२-१०. सत्तसुत्तादिवण्णना

१६१-१६९. दुतिये सत्तो सत्तोति लग्गपुच्छा. तत्र सत्तो तत्र विसत्तोति तत्र लग्गो तत्र विलग्गो. पंस्वागारकेहीति पंसुघरकेहि. केळायन्तीति कीळन्ति. धनायन्तीति धनं विय मञ्ञन्ति. ममायन्तीति ‘‘मम इदं, मम इद’’न्ति ममत्तं करोन्ति, अञ्ञस्स फुसितुम्पि न देन्ति. विकीळनियं करोन्तीति ‘‘निट्ठिता कीळा’’ति ते भिन्दमाना कीळाविगमं करोन्ति. ततिये भवनेत्तीति भवरज्जु. चतुत्थं उत्तानमेव. पञ्चमादीसु चतूसु चत्तारि सच्चानि कथितानि, द्वीसु किलेसप्पहानन्ति. दुतियादीनि.

पठमो वग्गो.