१. कोलितसुत्तवण्णना

२३५. भिक्खुसंयुत्तस्स पठमे, आवुसोति सावकानं आलापो. बुद्धा हि भगवन्तो सावके आलपन्ता, ‘‘भिक्खवे’’ति आलपन्ति, सावका पन ‘‘बुद्धेहि सदिसा मा होमा’’ति, ‘‘आवुसो’’ति पठमं वत्वा पच्छा, ‘‘भिक्खवे’’ति भणन्ति. बुद्धेहि च आलपिते भिक्खुसङ्घो, ‘‘भन्ते’’ति पटिवचनं देति सावकेहि, ‘‘आवुसो’’ति. अयं वुच्चतीति यस्मा दुतियज्झाने वितक्कविचारा निरुज्झन्ति, येसं निरोधा सद्दायतनं अप्पवत्तिं गच्छति, तस्मा यदेतं दुतियं झानं नाम, अयं वुच्चति ‘‘अरियानं तुण्हीभावो’’ति. अयमेत्थ योजना. ‘‘धम्मी वा कथा अरियो वा तुण्हीभावो’’ति एत्थ पन कम्मट्ठानमनसिकारोपि पठमज्झानादीनिपि अरियो तुण्हीभावोत्वेव सङ्खं गतानि.

वितक्कसहगताति वितक्कारम्मणा. सञ्ञामनसिकाराति सञ्ञा च मनसिकारो च. समुदाचरन्तीति पवत्तन्ति. थेरस्स किर दुतियज्झानं न पगुणं. अथस्स ततो वुट्ठितस्स वितक्कविचारा न सन्ततो उपट्ठहिंसु. इच्चस्स दुतियज्झानम्पि सञ्ञामनसिकारापि हानभागियाव अहेसुं, तं दस्सेन्तो एवमाह. सण्ठपेहीति सम्मा ठपेहि. एकोदिभावं करोहीति एकग्गं करोहि. समादहाति सम्मा आदह आरोपेहि. महाभिञ्ञतन्ति छळभिञ्ञतं. सत्था किर इमिना उपायेन सत्त दिवसे थेरस्स हानभागियं समाधिं वड्ढेत्वा थेरं छळभिञ्ञतं पापेसि. पठमं.