१. अट्ठिसुत्तवण्णना

२०२. लक्खणसंयुत्ते य्वायं आयस्मा च लक्खणोति लक्खणत्थेरो वुत्तो, एस जटिलसहस्सब्भन्तरे एहिभिक्खूपसम्पदाय उपसम्पन्नो आदित्तपरियायावसाने अरहत्तं पत्तो एको महासावकोति वेदितब्बो. यस्मा पनेस लक्खणसम्पन्नेन सब्बाकारपरिपूरेन ब्रह्मसमेन अत्तभावेन समन्नागतो, तस्मा ‘‘लक्खणो’’ति सङ्खं गतो. महामोग्गल्लानो पन पब्बजितदिवसतो सत्तमे दिवसे अरहत्तं पत्तो दुतियो अग्गसावको.

सितं पात्वाकासीति मन्दहसितं पातुअकासि, पकासयि दस्सेसीति वुत्तं होति. किं पन दिस्वा थेरो सितं पात्वाकासीति? उपरि पाळियं आगतं अट्ठिकसङ्खलिकं एकं पेतलोके निब्बत्तं सत्तं दिस्वा. तञ्च खो दिब्बेन चक्खुना, न पसादचक्खुना. पसादचक्खुस्स हि एते अत्तभावा न आपाथं आगच्छन्ति. एवरूपं पन अत्तभावं दिस्वा कारुञ्ञे कत्तब्बे कस्मा सितं पात्वाकासीति? अत्तनो च बुद्धञाणस्स च सम्पत्तिं समनुस्सरणतो. तञ्हि दिस्वा थेरो ‘‘अदिट्ठसच्चेन नाम पुग्गलेन पटिलभितब्बा एवरूपा अत्तभावा मुत्तो अहं, लाभा वत मे, सुलद्धं वत मे’’ति अत्तनो च सम्पत्तिं अनुस्सरित्वा – ‘‘अहो बुद्धस्स भगवतो ञाणसम्पत्ति, ‘यो कम्मविपाको, भिक्खवे, अचिन्तेय्यो न चिन्तेतब्बो’ति देसेसि, पच्चक्खं वत कत्वा बुद्धा देसेन्ति, सुप्पटिविद्धा बुद्धानं धम्मधातू’’ति एवं बुद्धञाणसम्पत्तिञ्च अनुस्सरित्वा सितं पात्वाकासीति.

अथ लक्खणत्थेरो कस्मा न अद्दस, किमस्स दिब्बचक्खु नत्थीति? नो नत्थि, महामोग्गल्लानो पन आवज्जेन्तो अद्दस, इतरो पन अनावज्जनेन न अद्दस. यस्मा पन खीणासवा नाम न अकारणा सितं करोन्ति, तस्मा तं लक्खणत्थेरो पुच्छि को नु खो, आवुसो मोग्गल्लान, हेतु, को पच्चयो सितस्स पातुकम्मायाति? थेरो पन यस्मा येहि अयं उपपत्ति सामं अदिट्ठा, ते दुस्सद्धापया होन्ति, तस्मा भगवन्तं सक्खिं कत्वा ब्याकातुकामताय अकालो खो, आवुसोतिआदिमाह. ततो भगवतो सन्तिके पुट्ठो इधाहं, आवुसोतिआदिना नयेन ब्याकासि.

तत्थ अट्ठिकसङ्खलिकन्ति सेतं निम्मंसलोहितं अट्ठिसङ्घातं. गिज्झापि काकापि कुललापीति एतेपि यक्खगिज्झा चेव यक्खकाका च यक्खकुलला च पच्चेतब्बा. पाकतिकानं पन गिज्झादीनं आपाथम्पि एतं रूपं नागच्छति. अनुपतित्वा अनुपतित्वाति अनुबन्धित्वा अनुबन्धित्वा. वितुदेन्तीति असिधारूपमेहि तिखिणेहि लोहतुण्डकेहि विज्झित्वा विज्झित्वा इतो चितो च चरन्ति गच्छन्ति. सा सुदं अट्टस्सरं करोतीति एत्थ सुदन्ति निपातो, सा अट्ठिकसङ्खलिका अट्टस्सरं आतुरस्सरं करोतीति अत्थो. अकुसलविपाकानुभवनत्थं किर योजनप्पमाणापि तादिसा अत्तभावा निब्बत्तन्ति, पसादुस्सदा च होन्ति पक्कगण्डसदिसा. तस्मा सा अट्ठिकसङ्खलिका बलववेदनातुरा तादिसं सद्दमकासीति.

एवञ्च पन वत्वा पुन आयस्मा महामोग्गल्लानो ‘‘वट्टगामिसत्ता नाम एवरूपा अत्तभावा न मुच्चन्ती’’ति सत्तेसु कारुञ्ञं पटिच्च उप्पन्नं धम्मसंवेगं दस्सेन्तो तस्स मय्हं, आवुसो, एतदहोसि अच्छरियं वत भोतिआदिमाह. ततो भगवा थेरस्स आनुभावं पकासेन्तो चक्खुभूता वत, भिक्खवे, सावका विहरन्तीतिआदिमाह. तत्थ चक्खु भूतं जातं उप्पन्नं एतेसन्ति चक्खुभूता, भूतचक्खुका उप्पन्नचक्खुका चक्खुं उप्पादेत्वा विहरन्तीति अत्थो. दुतियपदेपि एसेव नयो. यत्र हि नामाति एत्थ यत्राति कारणवचनं. तत्रायं अत्थयोजना – यस्मा नाम सावकोपि एवरूपं ञस्सति वा दक्खति वा सक्खिं वा करिस्सति, तस्मा अवोचुम्ह – ‘‘चक्खुभूता वत, भिक्खवे, सावका विहरन्ति, ञाणभूता वत, भिक्खवे, सावका विहरन्ती’’ति. पुब्बेव मे सो, भिक्खवे, सत्तो दिट्ठोति बोधिमण्डे सब्बञ्ञुतञ्ञाणपटिवेधेन अप्पमाणेसु चक्कवाळेसु अप्पमाणे सत्तनिकाये भवगतियोनिठितिनिवासे च पच्चक्खं करोन्तेन मया पुब्बेव सो सत्तो दिट्ठोति वदति.

गोघातकोति गावो वधित्वा अट्ठितो मंसं मोचेत्वा विक्किणित्वा जीविकं कप्पनकसत्तो. तस्सेव कम्मस्स विपाकावसेसेनाति तस्स नानाचेतनाहि आयूहितस्स अपरापरियकम्मस्स. तत्र हि याय चेतनाय नरके पटिसन्धि जनिता, तस्सा विपाके परिक्खीणे अवसेसकम्मं वा कम्मनिमित्तं वा आरम्मणं कत्वा पुन पेतादीसु पटिसन्धि निब्बत्तति, तस्मा सा पटिसन्धि कम्मसभागताय आरम्मणसभागताय वा ‘‘तस्सेव कम्मस्स विपाकावसेसो’’ति वुच्चति. अयञ्च सत्तो एवं उप्पन्नो. तेनाह – ‘‘तस्सेव कम्मस्स विपाकावसेसेना’’ति. तस्स किर नरका चवनकाले निम्मंसकतानं गुन्नं अट्ठिरासियेव निमित्तं अहोसि. सो पटिच्छन्नम्पि तं कम्मं विञ्ञूनं पाकटं विय करोन्तो अट्ठिसङ्खलिकपेतो जातो. पठमं.