२. पठमइसिदत्तसुत्तवण्णना

३४४. दुतिये आयस्मन्तं थेरन्ति तेसु थेरेसु जेट्ठकं महाथेरं. तुण्ही अहोसीति जानन्तोपि अविसारदत्ता न किञ्चि ब्याहरि. ब्याकरोमहं भन्तेति ‘‘अयं थेरो नेव अत्तना ब्याकरोति, न अञ्ञे अज्झेसति, उपासकोपि भिक्खुसङ्घं विहेसेति, अहमेतं ब्याकरित्वा फासुविहारं कत्वा दस्सामी’’ति चिन्तेत्वा आसनतो वुट्ठाय थेरस्स सन्तिकं गन्त्वा एवं ओकासमकासि, कतावकासो पन अत्तनो आसने निसीदित्वा ब्याकासि.

सहत्थाति सहत्थेन. सन्तप्पेसीति यावदिच्छकं देन्तो सुट्ठु तप्पेसि. सम्पवारेसीति ‘‘अलं अल’’न्ति हत्थसञ्ञाय चेव वाचाय च पटिक्खिपापेसि. ओनीतपत्तपाणिनोति पाणितो अपनीतपत्ता धोवित्वा थविकाय ओसापेत्वा अंसे लग्गितपत्ताति अत्थो.