३-५. पञ्चसिक्खापदसुत्तादिवण्णना
१०९-१११. ततियं पञ्चकम्मपथवसेन बुज्झनकानं अज्झासयवसेन वुत्तं, चतुत्थं सत्तकम्मपथवसेन, पञ्चमं दसकम्मपथवसेन. तत्थ ततिये सुरामेरयमज्जप्पमादट्ठायिनोति सुरामेरयसङ्खातं मज्जं याय पमादचेतनाय पिवन्ति, सा ‘‘सुरामेरयमज्जप्पमादो’’ति वुच्चति, तस्मिं तिट्ठन्तीति सुरामेरयमज्जप्पमादट्ठायिनो. अयं तावेत्थ असाधारणपदस्स अत्थो.
पञ्चमे पाणं अतिपातेन्तीति पाणातिपातिनो, पाणघातिकाति अत्थो. अदिन्नं आदियन्तीति अदिन्नादायिनो, परस्सहारिनोति अत्थो. वत्थुकामेसु किलेसकामेन मिच्छा चरन्तीति कामेसुमिच्छाचारिनो. मुसा वदन्तीति मुसावादिनो, परेसं अत्थभञ्जकं तुच्छं अलिकं वाचं भासितारोति अत्थो. पिसुणा वाचा एतेसन्ति पिसुणवाचा. मम्मच्छेदिका फरुसा वाचा एतेसन्ति फरुसवाचा. सम्फं निरत्थकं वचनं पलपन्तीति सम्फप्पलापिनो. अभिज्झायन्तीति अभिज्झालुनो, परभण्डे लुब्भनसीलाति अत्थो. ब्यापन्नं पूतिभूतं चित्तमेतेसन्ति ब्यापन्नचित्ता. मिच्छा पापिका विञ्ञुगरहिता एतेसं दिट्ठीति मिच्छादिट्ठिका, कम्मपथपरियापन्नाय ‘‘नत्थि दिन्न’’न्तिआदिवत्थुकाय मिच्छत्तपरियापन्नाय अनिय्यानिकदिट्ठिया समन्नागताति अत्थो. सम्मा सोभना विञ्ञुपसत्था एतेसं दिट्ठीति सम्मादिट्ठिका, कम्मपथपरियापन्नाय ‘‘अत्थि दिन्न’’न्तिआदिकाय कम्मस्सकतदिट्ठिया सम्मत्तपरियापन्नाय मग्गदिट्ठिया च समन्नागताति अत्थो. इदं तावेत्थ अनुत्तानानं पदानं पदवण्णनामत्तं.
यो पन तेसं पाणातिपातो अदिन्नादानं कामेसुमिच्छाचारो मुसावादो पिसुणवाचा फरुसवाचा सम्फप्पलापो अभिज्झा ब्यापादो मिच्छादिट्ठीति कण्हपक्खे दसविधो अत्थो होति. तत्थ पाणस्स अतिपातो पाणातिपातो, पाणवधो पाणघातोति वुत्तं होति. पाणोति चेत्थ वोहारतो सत्तो, परमत्थतो जीवितिन्द्रियं. तस्मिं पन पाणे पाणसञ्ञिनो जीवितिन्द्रियुपच्छेदकउपक्कमसमुट्ठापिका कायवचीद्वारानं अञ्ञतरद्वारप्पवत्ता वधकचेतना पाणातिपातो. सो गुणविरहितेसु तिरच्छानगतादीसु पाणेसु खुद्दके पाणे अप्पसावज्जो, महासरीरे महासावज्जो. कस्मा? पयोगमहन्तताय, पयोगसमत्तेपि वत्थुमहन्तताय. गुणवन्तेसु मनुस्सादीसु अप्पगुणे अप्पसावज्जो, महागुणे महासावज्जो. सरीरगुणानं पन समभावे सति किलेसानं उपक्कमानञ्च मुदुताय अप्पसावज्जो, तिब्बताय महासावज्जोति वेदितब्बो.
तस्स पञ्च सम्भारा होन्ति – पाणो, पाणसञ्ञिता, वधकचित्तं, उपक्कमो, तेन मरणन्ति. छ पयोगा साहत्थिको, आणत्तिको, निस्सग्गियो, थावरो, विज्जामयो, इद्धिमयोति. इमस्मिं पनत्थे वित्थारियमाने अतिप्पपञ्चो होति, तस्मा तं न वित्थारयाम, अञ्ञञ्च एवरूपं. अत्थिकेहि पन समन्तपासादिकं विनयट्ठकथं (पारा. अट्ठ. १७२) ओलोकेत्वा गहेतब्बो.
अदिन्नस्स आदानं अदिन्नादानं, परस्सहरणं थेय्यं चोरिकाति वुत्तं होति. तत्थ अदिन्नन्ति परपरिग्गहितं, यत्थ परो यथाकामकारितं आपज्जन्तो अदण्डारहो अनुपवज्जो होति. तस्मिं पन परपरिग्गहिते परपरिग्गहितसञ्ञिनो तदादायकउपक्कमसमुट्ठापिका थेय्यचेतना अदिन्नादानं. तं हीने परसन्तके अप्पसावज्जं, पणीते महासावज्जं. कस्मा? वत्थुपणीतताय. वत्थुसमत्ते सति गुणाधिकानं सन्तके वत्थुस्मिं महासावज्जं, तं तं गुणाधिकं उपादाय ततो ततो हीनगुणस्स सन्तके वत्थुस्मिं अप्पसावज्जं.
तस्स पञ्च सम्भारा होन्ति – परपरिग्गहितं, परपरिग्गहितसञ्ञिता, थेय्यचित्तं, उपक्कमो, तेन हरणन्ति. छ पयोगा साहत्थिकादयोव. ते च खो यथानुरूपं थेय्यावहारो, पसय्हावहारो, पटिच्छन्नावहारो, परिकप्पावहारो, कुसावहारोति इमेसं अवहारानं वसेन पवत्ताति अयमेत्थ सङ्खेपो, वित्थारो पन समन्तपासादिकायं (पारा. अट्ठ. ९२) वुत्तो.
कामेसुमिच्छाचारोति एत्थ पन कामेसूति मेथुनसमाचारेसु. मिच्छाचारोति एकन्तनिन्दितो लामकाचारो. लक्खणतो पन असद्धम्माधिप्पायेन कायद्वारप्पवत्ता अगमनीयट्ठानवीतिक्कमचेतना कामेसुमिच्छाचारो. तत्थ अगमनीयट्ठानं नाम पुरिसानं ताव मातुरक्खिता पितुरक्खिता मातापितुरक्खिता भातुरक्खिता भगिनिरक्खिता ञातिरक्खिता गोत्तरक्खिता धम्मरक्खिता सारक्खा सपरिदण्डाति मातुरक्खितादयो दस, धनक्कीता छन्दवासिनी भोगवासिनी पटवासिनी ओदपत्तकिनी ओभतचुम्बटा दासी च भरिया च कम्मकारी च भरिया च धजाहटा मुहुत्तिकाति एता धनक्कीतादयो दसाति वीसति इत्थियो. इत्थीसु पन द्विन्नं सारक्खसपरिदण्डानं, दसन्नञ्च धनक्कीतादीनन्ति द्वादसन्नं इत्थीनं अञ्ञे पुरिसा. इदं अगमनीयट्ठानं नाम. सो पनेस मिच्छाचारो सीलादिगुणरहिते अगमनीयट्ठाने अप्पसावज्जो, सीलादिगुणसम्पन्ने महासावज्जो. तस्स चत्तारो सम्भारा – अगमनीयवत्थु, तस्मिं सेवनचित्तं, सेवनप्पयोगो, मग्गेनमग्गपटिपत्तिअधिवासनन्ति. एको पयोगो साहत्थिको एव.
मुसाति विसंवादनपुरेक्खारस्स अत्थभञ्जनको वचीपयोगो कायप्पयोगो वा, विसंवादनाधिप्पायेन पनस्स परविसंवादनकायवचीपयोगसमुट्ठापिका चेतना, मुसावादो. अपरो नयो – मुसाति अभूतं अतच्छं वत्थु. वादोति तस्स भूततो तच्छतो विञ्ञापनं. लक्खणतो पन अतथं वत्थुं तथतो परं विञ्ञापेतुकामस्स तथाविञ्ञत्तिसमुट्ठापिका चेतना मुसावादो. सो यमत्थं भञ्जति, तस्स अप्पताय अप्पसावज्जो, महन्तताय महासावज्जो. अपि च गहट्ठानं अत्तनो सन्तकं अदातुकामताय नत्थीतिआदिनयप्पवत्तो अप्पसावज्जो, सक्खिना हुत्वा अत्थभञ्जनत्थं वुत्तो महासावज्जो. पब्बजितानं अप्पकम्पि तेलं वा सप्पिं वा लभित्वा हसाधिप्पायेन ‘‘अज्ज गामे तेलं नदी मञ्ञे सन्दती’’ति पूरणकथानयेन पवत्तो अप्पसावज्जो, अदिट्ठंयेव पन ‘‘दिट्ठ’’न्तिआदिना नयेन वदन्तानं महासावज्जो. तस्स चत्तारो सम्भारा होन्ति – अतथं वत्थु, विसंवादनचित्तं, तज्जो वायामो, परस्स तदत्थविजाननन्ति. एको पयोगो साहत्थिकोव. सो कायेन वा कायपटिबद्धेन वा वाचाय वा परविसंवादककिरियाकरणे दट्ठब्बो. ताय चे किरियाय परो तमत्थं जानाति, अयं किरियासमुट्ठापिकचेतनाक्खणेयेव मुसावादकम्मुना बज्झति.
पिसुणवाचातिआदीसु याय वाचाय, यस्स तं वाचं भासति, तस्स हदये अत्तनो पियभावं, परस्स च सुञ्ञभावं करोति, सा पिसुणवाचा. याय पन अत्तानम्पि परम्पि फरुसं करोति, या वाचा सयम्पि फरुसा, नेव कण्णसुखा न हदयङ्गमा, अयं फरुसवाचा. येन पन सम्फं पलपति निरत्थकं, सो सम्फप्पलापो. तेसं मूलभूता चेतनापि पिसुणवाचादिनाममेव लभति. सा एव च इध अधिप्पेताति.
तत्थ संकिलिट्ठचित्तस्स परेसं वा भेदाय, अत्तनो पियकम्यताय वा कायवचीपयोगसमुट्ठापिका चेतना पिसुणवाचा. सा यस्स भेदं करोति, तस्स अप्पगुणताय अप्पसावज्जा, महागुणताय महासावज्जा. तस्सा चत्तारो सम्भारा – भिन्दितब्बो परो, इति इमे नाना भविस्सन्ति, विना भविस्सन्तीति भेदपुरेक्खारता, इति अहं पियो भविस्सामि विस्सासिकोति पियकम्यता वा, तज्जो वायामो, तस्स तदत्थविजाननन्ति.
परस्स मम्मच्छेदककायवचीपयोगसमुट्ठापिका एकन्तफरुसचेतना फरुसवाचा. तस्सा आविभावत्थमिदं वत्थु – एको किर दारको मातु वचनं अनादियित्वा अरञ्ञं गच्छति. माता तं निवत्तेतुं असक्कोन्ती, ‘‘चण्डा तं महिंसी अनुबन्धतू’’ति अक्कोसि. अथस्स तथेव अरञ्ञे महिंसी उट्ठासि. दारको, ‘‘यं मम माता मुखेन कथेसि, तं मा होतु, यं चित्तेन चिन्तेसि, तं होतू’’ति सच्चकिरियं अकासि. महिंसी तत्थेव बद्धा विय अट्ठासि. एवं मम्मच्छेदकोपि पयोगो चित्तसण्हताय फरुसवाचा न होति. मातापितरो हि कदाचि पुत्तके एवं वदन्ति – ‘‘चोरा वो खण्डाखण्डिकं करोन्तू’’ति, उप्पलपत्तम्पि च नेसं उपरि पतन्तं न इच्छन्ति. आचरियुपज्झाया च कदाचि निस्सितके एवं वदन्ति – ‘‘किं इमे अहिरिका अनोत्तप्पिनो चरन्ति, निद्धमथ ने’’ति. अथ च नेसं आगमाधिगमसम्पत्तिं इच्छन्ति. यथा च चित्तसण्हताय फरुसवाचा न होति, एवं वचनसण्हताय अफरुसवाचापि न होति. न हि मारापेतुकामस्स ‘‘इमं सुखं सयापेथा’’ति वचनं अफरुसवाचा होति. चित्तफरुसताय पनेसा फरुसवाचाव. सा यं सन्धाय पवत्तिता, तस्स अप्पगुणताय अप्पसावज्जा, महागुणताय महासावज्जा. तस्सा तयो सम्भारा – अक्कोसितब्बो परो, कुपितचित्तं, अक्कोसनाति.
अनत्थविञ्ञापिका कायवचीपयोगसमुट्ठापिका अकुसलचेतना सम्फप्पलापो. सो आसेवनमन्दताय अप्पसावज्जो, आसेवनमहन्तताय महासावज्जो. तस्स द्वे सम्भारा – भारतयुद्ध-सीताहरणादि-निरत्थककथा-पुरेक्खारता, तथारूपीकथाकथनञ्चाति.
अभिज्झायतीति अभिज्झा. परभण्डाभिमुखी हुत्वा तन्निन्नताय पवत्ततीति अत्थो. सा ‘‘अहो वतिदं ममस्सा’’ति एवं परभण्डाभिज्झायनलक्खणा अदिन्नादानं विय अप्पसावज्जा महासावज्जा च. तस्सा द्वे सम्भारा परभण्डं अत्तनो परिणामनञ्च. परभण्डवत्थुके हि लोभे उप्पन्नेपि न ताव कम्मपथभेदो होति, याव न ‘‘अहो वतिदं ममस्सा’’ति अत्तनो परिणामेतीति.
हितसुखं ब्यापादयतीति, ब्यापादो. सो परविनासाय मनोपदोसलक्खणो. फरुसवाचा विय अप्पसावज्जो महासावज्जो च. तस्स द्वे सम्भारा परसत्तो च, तस्स च विनासचिन्ता. परसत्तवत्थुके हि कोधे उप्पन्नेपि न ताव कम्मपथभेदो होति, याव न ‘‘अहो वतायं उच्छिज्जेय्य विनस्सेय्या’’ति तस्स विनासं चिन्तेति.
यथाभुच्चगहणाभावेन मिच्छा पस्सतीति मिच्छादिट्ठि. सा ‘‘नत्थि दिन्न’’न्तिआदिना नयेन विपरीतदस्सनलक्खणा सम्फप्पलापो विय अप्पसावज्जा महासावज्जा च. अपि च अनियता अप्पसावज्जा, नियता महासावज्जा. तस्सा द्वे सम्भारा – वत्थुनो च गहिताकारविपरीतता यथा च नं गण्हाति, तथाभावेन तस्सा उपट्ठानन्ति.
इमेसं पन दसन्नं अकुसलकम्मपथानं धम्मतो कोट्ठासतो आरम्मणतो वेदनातो मूलतोति पञ्चहाकारेहि विनिच्छयो वेदितब्बो. तत्थ धम्मतोति एतेसु हि पटिपाटिया सत्त चेतनाधम्माव होन्ति, अभिज्झादयो तिस्सो चेतनासम्पयुत्ता. कोट्ठासतोति पटिपाटिया सत्त, मिच्छादिट्ठि चाति इमे अट्ठ कम्मपथा एव होन्ति, नो मूलानि, अभिज्झाब्यापादा कम्मपथा चेव मूलानि च. अभिज्झा हि मूलं पत्वा लोभो अकुसलमूलं होति, ब्यापादो दोसो अकुसलमूलं.
आरम्मणतोति पाणातिपातो जीवितिन्द्रियारम्मणतो सङ्खारारम्मणो होति, अदिन्नादानं सत्तारम्मणं वा सङ्खारारम्मणं वा, मिच्छाचारो फोट्ठब्बवसेन सङ्खारारम्मणोव, सत्तारम्मणोतिपि एके. मुसावादो सत्तारम्मणो वा सङ्खारारम्मणो वा, तथा पिसुणवाचा. फरुसवाचा सत्तारम्मणाव. सम्फप्पलापो दिट्ठसुतमुतविञ्ञातवसेन सत्तारम्मणो वा सङ्खारारम्मणो वा, तथा अभिज्झा. ब्यापादो सत्तारम्मणोव. मिच्छादिट्ठि तेभूमकधम्मवसेन सङ्खारारम्मणा.
वेदनातोति पाणातिपातो दुक्खवेदनो होति. किञ्चापि हि राजानो चोरं दिस्वा हसमानापि ‘‘गच्छथ नं घातेथा’’ति वदन्ति, सन्निट्ठापकचेतना पन नेसं दुक्खसम्पयुत्ताव होति. अदिन्नादानं तिवेदनं, मिच्छाचारो सुखमज्झत्तवसेन द्विवेदनो, सन्निट्ठापकचित्ते पन मज्झत्तवेदनो न होति. मुसावादो तिवेदनो, तथा पिसुणवाचा फरुसवाचा दुक्खवेदना, सम्फप्पलापो तिवेदनो, अभिज्झा सुखमज्झत्तवसेन द्विवेदना, तथा मिच्छादिट्ठि. ब्यापादो दुक्खवेदनो.
मूलतोति पाणातिपातो दोसमोहवसेन द्विमूलको होति, अदिन्नादानं दोसमोहवसेन वा लोभमोहवसेन वा, मिच्छाचारो लोभमोहवसेन. मुसावादो दोसमोहवसेन वा लोभमोहवसेन वा, तथा पिसुणवाचा सम्फप्पलापो च. फरुसवाचा दोसमोहवसेन, अभिज्झा मोहवसेन एकमूला, तथा ब्यापादो. मिच्छादिट्ठि लोभमोहवसेन द्विमूलाति.
पाणातिपाता पटिविरतातिआदीसु पाणातिपातादयो वुत्तत्था एव. याय पन विरतिया एते पटिविरता नाम होन्ति, सा भेदतो तिविधा होति सम्पत्तविरति समादानविरति समुच्छेदविरतीति. तत्थ असमादिन्नसिक्खापदानं अत्तनो जातिवयबाहुसच्चादीनि पच्चवेक्खित्वा ‘‘अयुत्तं अम्हाकं एवरूपं कातु’’न्ति सम्पत्तं वत्थुं अवीतिक्कमन्तानं उप्पज्जमाना विरति सम्पत्तविरतीति वेदितब्बा सीहळदीपे चक्कनउपासकस्स विय. तस्स किर दहरकालेयेव मातु रोगो उप्पज्जि. वेज्जेन च ‘‘अल्लससकमंसं लद्धुं वट्टती’’ति वुत्तं. ततो चक्कनस्स भाता ‘‘गच्छ तात खेत्तं आहिण्डाही’’ति चक्कनं पेसेसि. सो तत्थ गतो. तस्मिञ्च समये एको ससो तरुणसस्सं खादितुं आगतो होति. सो तं दिस्वा वेगेन धावन्तो वल्लिया बद्धो ‘‘किरि किरी’’ति सद्दमकासि. चक्कनो तेन सद्देन गन्त्वा तं गहेत्वा चिन्तेसि ‘‘मातु भेसज्जं करोमी’’ति. पुन चिन्तेसि – ‘‘न मेतं पतिरूपं, य्वाहं मातु जीवितकारणा परं जीविता वोरोपेय्य’’न्ति. अथ नं ‘‘गच्छ अरञ्ञे ससेहि सद्धिं तिणोदकं परिभुञ्जा’’ति मुञ्चि. भातरा च ‘‘किं तात ससो लद्धो’’ति? पुच्छितो तं पवत्तिं आचिक्खि. ततो नं भाता परिभासि. सो मातु सन्तिकं गन्त्वा, ‘‘यतोहं जातो, नाभिजानामि सञ्चिच्च पाणं जीविता वोरोपेता’’ति सच्चं वत्वा अट्ठासि, तावदेव चस्स माता अरोगा अहोसि.
समादिन्नसिक्खापदानं पन सिक्खापदसमादाने च ततुत्तरि च अत्तनो जीवितं परिच्चजित्वा वत्थुं अवीतिक्कमन्तानं उप्पज्जमाना विरति समादानविरतीति वेदितब्बा, उत्तरवड्ढमानपब्बतवासीउपासकस्स विय. सो किर अम्बरियविहारवासीपिङ्गलबुद्धरक्खितत्थेरस्स सन्तिके सिक्खापदानि गहेत्वा खेत्तं कसति. अथस्स गोणो नट्ठो, सो तं गवेसन्तो उत्तरवड्ढमानपब्बतं आरुहि, तत्र नं महासप्पो अग्गहेसि. सो चिन्तेसि – ‘‘इमाय तिखिणाय वासिया सीसं छिन्दामी’’ति. पुन चिन्तेसि – ‘‘न मेतं पतिरूपं, य्वाहं भावनीयस्स गरुनो सन्तिके सिक्खापदं गहेत्वा भिन्देय्य’’न्ति. एवं यावततियं चिन्तेत्वा – ‘‘जीवितं परिच्चजामि, न सिक्खापद’’न्ति अंसे ठपितं तिखिणदण्डवासिं अरञ्ञे छड्डेसि. तावदेव महावाळो नं मुञ्चित्वा अगमासीति.
अरियमग्गसम्पयुत्ता पन विरति समुच्छेदविरतीति वेदितब्बा, यस्सा उप्पत्तितो पभुति पाणं घातेस्सामीति अरियपुग्गलानं चित्तम्पि न उप्पज्जतीति.
यथा च अकुसलानं, एवं इमेसम्पि कुसलकम्मपथानं धम्मतो कोट्ठासतो आरम्मणतो वेदनातो मूलतोति पञ्चहाकारेहि विनिच्छयो वेदितब्बो. तत्थ धम्मतोति एतेसु हि पटिपाटिया सत्त चेतनापि वट्टन्ति विरतियोपि, अन्ते तयो चेतनासम्पयुत्ताव.
कोट्ठासतोति पटिपाटिया सत्त कम्मपथा एव, न मूलानि, अन्ते तयो कम्मपथा चेव मूलानि च. अनभिज्झा हि मूलं पत्वा अलोभो कुसलमूलं होति, अब्यापादो अदोसो कुसलमूलं, सम्मादिट्ठि अमोहो कुसलमूलं.
आरम्मणतोति पाणातिपातादीनं. आरम्मणानेव एतेसं आरम्मणानि. वीतिक्कमितब्बवत्थुतोयेव हि विरति नाम होति. यथा पन निब्बानारम्मणो अरियमग्गो किलेसे पजहति, एवं जीवितिन्द्रियादिआरम्मणापेते कम्मपथा पाणातिपातादीनि दुस्सील्यानि पजहन्तीति वेदितब्बा.
वेदनातोति सब्बे सुखवेदना वा होन्ति मज्झत्तवेदना वा. कुसलं पत्वा हि दुक्खवेदना नाम नत्थि.
मूलतोति पटिपाटिया सत्त ञाणसम्पयुत्तचित्तेन विरमन्तस्स अलोभअदोसअमोहवसेन तिमूला होन्ति, ञाणविप्पयुत्तचित्तेन विरमन्तस्स द्विमूला. अनभिज्झा ञाणसम्पयुत्तचित्तेन विरमन्तस्स द्विमूला होति, ञाणविप्पयुत्तचित्तेन एकमूला. अलोभो पन अत्तनाव अत्तनो मूलं न होति. अब्यापादेपि एसेव नयो. सम्मादिट्ठि अलोभअदोसवसेन द्विमूलावाति. ततियादीनि.