४. चतुत्थवग्गो

१. चतुधातुसुत्तवण्णना

११४. चतुत्थवग्गस्स पठमे पथवीधातूति पतिट्ठाधातु. आपोधातूति आबन्धनधातु. तेजोधातूति परिपाचनधातु. वायोधातूति वित्थम्भनधातु. अयमेत्थ सङ्खेपो, वित्थारतो पन वीसतिकोट्ठासादिवसेन एता कथेतब्बा. पठमं.

२. पुब्बेसम्बोधसुत्तवण्णना

११५. दुतिये अयं पथवीधातुया अस्सादोति अयं पथवीधातुनिस्सयो अस्सादो. स्वायं कायं अब्भुन्नामेत्वा उदरं पसारेत्वा, ‘‘इध मे अङ्गुलं पवेसितुं वायमथा’’ति वा हत्थं पसारेत्वा, ‘‘इमं नामेतुं वायमथा’’ति वा वदति, एवं पवत्तानं वसेन वेदितब्बो. अनिच्चातिआदीसु हुत्वा अभावाकारेन अनिच्चा, पटिपीळनाकारेन दुक्खा, सभावविगमाकारेन विपरिणामधम्मा. अयं पथवीधातुया आदीनवोति येन आकारेन सा अनिच्चा दुक्खा विपरिणामधम्मा, अयमाकारो पथवीधातुया आदीनवोति अत्थो. छन्दरागविनयो छन्दरागप्पहानन्ति निब्बानं आगम्म पथवीधातुया छन्दरागो विनीयति चेव पहीयति च, तस्मा निब्बानमस्सा निस्सरणं.

अयं आपोधातुया अस्सादोति अयं आपोधातुनिस्सयो अस्सादो. स्वायं अञ्ञं आपोधातुया उपद्दुतं दिस्वा, ‘‘किं अयं निपन्नकालतो पट्ठाय पस्सावट्ठानाभिमुखो निक्खमति चेव पविसति च, अप्पमत्तकम्पिस्स कम्मं करोन्तस्स सेदतिन्तं वत्थं पीळेतब्बताकारं पापुणाति, अनुमोदनमत्तम्पि कथेन्तस्स तालवण्टं गण्हितब्बं होति, मयं पन सायं निपन्ना पातोव उट्ठहाम, मासपुण्णघटो विय नो सरीरं, महाकम्मं करोन्तानं सेदमत्तम्पि नो न उप्पज्जति, असनिसद्देन विय धम्मं कथेन्तानं सरीरे उसुमाकारमत्तम्पि नो नत्थी’’ति एवं पवत्तानं वसेन वेदितब्बो.

अयं तेजोधातुया अस्सादोति अयं तेजोधातुनिस्सयो अस्सादो. स्वायं सीतगहणिके दिस्वा, ‘‘किं इमे किञ्चिदेव यागुभत्तखज्जमत्तं अज्झोहरित्वा थद्धकुच्छिनो निसीदित्वा सब्बरत्तिं अङ्गारकटाहं परियेसन्ति, फुसितमत्तेसुपि सरीरे पतितेसु अङ्गारकटाहं ओत्थरित्वा पारुपित्वाव निपज्जन्ति? मयं पन अतिथद्धम्पि मंसं वा पूवं वा खादाम, कुच्छिपूरं भत्तं भुञ्जाम, तावदेव नो सब्बं फेणपिण्डो विय विलीयति, सत्ताहवद्दलिकाय वत्तमानाय सरीरे सीतानुदहनमत्तम्पि नो नत्थी’’ति एवं पवत्तानं वसेन वेदितब्बो.

अयं वायोधातुया अस्सादोति अयं वायोधातुनिस्सयो अस्सादो. स्वायं अञ्ञे वातभीरुके दिस्वा, ‘‘इमेसं अप्पमत्तकम्पि कम्मं करोन्तानं अनुमोदनमत्तम्पि कथेन्तानं सरीरं वातो विज्झति, गावुतमत्तम्पि अद्धानं गतानं हत्थपादा सीदन्ति, पिट्ठि रुज्जति, कुच्छिवातसीसवातकण्णवातादीहि निच्चुपद्दुता तेलफाणितादीनि वातभेसज्जानेव करोन्ता अतिनामेन्ति, अम्हाकं पन महाकम्मं करोन्तानम्पि तियामरत्तिं धम्मं कथेन्तानम्पि एकदिवसेनेव दस योजनानि गच्छन्तानम्पि हत्थपादसंसीदनमत्तं वा पिट्ठिरुज्जनमत्तं वा न होती’’ति, एवं पवत्तानं वसेन वेदितब्बो. एवं पवत्ता हि एता धातुयो अस्सादेन्ति नाम.

अब्भञ्ञासिन्ति अभिविसिट्ठेन ञाणेन अञ्ञासिं. अनुत्तरं सम्मासम्बोधिन्ति उत्तरविरहितं सब्बसेट्ठं सम्मा सामञ्च बोधिं, अथ वा पसत्थं सुन्दरञ्च बोधिं. बोधीति रुक्खोपि मग्गोपि सब्बञ्ञुतञ्ञाणम्पि निब्बानम्पि. ‘‘बोधिरुक्खमूले पठमाभिसम्बुद्धो’’ति (महाव. १; उदा. १) च ‘‘अन्तरा च बोधिं अन्तरा च गय’’न्ति (महाव. ११; म.नि. १.२८५) च आगतट्ठानेसु हि रुक्खो बोधीति वुच्चति. ‘‘बोधि वुच्चति चतूसु मग्गेसु ञाण’’न्ति (चूळनि. खग्गविसाणसुत्तनिद्देस १२१) आगतट्ठाने मग्गो. ‘‘पप्पोति बोधिं वरभूरिमेधसो’’ति (दी. नि. ३.२१७) आगतट्ठाने सब्बञ्ञुतञ्ञाणं. ‘‘पत्वान बोधिं अमतं असङ्खत’’न्ति आगतट्ठाने निब्बानं. इध पन भगवतो अरहत्तमग्गो अधिप्पेतो.

सावकानं अरहत्तमग्गो अनुत्तरा बोधि होति, न होतीति? न होति. कस्मा? असब्बगुणदायकत्ता. तेसञ्हि कस्सचि अरहत्तमग्गो अरहत्तफलमेव देति, कस्सचि तिस्सो विज्जा, कस्सचि छ अभिञ्ञा, कस्सचि चतस्सो पटिसम्भिदा, कस्सचि सावकपारमीञाणं. पच्चेकबुद्धानम्पि पच्चेकबोधिञाणमेव देति. बुद्धानं पन सब्बगुणसम्पत्तिं देति अभिसेको विय रञ्ञो सब्बलोकिस्सरियभावं. तस्मा अञ्ञस्स कस्सचिपि अनुत्तरा बोधि न होति.

अभिसम्बुद्धोति पच्चञ्ञासिन्ति ‘‘अभिसम्बुद्धो अहं पत्तो पटिविज्झित्वा ठितो’’ति एवं पटिजानिं. ञाणञ्च पन मे दस्सनं उदपादीति अधिगतगुणदस्सनसमत्थं पच्चवेक्खणञाणञ्च मे उदपादि. अकुप्पा मे विमुत्तीति ‘‘अयं मय्हं अरहत्तफलविमुत्ति अकुप्पा’’ति एवं ञाणं उदपादि. तत्थ द्वीहाकारेहि अकुप्पता वेदितब्बा कारणतो च आरम्मणतो च. सा हि चतूहि मग्गेहि समुच्छिन्नकिलेसानं पुन अनिवत्तनताय कारणतोपि अकुप्पा, अकुप्पधम्मं निब्बानं आरम्मणं कत्वा पवत्तताय आरम्मणतोपि अकुप्पा. अन्तिमाति पच्छिमा. नत्थि दानि पुनब्भवोति इदानि पुन अञ्ञो भवो नाम नत्थीति.

इमस्मिं सुत्ते चत्तारि सच्चानि कथितानि. कथं? चतूसु हि धातूसु अस्सादो समुदयसच्चं, आदीनवो दुक्खसच्चं, निस्सरणं निरोधसच्चं, निरोधप्पजाननो मग्गो मग्गसच्चं. वित्थारवसेनपि कथेतुं वट्टतियेव. एत्थ हि यं पथवीधातुं पटिच्च उप्पज्जति सुखं सोमनस्सं, अयं पथवीधातुया अस्सादोति पहानपटिवेधो समुदयसच्चं. या पथवीधातु अनिच्चा दुक्खा विपरिणामधम्मा, अयं पथवीधातुया, आदीनवोति परिञ्ञापटिवेधो दुक्खसच्चं. यो पथवीधातुया छन्दरागविनयो छन्दरागप्पहानं, इदं पथवीधातुया निस्सरणन्ति सच्छिकिरियापटिवेधो निरोधसच्चं. या इमेसु तीसु ठानेसु दिट्ठि सङ्कप्पो वाचा कम्मन्तो आजीवो वायामो सति समाधि, अयं भावनापटिवेधो मग्गसच्चन्ति. दुतियं.

३. अचरिंसुत्तवण्णना

११६. ततिये अचरिन्ति ञाणचारेन अचरिं, अनुभवनचारेनाति अत्थो. यावताति यत्तको. ततियं.

४. नोचेदंसुत्तवण्णना

११७. चतुत्थे निस्सटातिआदीनि आदितो वुत्तपटिसेधेन योजेत्वा ‘‘न निस्सटा, न विसंयुत्ता, न विप्पमुत्ता, न विमरियादिकतेन चेतसा विहरिंसू’’ति एवं वेदितब्बानि. दुतियनये विमरियादिकतेनाति निम्मरियादिकतेन. तत्थ दुविधा मरियादा किलेसमरियादा वट्टमरियादाति. तत्थ च यस्स उपड्ढा किलेसा पहीना, उपड्ढा अप्पहीना, वट्टं वा पन उपड्ढं पहीनं, उपड्ढं अप्पहीनं, तस्स चित्तं पहीनकिलेसे वा वट्टं वा सन्धाय विमरियादिकतं, अप्पहीनकिलेसे वा वट्टं वा सन्धाय न विमरियादिकतं. इध पन उभयस्सापि पहीनत्ता ‘‘विमरियादिकतेन चेतसा’’ति वुत्तं, मरियादं अकत्वा ठितेन अतिक्कन्तमरियादेन चेतसाति अत्थो. इति तीसुपि इमेसु सुत्तेसु चतुसच्चमेव कथितं. चतुत्थं.

५. एकन्तदुक्खसुत्तवण्णना

११८. पञ्चमे एकन्तदुक्खाति अतिक्कमित्वा ठितस्स तत्तकारो विय एकन्तेनेव दुक्खा. दुक्खानुपतिताति दुक्खेन अनुपतिता. दुक्खावक्कन्ताति दुक्खेन ओक्कन्ता ओतिण्णा. सुखाति सुखवेदनाय पच्चयभूता. एवं सब्बत्थ अत्थो वेदितब्बो. इमस्मिं सुत्ते दुक्खलक्खणं कथितं. पञ्चमं.

६-१०. अभिनन्दसुत्तादिवण्णना

११९-१२३. छट्ठसत्तमेसु विवट्टं, अवसाने तीसु चतुसच्चमेवाति. छट्ठादीनि.

चतुत्थो वग्गो.

धातुसंयुत्तवण्णना निट्ठिता.