२-१०. पसय्हसुत्तादिवण्णना

३०५-३१३. पसय्हाति अभिभवित्वा. अभिभुय्य वत्ततीति अभिभवति अज्झोत्थरति. नेव रूपबलं तायतीति नेव रूपबलं तायितुं रक्खितुं सक्कोति. नासेन्तेव नं, कुले न वासेन्तीति ‘‘दुस्सीला संभिन्नाचारा अतिक्कन्तमरियादा’’ति गीवायं गहेत्वा नीहरन्ति, न तस्मिं कुले वासेन्ति. वासेन्तेव नं कुले, न नासेन्तीति ‘‘किं रूपेन भोगादीहि वा, परिसुद्धसीला एसा आचारसम्पन्ना’’ति ञत्वा ञातका तस्मिं कुले वासेन्तियेव, न नासेन्ति. सेसं सब्बत्थ उत्तानत्थमेवाति.

मातुगामसंयुत्तवण्णना निट्ठिता.