१. समाधिमूलकसमापत्तिसुत्तवण्णना
६६२. झानसंयुत्तस्स पठमे समाधिकुसलोति पठमं झानं पञ्चङ्गिकं दुतियं तिवङ्गिकन्ति एवं अङ्गववत्थानकुसलो. न समाधिस्मिं समापत्तिकुसलोति चित्तं हासेत्वा कल्लं कत्वा झानं समापज्जितुं न सक्कोति. इमिना नयेन सेसपदानिपि वेदितब्बानि.