१२. परंमरणसुत्तवण्णना
१५५. द्वादसमे तथागतोति सत्तो. न हेतं, आवुसो, अत्थसंहितन्ति, आवुसो, एतं दिट्ठिगतं अत्थसन्निस्सितं न होति. नादिब्रह्मचरियकन्ति मग्गब्रह्मचरियस्स पुब्बभागपटिपदापि न होति. एतञ्हि, आवुसो, अत्थसंहितन्ति, आवुसो, एतं चतुसच्चकम्मट्ठानं अत्थसन्निस्सितं. एतं आदिब्रह्मचरियकन्ति एतं मग्गब्रह्मचरियस्स आदि पुब्बभागपटिपदा. द्वादसमं.