञ्ञाभिसन्दवग्गो पञ्चमो.