१-२. अविज्जासुत्तादिवण्णना
१-२. महावग्गस्स पठमे पुब्बङ्गमाति सहजातवसेन च उपनिस्सयवसेन चाति द्वीहाकारेहि पुब्बङ्गमा. समापत्तियाति समापज्जनाय सभावपटिलाभाय, उप्पत्तियाति अत्थो. अन्वदेव अहिरिकं अनोत्तप्पन्ति सा पनेसा यदेतं अलज्जनाकारसण्ठिकं अहिरिकं, अभायनाकारसण्ठितञ्च अनोत्तप्पं, एतं अनुदेव सहेव एकतोव, न विना तेन उप्पज्जतीति अत्थो. अविज्जागतस्साति अविज्जाय उपगतस्स समन्नागतस्स. मिच्छादिट्ठीति अयाथावदिट्ठि अनिय्यानिकदिट्ठि. पहोतीति होति उप्पज्जति. मिच्छासङ्कप्पादीसुपि अयाथावअनिय्यानिकवसेनेव मिच्छाभावो वेदितब्बो. इति इमानि अट्ठपि अकुसलधम्मसमापत्तिया मिच्छत्तअङ्गानि नाम होन्ति. तानि पन न एकक्खणे सब्बानि लब्भन्ति, नानक्खणे लब्भन्ति.
कथं? यदा हि दिट्ठिसम्पयुत्तचित्तं कायविञ्ञत्तिं समुट्ठापेन्तं उप्पज्जति, तदा मिच्छादिट्ठि मिच्छासङ्कप्पो मिच्छावायामो मिच्छासति मिच्छासमाधि मिच्छाकम्मन्तोति छ अङ्गानि होन्ति. यदा दिट्ठिविप्पयुत्तं, तदा मिच्छादिट्ठिवज्जानि पञ्च. यदा तानेव द्वे वचीविञ्ञत्तिं समुट्ठापेन्ति, तदा मिच्छाकम्मन्तट्ठाने मिच्छावाचाय सद्धिं तानेव छ वा पञ्च वा. अयं आजीवो नाम कुप्पमानो कायवचीद्वारेसुयेव अञ्ञतरस्मिं कुप्पति, न मनोद्वारे. तस्मा यदा आजीवसीसेन तानेव चित्तानि कायवचीविञ्ञत्तियो समुट्ठापेन्ति, तदा कायकम्मं मिच्छाजीवो नाम होति, तथा वचीकम्मन्ति मिच्छाजीवस्स वसेन तानेव छ वा पञ्च वा. यदा पन विञ्ञत्तिं असमुट्ठापेत्वा तानि चित्तानि उप्पज्जन्ति, तदा मिच्छादिट्ठिमिच्छासङ्कप्पमिच्छावायाममिच्छासतिमिच्छासमाधिवसेन पञ्च वा, मिच्छासङ्कप्पादिवसेन चत्तारि वा होन्तीति एवं न एकक्खणे सब्बानि लब्भन्ति, नानक्खणे लब्भन्तीति.
सुक्कपक्खे विज्जाति कम्मस्सकतञाणं. इहापि सहजातवसेन च उपनिस्सयवसेन चाति द्वीहाकारेहि पुब्बङ्गमता वेदितब्बा. हिरोत्तप्पन्ति हिरी च ओत्तप्पञ्च. तत्थ लज्जनाकारसण्ठिता हिरी, भायनाकारसण्ठितं ओत्तप्पं. अयमेत्थ सङ्खेपो, वित्थारो पन विसुद्धिमग्गे वुत्तोव. विज्जागतस्साति विज्जाय उपगतस्स समन्नागतस्स. विद्दसुनोति विदुनो पण्डितस्स. सम्मादिट्ठीति याथावदिट्ठि निय्यानिकदिट्ठि. सम्माकम्मन्तादीसुपि एसेव नयो. इति कुसलधम्मसमापत्तिया इमानि अट्ठङ्गानि होन्ति, तानि लोकियमग्गक्खणे न एकतो सब्बानि लब्भन्ति, लोकुत्तरमग्गक्खणे पन लब्भन्ति. तानि च खो पठमज्झानिकमग्गे, दुतियज्झानिकादीसु पन सम्मासङ्कप्पवज्जानि सत्तेव होन्ति.
तत्थ यो एवं वदेय्य ‘‘यस्मा मज्झिमनिकायम्हि महासळायतनिकसुत्ते (म. नि. ३.४३१) ‘या तथाभूतस्स दिट्ठि, सास्स होति सम्मादिट्ठि. यो तथाभूतस्स, सङ्कप्पो, स्वास्स होति सम्मासङ्कप्पो. यो तथाभूतस्स वायामो, स्वास्स होति सम्मावायामो. या तथाभूतस्स सति, स्वास्स होति सम्मासति. यो तथाभूतस्स समाधि, स्वास्स होति सम्मासमाधि. पुब्बेव खो पनस्स कायकम्मं वचीकम्मं आजीवो च सुपरिसुद्धो’ति वुत्तं तस्मा पञ्चङ्गिकोपि लोकुत्तरमग्गो होती’’ति सो वत्तब्बो – तस्मिंयेव सुत्ते ‘‘एवमस्सायं अरियो अट्ठङ्गिको मग्गो भावनापारिपूरिं गच्छती’’ति इदं कस्मा न पस्ससि? यं पनेतं ‘‘पुब्बेव खो पनस्सा’’ति वुत्तं, तं पब्बजितदिवसतो पट्ठाय परिसुद्धभावदस्सनत्थं. पब्बजितदिवसतो पट्ठाय हि परिसुद्धानि कायकम्मादीनि लोकुत्तरमग्गक्खणे अतिपरिसुद्धानि होन्तीति अयमत्थो दीपितो.
यम्पि अभिधम्मे वुत्तं ‘‘तस्मिं खो पन समये पञ्चङ्गिको मग्गो होती’’ति (विभ. २१२), तं एकं किच्चन्तरं दस्सेतुं वुत्तं. यस्मिञ्हि काले मिच्छाकम्मन्तं पहाय सम्माकम्मन्तं पूरेति, तस्मिं काले मिच्छावाचा वा मिच्छाजीवो वा न होति, दिट्ठि सङ्कप्पो वायामो सति समाधीति इमेसुयेव पञ्चसु कारकङ्गेसु सम्माकम्मन्तो पूरति. विरतिवसेन हि सम्माकम्मन्तो पूरति नाम. सम्मावाचासम्माआजीवेसुपि एसेव नयो. इति इमं किच्चन्तरं दस्सेतुं एवं वुत्तं. लोकियमग्गक्खणे च पञ्चेव होन्ति, विरति पन अनियता. तस्मा ‘‘छअङ्गिको’’ति अवत्वा ‘‘पञ्चङ्गिको’’त्वेव वुत्तं. ‘‘या च, भिक्खवे, अरियचित्तस्स अनासवचित्तस्स अरियमग्गसमङ्गिनो अरियमग्गं भावयतो तीहि कायदुच्चरितेहि आरति विरति पटिविरति वेरमणी अकिरिया अकरणं, अयं भिक्खवे सम्माकम्मन्तो अरियो अनासवो लोकुत्तरमग्गो’’ति (म. नि. ३.१३९). एवं पन महाचत्तालीसकसुत्तादीसु अनेकेसु सुत्तेसु सम्माकम्मन्तादीनञ्च लोकुत्तरमग्गस्स अङ्गभावसिद्धितो अट्ठङ्गिकोव लोकुत्तरमग्गो होतीति वेदितब्बोति. इमस्मिं सुत्ते अयं अट्ठङ्गिको मग्गो लोकियलोकुत्तरमिस्सकोव कथितो. दुतियं कोसलसंयुत्ते वुत्तमेव.