१. निक्खन्तसुत्तवण्णना
२०९. वङ्गीससंयुत्तस्स पठमे अग्गाळवे चेतियेति आळवियं अग्गचेतिये. अनुप्पन्ने बुद्धे अग्गाळवगोतमकादीनि यक्खनागादीनं भवनानि, चेतियानि अहेसुं. उप्पन्ने बुद्धे तानि अपनेत्वा मनुस्सा विहारे करिंसु. तेसं तानेव नामानि जातानि. निग्रोधकप्पेनाति निग्रोधरुक्खमूलवासिना कप्पत्थेरेन. ओहिय्यकोति ओहीनको. विहारपालोति सो किर तदा अवस्सिको होति पत्तचीवरग्गहणे अकोविदो. अथ नं थेरा भिक्खू – ‘‘आवुसो, इमानि छत्तुपाहनकत्तरयट्ठिआदीनि ओलोकेन्तो निसीदा’’ति विहाररक्खकं कत्वा पिण्डाय पविसिंसु. तेन वुत्तं ‘‘विहारपालो’’ति. समलङ्करित्वाति अत्तनो विभवानुरूपेन अलङ्कारेन अलङ्करित्वा. चित्तं अनुद्धंसेतीति कुसलचित्तं विद्धंसेति विनासेति. तं कुतेत्थ लब्भाति एतस्मिं रागे उप्पन्ने तं कारणं कुतो लब्भा. यं मे परोति येन मे कारणेन अञ्ञो पुग्गलो वा धम्मो वा अनभिरतिं विनोदेत्वा इदानेव अभिरतिं उप्पादेय्य आचरियुपज्झायापि मं विहारे ओहाय गता.
अगारस्माति अगारतो निक्खन्तं. अनगारियन्ति पब्बज्जं उपगतन्ति अत्थो. कण्हतोति कण्हपक्खतो मारपक्खतो आधावन्ति. उग्गपुत्ताति उग्गतानं पुत्ता महेसक्खा राजञ्ञभूता. दळ्हधम्मिनोति दळ्हधनुनो, उत्तमप्पमाणं आचरियधनुं धारयमाना. सहस्सं अपलायिनन्ति ये ते समन्ता सरेहि परिकिरेय्युं, तेसं अपलायीनं सङ्खं दस्सेन्तो ‘‘सहस्स’’न्ति आह. एततो भिय्योति एतस्मा सहस्सा अतिरेकतरा. नेव मं ब्याधयिस्सन्तीति मं चालेतुं न सक्खिस्सन्ति. धम्मे सम्हि पतिट्ठितन्ति अनभिरतिं विनोदेत्वा अभिरतिं उप्पादनसमत्थे सके सासनधम्मे पतिट्ठितं. इदं वुत्तं होति – इस्साससहस्से ताव समन्ता सरेहि परिकिरन्ते सिक्खितो पुरिसो दण्डकं गहेत्वा सब्बे सरे सरीरे अपतमाने अन्तराव पहरित्वा पादमूले पातेति. तत्थ एकोपि इस्सासो द्वे सरे एकतो न खिपति, इमा पन इत्थियो रूपारम्मणादिवसेन पञ्च पञ्च सरे एकतो खिपन्ति. एवं खिपन्तियो एता सचेपि अतिरेकसहस्सा होन्ति, नेव मं चालेतुं सक्खिस्सन्तीति.
सक्खी हि मे सुतं एतन्ति मया हि सम्मुखा एतं सुतं. निब्बानगमनं मग्गन्ति विपस्सनं सन्धायाह. सो हि निब्बानस्स पुब्बभागमग्गो, लिङ्गविपल्लासेन पन ‘‘मग्ग’’न्ति आह. तत्थ मेति तस्मिं मे अत्तनो तरुणविपस्सनासङ्खाते निब्बानगमनमग्गे मनो निरतो. पापिमाति किलेसं आलपति. मच्चूतिपि तमेव आलपति. न मे मग्गम्पि दक्खसीति यथा मे भवयोनिआदीसु गतमग्गम्पि न पस्ससि, तथा करिस्सामीति. पठमं.