१. वेळुद्वारवग्गो
१. चक्कवत्तिराजसुत्तवण्णना
९९७. सोतापत्तिसंयुत्तस्स पठमे किञ्चापीति अनुग्गहगरहणेसु निपातो. चतुन्नञ्हि महादीपानं इस्सरियाधिपच्चं रज्जं अनुग्गण्हन्तो चतुन्नञ्च अपायानं अप्पहीनभावं गरहन्तो सत्था ‘‘किञ्चापि, भिक्खवे, राजा चक्कवत्ती’’तिआदिमाह. तत्थ चतुन्नं दीपानन्ति द्विसहस्सदीपपरिवारानं चतुन्नं महादीपानं. इस्सरियाधिपच्चन्ति इस्सरभावो इस्सरियं, अधिपतिभावो आधिपच्चं, इस्सरियं आधिपच्चं एतस्मिं रज्जे, न छेदनभेदनन्ति इस्सरियाधिपच्चं. कारेत्वाति एवरूपं रज्जं पवत्तापेत्वा. किञ्चापि, भिक्खवे, अरियसावकोति एत्थ अनुग्गहपसंसासु निपातो. पिण्डियालोपेन हि यापनं अनुग्गहन्तो चतुन्नञ्च अपायानं पहीनभावं पसंसन्तो सत्था ‘‘किञ्चापि, भिक्खवे, अरियसावको’’तिआदिमाह. तत्थ नन्तकानीति अनन्तकानि. तेरसहत्थोपि हि वत्थसाटको दसच्छेदनतो पट्ठाय नन्तकन्तेव सङ्खं गच्छति.
अवेच्चप्पसादेनाति अचलप्पसादेन. सो पनायं पसादो किं एको, अनेकोति? एकोव, सो मग्गेन आगतप्पसादो. येसु पन वत्थूसु अपुब्बं अचरिमं रुहति, तेसं वसेन ‘‘बुद्धे अवेच्चप्पसादेना’’तिआदिना नयेन तिधा वुत्तो. यस्मा च एको, तस्माव निन्नानाकरणो होति. अरियसावकस्स हि बुद्धेयेव पसादो च पेमञ्च गारवञ्च महन्तं, न धम्मे वा सङ्घे वा, धम्मेयेव वा महन्तं, न बुद्धे वा सङ्घे वा, सङ्घेयेव वा महन्तं, न बुद्धे वा धम्मे वाति एतं नत्थि. इतिपि सो भगवातिआदीनि विसुद्धिमग्गे वित्थारितानेव.
अरियकन्तेहीति अरियानं कन्तेहि पियेहि मनापेहि. पञ्च हि सीलानि भवन्तरगतापि अरिया न कोपेन्ति, एवं तेसं पियानि. तानि सन्धायेतं वुत्तं. अखण्डेहीतिआदि सदिसवसेन वुत्तं. मुखवट्टियञ्हि छिन्नेकदेसा पाति खण्डाति वुच्चति, मज्झे भिन्ना छिद्दाति, एकस्मिं पदेसे विसभागवण्णा गावी सबलाति, नानाबिन्दुचित्ता कम्मासाति, एवमेव पटिपाटिया आदिम्हि वा अन्ते वा भिन्नं सीलं खण्डं नाम, मज्झे भिन्नं छिद्दं, यत्थ कत्थचि द्विन्नं वा तिण्णं वा पटिपाटिया भिन्नत्ता सबलं, एकन्तरं भिन्नं कम्मासं. तेसं दोसानं अभावेन अखण्डादिता वेदितब्बा. भुजिस्सेहीति भुजिस्सभावकरेहि. विञ्ञुप्पसत्थेहीति बुद्धादीहि विञ्ञूहि पसंसितेहि. अपरामट्ठेहीति ‘‘इदं नाम तया कतं, इदं वीतिक्कन्त’’न्ति एवं परामसितुं असक्कुणेय्येहि. समाधिसंवत्तनिकेहीति अप्पनासमाधिं उपचारसमाधिं वा संवत्तेतुं समत्थेहि.
२. ब्रह्मचरियोगधसुत्तवण्णना
९९८. दुतिये येसं सद्धाति पदेन बुद्धे पसादो गहितो. सीलन्ति पदेन अरियकन्तानि सीलानि गहितानि. पसादोति पदेन सङ्घे पसादो गहितो. धम्मदस्सनन्ति पदेन धम्मे पसादो गहितोति एवं चत्तारि सोतापत्तियङ्गानि वुत्तानि. कालेन पच्चेन्तीति कालेन पापुणन्ति. ब्रह्मचरियोगधं सुखन्ति ब्रह्मचरियं ओगाहित्वा ठितं उपरिमग्गत्तयसम्पयुत्तं सुखं. यो पनेस गाथाय आगतो पसादो, सो कतरपसादो होतीति. तिपिटकचूळाभयत्थेरो ताव ‘‘मग्गपसादो’’ति आह, तिपिटकचूळनागत्थेरो ‘‘आगतमग्गस्स पच्चवेक्खणप्पसादो’’ति. उभोपि थेरा पण्डिता बहुस्सुता, उभिन्नं सुभासितं. मिस्सकप्पसादो एसोति.
३. दीघावुउपासकसुत्तवण्णना
९९९. ततिये तस्माति यस्मा चतूसु सोतापत्तियङ्गेसु सन्दिस्ससि, तस्मा. विज्जाभागियेति विज्जाकोट्ठासिके. सब्बसङ्खारेसूति सब्बेसु तेभूमकसङ्खारेसु. एवमस्स उपरि तिण्णं मग्गानं विपस्सना कथिता. विघातन्ति दुक्खं.
४-५. पठमसारिपुत्तसुत्तादिवण्णना
१०००-१००१. चतुत्थ उत्तानमेव. पञ्चमे सोतापत्तियङ्गन्ति सोतापत्तिया पुब्बभागपटिलाभङ्गं. बुद्धे अवेच्चप्पसादादयो पन पटिलद्धगुणा सोतापन्नस्स अङ्गा नाम, तेपि पन सोतापत्तियङ्गन्ति आगता. तत्रायं द्विन्नम्पि वचनत्थो – सप्पुरिसे सेवन्तो भजन्तो पयिरुपासन्तो धम्मं सुणन्तो योनिसो मनसिकरोन्तो धम्मानुधम्मं पुब्बभागपटिपदं पटिपज्जन्तो सोतापत्तिं पटिलभतीति सप्पुरिससंसेवादयो सोतापत्तिअत्थाय अङ्गन्ति सोतापत्तियङ्गं नाम, इतरे पठममग्गसङ्खाताय सोतापत्तिया अङ्गन्तिपि सोतापत्तियङ्गं, पटिविद्धसोतापत्तिमग्गस्स सोतापत्तिमग्गो अङ्गन्तिपि सोतापत्तियङ्गं.
६. थपतिसुत्तवण्णना
१००२. छट्ठे साधुके पटिवसन्तीति साधुकनामके अत्तनो भोगगामके वसन्ति. तेसु इसिदत्तो सकदागामी, पुराणो सोतापन्नो सदारसन्तुट्ठो. मग्गे पुरिसं ठपेसुन्ति तेसं किर गामद्वारेन भगवतो गमनमग्गो. तस्मा ‘‘भगवा काले वा अकाले वा अम्हाकं सुत्तानं वा पमत्तानं वा गच्छेय्य, अथ पस्सितुं न लभेय्यामा’’ति मग्गमज्झे पुरिसं ठपेसुं.
अनुबन्धिंसूति न दूरतोव पिट्ठितो पिट्ठितो अनुबन्धिंसु, भगवा पन सकटमग्गस्स मज्झे जङ्घमग्गेन अगमासि, इतरे उभोसु पस्सेसु अनुगच्छन्ता अगमंसु. मग्गा ओक्कम्माति बुद्धानञ्हि केनचि सद्धिं गच्छन्तानंयेव पटिसन्थारं कातुं वट्टति केनचि सद्धिं ठितकानं, केनचि सद्धिं दिवसभागं निसिन्नानं. तस्मा भगवा चिन्तेसि – ‘‘इमेहि मे सद्धिं गच्छन्तस्स पटिसन्थारं कातुं अयुत्तं, ठितकेनपि कातुं न युत्तं, इमे हि मय्हं सासने सामिनो आगतफला. इमेहि सद्धिं निसीदित्वाव दिवसभागं पटिसन्थारं करिस्सामी’’ति मग्गा ओक्कम्म येन अञ्ञतरं रुक्खमूलं तेनुपसङ्कमि.
पञ्ञत्ते आसने निसीदीति ते किर छत्तुपाहनं कत्तरदण्डं पादब्भञ्जनतेलादीनि चेव अट्ठविधञ्च पानकं सरभपादपल्लङ्कञ्च गाहापेत्वा अगमंसु, आभतं पल्लङ्कम्पि पञ्ञापेत्वा अदंसु, सत्था तस्मिं निसीदि. एकमन्तं निसीदिंसूति सेसानि छत्तुपाहनादीनि भिक्खुसङ्घस्स देथाति वत्वा सयम्पि भगवन्तं वन्दित्वा एकमन्तं निसीदिंसु.
सावत्थिया कोसलेसु चारिकं पक्कमिस्सतीतिआदि सब्बं मज्झिमपदेसवसेनव वुत्तं. कस्मा? नियतत्ता. भगवतो हि चारिकाचरणम्पि अरुणुट्ठापनम्पि नियतं, मज्झिमपदेसेयेव चारिकं चरति, मज्झिमदेसे अरुणं उट्ठपेतीति नियतत्ता मज्झिमदेसवसेन वुत्तं. आसन्ने नो भगवा भविस्सतीति एत्थ न केवलं आसन्नत्तायेव तेसं सोमनस्सं होति, अथ खो ‘‘इदानि दानं दातुं गन्धमालादीहि पूजं कातुं धम्मं सोतुं पञ्हं पुच्छितुं लभिस्सामा’’ति तेसं सोमनस्सं होति.
तस्मातिह थपतयो सम्बाधो घरावासोति थपतयो यस्मा तुम्हाकं मयि दूरीभूते अनप्पकं दोमनस्सं, आसन्ने अनप्पकं सोमनस्सं होति, तस्मापि वेदितब्बमेतं ‘‘सम्बाधो घरावासो’’ति. घरावासस्स हि दोसेन तुम्हाकं एवं होति. सचे पन घरावासं पहाय पब्बजिता, अथ एवं वो मया सद्धिंयेव गच्छन्तानञ्च आगच्छन्तानञ्च तं न भवेय्याति इममत्थं दीपेन्तो एवमाह. तत्थ सकिञ्चनसपलिबोधट्ठेन सम्बाधता वेदितब्बा. महावासे वसन्तस्सपि हि सकिञ्चनसपलिबोधट्ठेन घरावासो सम्बाधोव. रजापथोति रागदोसमोहरजानं आपथो, आगमनट्ठानन्ति अत्थो. अब्भोकासो पब्बज्जाति पब्बज्जा पन अकिञ्चनअपलिबोधट्ठेन अब्भोकासो. चतुरतनिकेपि हि गब्भे द्विन्नं भिक्खूनं पल्लङ्केन पल्लङ्कं घटेत्वा निसिन्नानम्पि अकिञ्चनअपलिबोधट्ठेन पब्बज्जा अब्भोकासो नाम होति. अलञ्च पन वो थपतयो अप्पमादायाति एवं सम्बाधे घरावासे वसन्तानं तुम्हाकं अप्पमादमेव कातुं युत्तन्ति अत्थो.
एकं पुरतो एकं पच्छतो निसीदापेमाति ते किर द्वेपि जना सब्बालङ्कारपटिमण्डितेसु द्वीसु नागेसु ता इत्थियो एवं निसीदापेत्वा रञ्ञो नागं मज्झे कत्वा उभोसु पस्सेसु गच्छन्ति, तस्मा एवमाहंसु. नागोपि रक्खितब्बोति यथा किञ्चि विसेवितं न करोति, एवं रक्खितब्बो होति. तापि भगिनियोति यथा पमादं नापज्जन्ति, एवं रक्खितब्बा होन्ति. अत्तापीति सितहसितकथितविपेक्खितादीनि अकरोन्तेहि अत्तापि रक्खितब्बो होति. (तेहि तथा करोन्तेहि न अत्तापि रक्खितब्बो होति). तथा करोन्तो हि ‘‘सामिदुब्भो एसो’’ति निग्गहेतब्बो होति. तस्मातिह थपतयोति यस्मा तुम्हे राजा निच्चं राजभण्डं पटिच्छापेति, तस्मापि सम्बाधो घरावासो रजापथो. यस्मा पन पंसुकूलिकभिक्खुं एवं पटिच्छापेन्तो नत्थि, तस्मा अब्भोकासो पब्बज्जा. एवं सब्बत्थापि अलञ्च पन वो थपतयो अप्पमादाय अप्पमादमेव करोथाति दस्सेति.
मुत्तचागोति विस्सट्ठचागो. पयतपाणीति आगतागतानं दानत्थाय धोतहत्थो. वोस्सग्गरतोति वोस्सग्गसङ्खाते चागे रतो. याचयोगोति याचितब्बकयुत्तो. दानसंविभागरतोति दानेन चेव अप्पमत्तकम्पि किञ्चि लद्धा ततोपि संविभागे रतो. अप्पटिविभत्तन्ति ‘‘इदं अम्हाकं भविस्सति, इदं भिक्खून’’न्ति एवं अकतविभागं, सब्बं दातब्बमेव हुत्वा ठितन्ति अत्थो.
७. वेळुद्वारेय्यसुत्तवण्णना
१००३. सत्तमे वेळुद्वारन्ति गामद्वारे पवेणिआगतस्स वेळुगच्छस्स अत्थिताय एवंलद्धनामो गामो. अत्तुपनायिकन्ति अत्तनि उपनेतब्बं. सम्फभासेनाति अमन्तभासेन. सम्फप्पलापभासेनाति सम्फप्पलापसम्भासेन निरत्थकेन अञ्ञाणवचनेनाति अत्थो.
८-९. पठमगिञ्जकावसथसुत्तादिवण्णना
१००४-५. अट्ठमे ञातिकेति एकं तळाकं निस्साय द्विन्नं चूळपितिमहापितिपुत्तानं द्वे गामा, तेसु एकस्मिं गामके. गिञ्जकावसथेति इट्ठकामये आवसथे. ओरम्भागियानन्ति हेट्ठाभागियानं, कामभवेयेव पटिसन्धिग्गाहापकानन्ति अत्थो. ओरन्ति लद्धनामेहि वा तीहि मग्गेहि पहातब्बानीतिपि ओरम्भागियानि. तत्थ कामच्छन्दो ब्यापादोति इमानि द्वे समापत्तिया वा अविक्खम्भितानि मग्गेन वा असमुच्छिन्नानि निब्बत्तिवसेन उद्धं भागं रूपभवं अरूपभवं वा गन्तुं न देन्ति. सक्कायदिट्ठिआदीनि तीणि तत्थ निब्बत्तम्पि आनेत्वा पुन इधेव निब्बत्तापेन्तीति सब्बानिपि ओरम्भागियानेव. अनावत्तिधम्मोति पटिसन्धिवसेन अनागमनसभावो.
रागदोसमोहानं तनुत्ताति एत्थ कदाचि उप्पत्तिया च परियुट्ठानमन्दताय चाति द्वेधापि तनुभावो वेदितब्बो. सकदागामिस्स हि पुथुज्जनानं विय अभिण्हं रागादयो न उप्पज्जन्ति, कदाचि करहचि उप्पज्जन्ति. उप्पज्जमाना च न पुथुज्जनानं विय बहलबहला उप्पज्जन्ति, मक्खिपत्तं विय तनुका उप्पज्जन्ति. दीघभाणकतिपिटकमहासीवत्थेरो पनाह – ‘‘यस्मा सकदागामिस्स पुत्तधीतरो होन्ति, ओरोधा च होन्ति, तस्मा बहला किलेसा. इदं पन भवतनुकवसेन कथित’’न्ति. तं अट्ठकथायं ‘‘सोतापन्नस्स सत्त भवे ठपेत्वा अट्ठमे भवे भवतनुकं नत्थि, सकदागामिस्स द्वे भवे ठपेत्वा पञ्चसु भवेसु भवतनुकं नत्थि, अनागामिस्स रूपारूपभवं ठपेत्वा कामभवे भवतनुकं नत्थि, खीणासवस्स किस्मिञ्चि भवे भवतनुकं नत्थी’’ति वुत्तत्ता पटिक्खित्तं होति.
इमं लोकन्ति इमं कामावचरलोकं सन्धाय वुत्तं. अयञ्हेत्थ अधिप्पायो – सचे हि मनुस्सेसु सकदागामिफलं पत्तो देवेसु निब्बत्तित्वा अरहत्तं सच्छिकरोति, इच्चेतं कुसलं. असक्कोन्तो पन अवस्सं मनुस्सलोकं आगन्त्वा सच्छिकरोति. देवेसु सकदागामिफलं पत्तोपि सचे मनुस्सेसु निब्बत्तित्वा अरहत्तं सच्छिकरोति, इच्चेतं कुसलं. असक्कोन्तो पन अवस्सं देवलोकं गन्त्वा सच्छिकरोतीति.
विनिपतनं विनिपातो, नास्स विनिपातो धम्मोति अविनिपातधम्मो, चतूसु अपायेसु अविनिपातनसभावोति अत्थो. नियतोति धम्मनियामेन नियतो. सम्बोधिपरायणोति उपरिमग्गत्तयसङ्खाता सम्बोधि परं अयनं अस्स गति पटिसरणं अवस्सं पत्तब्बाति सम्बोधिपरायणो. विहेसावेसाति तेसं तेसं ञाणगतिं ञाणूपपत्तिं ञाणाभिसम्परायं ओलोकेन्तस्स कायकिलमथोव एस, आनन्द, तथागतस्साति दीपेति. चित्तविहेसा पन बुद्धानं नत्थि.
धम्मादासन्ति धम्ममयं आदासं. येनाति येन धम्मादासेन समन्नागतो. खीणापायदुग्गतिविनिपातोति इदं निरयादीनंयेव वेवचनवसेनेव वुत्तं. निरयादयो हि वड्ढिसङ्खाततो अयतो अपेतत्ता अपायो, दुक्खस्स गति पटिसरणन्ति. दुग्गति, दुक्कटकारिनो एत्थ विवसा निपतन्तीति विनिपातो. नवमं उत्तानमेव.
१०. ततियगिञ्जकावसथसुत्तवण्णना
१००६. दसमे परोपञ्ञासाति अतिरेकपञ्ञास. साधिकनवुतीति अतिरेकनवुति. छातिरेकानीति छहि अधिकानि. सो किर गामो किञ्चापि नातिमहा अहोसि, अरियसावका पनेत्थ बहू. तत्थ तत्थ अहिवातरोगेन एकप्पहारेनेव चतुवीसति पाणसतसहस्सानि कालमकंसु, तेसु अरियसावका एत्तका नाम अहेसुं. सेसं सब्बत्थ उत्तानमेवाति.
वेळुद्वारवग्गो पठमो.