९. नागसुत्तवण्णना

२३१. नवमे अतिवेलन्ति अतिक्कन्तवेलं कालं अतिक्कन्तप्पमाणं कालं. किमङ्गं पनाहन्ति अहं पन किंकारणा न उपसङ्कमिस्सामि? भिसमुळालन्ति भिसञ्चेव मुळालञ्च. अब्बुहेत्वाति उद्धरित्वा. भिङ्कच्छापाति हत्थिपोतका. ते किर अभिण्हं भिङ्कारसद्दं करोन्ति, तस्मा भिङ्कच्छापाति वुच्चन्ति. पसन्नाकारं करोन्तीति पसन्नेहि कत्तब्बाकारं करोन्ति, चत्तारो पच्चये देन्ति. धम्मं भासन्तीति एकं द्वे जातकानि वा सुत्तन्ते वा उग्गण्हित्वा असम्भिन्नेन सरेन धम्मं देसेन्ति. पसन्नाकारं करोन्तीति तेसं ताय देसनाय पसन्ना गिही पच्चये देन्ति. नेव वण्णाय होति न बलायाति नेव गुणवण्णाय, न ञाणबलाय होति, गुणवण्णे पन परिहायन्ते सरीरवण्णोपि सरीरबलम्पि परिहायति, तस्मा सरीरस्स नेव वण्णाय न बलाय होति. नवमं.