९. दुतियसूचिलोमसुत्तवण्णना
२१०. दुतिये सूचिलोमवत्थुस्मिं सूचकोति पेसुञ्ञकारको. सो किर मनुस्से अञ्ञमञ्ञञ्च भिन्दि, राजकुले च ‘‘इमस्स इमं नाम अत्थि, इमिना इदं नाम कत’’न्ति सूचेत्वा सूचेत्वा अनयब्यसनं पापेसि. तस्मा यथा तेन सूचेत्वा मनुस्सा भिन्ना, तथा सूचीहि भेदनदुक्खं पच्चनुभोतुं कम्ममेव निमित्तं कत्वा सूचिलोमपेतो जातो. नवमं.