७. खेत्तूपमसुत्तवण्णना

३५९. सत्तमे जङ्गलन्ति थद्धं न मुदु. ऊसरन्ति सञ्जातलोणं. पापभूमीति लामकभूमिभागं. मंदीपातिआदीसु अहं दीपो पतिट्ठा एतेसन्ति मंदीपा. अहं लेणो अल्लीयनट्ठानं एतेसन्ति मंलेणा. अहं ताणं रक्खा एतेसन्ति मंताणा. अहं सरणं भयनासनं एतेसन्ति मंसरणा. विहरन्तीति मं एवं कत्वा विहरन्ति.

गोभत्तम्पीति धञ्ञफलस्स अभावेन लायित्वा कलापकलापं बन्धित्वा ठपितं गिम्हकाले गुन्नम्पि खादनं भविस्सतीति अत्थो. उदकमणिकोति कुच्छियं मणिकमेखलाय एवं लद्धनामो भाजनविसेसो. अहारी अपरिहारीति उदकं न हरति न परिहरति, न परियादियतीति अत्थो. इति इमस्मिं सुत्ते सक्कच्चधम्मदेसनाव कथिता. बुद्धानञ्हि असक्कच्चधम्मदेसना नाम नत्थि. सीहसमानवुत्तिनो हि बुद्धा, यथा सीहो पभिन्नवरवारणस्सपि ससबिळारादीनम्पि गहणत्थाय एकसदिसमेव वेगं करोति, एवं बुद्धापि एकस्स देसेन्तापि द्विन्नं बहूनं भिक्खुपरिसाय भिक्खुनिउपासकउपासिकापरिसायपि तित्थियानम्पि देसेन्ता सक्कच्चमेव देसेन्ति. चतस्सो पन परिसा सद्दहित्वा ओकप्पेत्वा सुणन्तीति तासं देसना सक्कच्चदेसना नाम जाता.