९. अनिमित्तपञ्हासुत्तवण्णना
३४०. अनिमित्तं चेतोसमाधिन्ति निच्चनिमित्तादीनि पहाय पवत्तं विपस्सनासमाधिंयेव सन्धायेतं वुत्तन्ति. निमित्तानुसारि विञ्ञाणं होतीति एवं इमिना विपस्सनासमाधिविहारेन विहरतो विपस्सनाञाणे तिक्खे सूरे वहमाने. यथा नाम पुरिसस्स तिखिणेन फरसुना रुक्खं छिन्दन्तस्स ‘‘सुट्ठु वत मे फरसु वहती’’ति खणे खणे फरसुधारं ओलोकेन्तस्स छेज्जकिच्चं न निप्फज्जति, एवं थेरस्सापि ‘‘सूरं वत मे हुत्वा ञाणं वहती’’ति विपस्सनं आरब्भ निकन्ति उप्पज्जति. अथ विपस्सनाकिच्चं साधेतुं नासक्खि. तं सन्धाय वुत्तं ‘‘निमित्तानुसारि विञ्ञाणं होती’’ति. सब्बनिमित्तानं अमनसिकारा अनिमित्तं चेतोसमाधिं उपसम्पज्ज विहासिन्ति सब्बेसं निच्चसुखअत्तनिमित्तानं अमनसिकारेन अनिमित्तं वुट्ठानगामिनिविपस्सनासम्पयुत्तं चेतोसमाधिं निब्बानारम्मणं उपरिमग्गफलसमाधिं उपसम्पज्ज विहासिं.