८-१०. महादिट्ठिसुत्तादिवण्णना

२१३-२१५. अकटाति अकता. अकटविधाति अकतविधाना, ‘‘एवं करोही’’ति केनचि कारितापि न होन्तीति अत्थो. अनिम्मिताति इद्धियापि न निम्मिता. अनिम्माताति अनिम्मापिता. ‘‘अनिम्मितब्बा’’तिपि पाठो, न निम्मितब्बाति अत्थो. वञ्झाति वञ्झपसुवञ्झतालादयो विय अफला कस्सचि अजनका. पब्बतकूटं विय ठिताति कूटट्ठा. एसिकट्ठायिनो विय हुत्वा ठिताति एसिकट्ठायिट्ठिता, यथा सुनिखातो एसिकत्थम्भो निच्चलो तिट्ठति, एवं ठिताति अत्थो. न इञ्जन्तीति एसिकत्थम्भो विय ठितत्ता न चलन्ति. न विपरिणमन्तीति पकतिं न विजहन्ति. न अञ्ञमञ्ञं ब्याबाधेन्तीति अञ्ञमञ्ञं न उपहनन्ति. नालन्ति न समत्था. पथवीकायोतिआदीसु पथवीयेव पथवीकायो, पथवीसमूहो वा. सत्तन्नंत्वेव कायानन्ति यथा मुग्गरासिआदीसु पहटं सत्थं मुग्गरासिआदीनं अन्तरेनेव पविसति, एवं सत्तन्नं कायानं अन्तरेन छिद्देन विवरेन सत्थं पविसति. तत्थ ‘‘अहं इमं जीविता वोरोपेमी’’ति केवलं सञ्ञामत्तमेव होतीति दस्सेन्ति.

योनिपमुखसतसहस्सानीति पमुखयोनीनं उत्तमयोनीनं चुद्दससतसहस्सानि अञ्ञानि च सट्ठिसतानि अञ्ञानि च छसतानि पञ्च च कम्मुनो सतानीति पञ्चकम्मसतानि चाति केवलं तक्कमत्तकेन निरत्थकदिट्ठिं दीपेन्ति. पञ्च च कम्मानि तीणि च कम्मानीतिआदीसुपि एसेव नयो. केचि पनाहु ‘‘पञ्च कम्मानीति पञ्चिन्द्रियवसेन गण्हन्ति, तीणीति कायकम्मादिवसेना’’ति. कम्मे च अड्ढकम्मे चाति एत्थ पनस्स कायकम्मवचीकम्मानि कम्मन्ति लद्धि, मनोकम्मं उपड्ढकम्मन्ति. द्वट्ठिपटिपदाति द्वासट्ठिपटिपदाति वदन्ति. द्वट्ठन्तरकप्पाति एकस्मिं कप्पे चतुसट्ठि अन्तरकप्पा नाम होन्ति, अयं पन अञ्ञे द्वे अजानन्तो एवमाह.

छळाभिजातियोति कण्हाभिजाति नीलाभिजाति लोहिताभिजाति हलिद्दाभिजाति सुक्काभिजाति परमसुक्काभिजातीति इमा छ अभिजातियो वदन्ति. तत्थ ओरब्भिका सूकरिका साकुणिका मागविका लुद्दा मच्छघातका चोरा चोरघातका बन्धनागारिका, ये वा पनञ्ञेपि केचि कुरूरकम्मन्ता, अयं कण्हाभिजातीति वदन्ति. भिक्खू नीलाभिजातीति वदन्ति. ते किर चतूसु पच्चयेसु कण्टके पक्खिपित्वा खादन्ति, ‘‘भिक्खू च कण्टकवुत्तिका’’ति (अ. नि. ६.५७) अयं हिस्स पाळि एव. अथ वा कण्टकवुत्तिका एव नाम एके पब्बजिताति वदन्ति. लोहिताभिजाति नाम निगण्ठा एकसाटकाति वदन्ति. इमे किर पुरिमेहि द्वीहि पण्डरतरा. गिही ओदातवसना अचेलकसावका हलिद्दाभिजातीति वदन्ति. एवं अत्तनो पच्चयदायके निगण्ठेहिपि जेट्ठकतरे करोन्ति. आजीवका आजीविनियो अयं सुक्काभिजातीति वदन्ति. ते किर पुरिमेहि चतूहि पण्डरतरा. नन्दो वच्छो, किसो संकिच्चो, मक्खलि गोसालो परमसुक्काभिजातीति वदन्ति. ते किर सब्बेहि पण्डरतरा.

अट्ठ पुरिसभूमियोति मन्दभूमि खिड्डाभूमि वीमंसकभूमि उजुगतभूमि सेखभूमि समणभूमि जाननभूमि पन्नभूमीति इमा अट्ठ पुरिसभूमियोति वदन्ति. तत्थ जातदिवसतो पट्ठाय सत्त दिवसे सम्बाधट्ठानतो निक्खन्तत्ता सत्ता मन्दा होन्ति मोमूहा, अयं मन्दभूमीति वदन्ति. ये पन दुग्गतितो आगता होन्ति, ते अभिण्हं रोदन्ति चेव विरवन्ति च, सुगतितो आगता तं अनुस्सरित्वा अनुस्सरित्वा हसन्ति, अयं खिड्डाभूमि नाम. मातापितूनं हत्थं वा पादं वा मञ्चं वा पीठं वा गहेत्वा भूमियं पदनिक्खिपनं वीमंसकभूमि नाम. पदसा गन्तुं समत्थकालो उजुगतभूमि नाम. सिप्पानि सिक्खनकालो सेखभूमि नाम. घरा निक्खम्म पब्बजनकालो समणभूमि नाम. आचरियं सेवित्वा जाननकालो जाननभूमि नाम. ‘‘भिक्खु च पन्नको जिनो न किञ्चि आहा’’ति एवं अलाभिं समणं पन्नभूमीति वदन्ति.

एकूनपञ्ञास आजीवकसतेति एकूनपञ्ञास आजीववुत्तिसतानि. परिब्बाजकसतेति परिब्बाजकपब्बज्जासतानि. नागवाससतेति नागमण्डलसतानि. वीसे इन्द्रियसतेति वीस इन्द्रियसतानि. तिंसे निरयसतेति तिंस निरयसतानि. रजोधातुयोति रजओकिरणट्ठानानि. हत्थपिट्ठिपादपिट्ठादीनि सन्धाय वदति. सत्त सञ्ञीगब्भाति ओट्ठगोणगद्रभअजपसुमिगमहिंसे सन्धाय वदति. सत्त असञ्ञीगब्भाति सालियवगोधुममुग्गकङ्गुवरककुद्रूसके सन्धाय वदति. निगण्ठिगब्भाति गण्ठिम्हि जातगब्भा, उच्छुवेळुनळादयो सन्धाय वदति. सत्त देवाति बहू देवा, सो पन सत्ताति वदति. मनुस्सापि अनन्ता, सो सत्ताति वदति. सत्त पेसाचाति पिसाचा महन्तमहन्ता, सत्ताति वदति. सराति महासरा. कण्णमुण्ड-रथकार-अनोतत्त-सीहप्पपात-छद्दन्त-मुचलिन्द-कुणालदहे गहेत्वा वदति.

पवुटाति गण्ठिका. पपाताति महापपाता. पपातसतानीति खुद्दकपपातसतानि. सुपिनाति महासुपिना. सुपिनसतानीति खुद्दकसुपिनसतानि. महाकप्पिनोति महाकप्पानं. एत्थ एकम्हा महासरा वस्ससते वस्ससते कुसग्गेन एकं उदकबिन्दुं नीहरित्वा सत्तक्खत्तुं तम्हि सरे निरुदके कते एको महाकप्पोति वदति. एवरूपानं महाकप्पानं चतुरासीतिसतसहस्सानि खेपेत्वा बाले च पण्डिते च दुक्खस्सन्तं करोन्तीति अयमस्स लद्धि. पण्डितोपि किर अन्तराविसुज्झितुं न सक्कोति, बालोपि ततो उद्धं न गच्छति.

सीलेन वाति अचेलकसीलेन वा अञ्ञेन वा येन केनचि. वतेनाति तादिसेनेव वतेन. तपेनाति तपोकम्मेन. अपरिपक्कं परिपाचेति नाम यो ‘‘अहं पण्डितो’’ति अन्तरा विसुज्झति. परिपक्कं फुस्स फुस्स ब्यन्तीकरोति नाम यो ‘‘अहं बालो’’ति वुत्तपरिमाणकालं अतिक्कमित्वा याति. हेवं नत्थीति एवं नत्थि. तञ्हि उभयम्पि न सक्का कातुन्ति दीपेति. दोणमितेति दोणेन मितं विय. सुखदुक्खेति सुखदुक्खं. परियन्तकतेति वुत्तपरिमाणेन कालेन कतपरियन्तो. नत्थि हायनवड्ढनेति नत्थि हायनवड्ढनानि, न संसारो पण्डितस्स हायति, न बालस्स वड्ढतीति अत्थो. उक्कंसावकंसेति उक्कंसावकंसा. हायनवड्ढनानमेवेतं वेवचनं. इदानि तमत्थं उपमाय साधेन्तो सेय्यथापि नामातिआदिमाह. तत्थ सुत्तगुळेति वेठेत्वा कतसुत्तगुळे. निब्बेठियमानमेव पलेतीति पब्बते वा रुक्खग्गे वा ठत्वा खित्तं सुत्तप्पमाणेन निब्बेठियमानमेव गच्छति, सुत्ते खीणे तत्थेव तिट्ठति, न गच्छति एवमेव बाला च पण्डिता च कालवसेन निब्बेठियमाना सुखदुक्खं पलेन्ति, यथावुत्तेन कालेन अतिक्कमन्तीति दस्सेति.