८. परोसहस्ससुत्तवण्णना
२१६. अट्ठमे परोसहस्सन्ति अतिरेकसहस्सं. अकुतोभयन्ति निब्बाने कुतोचि भयं नत्थि, निब्बानप्पत्तस्स वा कुतोचि भयं नत्थीति निब्बानं अकुतोभयं नाम. इसीनं इसिसत्तमोति विपस्सितो पट्ठाय इसीनं सत्तमको इसि.
किं नु ते वङ्गीसाति इदं भगवा अत्थुप्पत्तिवसेन आह. सङ्घमज्झे किर कथा उदपादि ‘‘वङ्गीसत्थेरो विस्सट्ठवत्तो, नेव उद्देसे, न परिपुच्छाय, न योनिसोमनसिकारे कम्मं करोति, गाथा बन्धन्तो चुण्णियपदानि करोन्तो विचरती’’ति. अथ भगवा चिन्तेसि – ‘‘इमे भिक्खू वङ्गीसस्स पटिभानसम्पत्तिं न जानन्ति, चिन्तेत्वा चिन्तेत्वा वदतीति मञ्ञन्ति, पटिभानसम्पत्तिमस्स जानापेस्सामी’’ति चिन्तेत्वा, ‘‘किं नु ते वङ्गीसा’’तिआदिमाह.
उम्मग्गपथन्ति अनेकानि किलेसुम्मुज्जनसतानि, वट्टपथत्ता पन पथन्ति वुत्तं. पभिज्ज खिलानीति रागखिलादीनि पञ्च भिन्दित्वा चरसि. तं पस्सथाति तं एवं अभिभुय्य भिन्दित्वा चरन्तं बुद्धं पस्सथ. बन्धपमुञ्चकरन्ति बन्धनमोचनकरं. असितन्ति अनिस्सितं. भागसो पविभजन्ति सतिपट्ठानादिकोट्ठासवसेन धम्मं विभजन्तं. पविभज्जाति वा पाठो, अङ्गपच्चङ्गकोट्ठासवसेन विभजित्वा विभजित्वा पस्सथाति अत्थो.
ओघस्साति चतुरोघस्स. अनेकविहितन्ति सतिपट्ठानादिवसेन अनेकविधं. तस्मिं च अमते अक्खातेति तस्मिं तेन अक्खाते अमते. धम्मद्दसाति धम्मस्स पस्सितारो. ठिता असंहीराति असंहारिया हुत्वा पतिट्ठिता.
अतिविज्झाति अतिविज्झित्वा. सब्बट्ठितीनन्ति सब्बेसं दिट्ठिट्ठानानं विञ्ञाणट्ठितीनं वा. अतिक्कममद्दसाति अतिक्कमभूतं निब्बानमद्दस. अग्गन्ति उत्तमधम्मं. अग्गेति वा पाठो, पठमतरन्ति अत्थो. दसद्धानन्ति पञ्चन्नं, अग्गधम्मं पञ्चवग्गियानं, अग्गे वा पञ्चवग्गियानं धम्मं देसेसीति अत्थो. तस्माति यस्मा एस धम्मो सुदेसितोति जानन्तेन च पमादो न कातब्बो, तस्मा. अनुसिक्खेति तिस्सो सिक्खा सिक्खेय्य. अट्ठमं.