७. नवकम्मिकसुत्तवण्णना
२०३. सत्तमे नवकम्मिकभारद्वाजोति सो किर अरञ्ञे रुक्खं छिन्दापेत्वा तत्थेव पासादकूटागारादीनि योजेत्वा नगरं आहरित्वा विक्किणाति, इति नवकम्मं निस्साय जीवतीति नवकम्मिको, गोत्तेन भारद्वाजोति नवकम्मिकभारद्वाजो. दिस्वानस्स एतदहोसीति छब्बण्णरस्मियो विस्सज्जेत्वा निसिन्नं भगवन्तं दिस्वान अस्स एतं अहोसि. वनस्मिन्ति इमस्मिं वनसण्डे. उच्छिन्नमूलं मे वनन्ति मय्हं किलेसवनं उच्छिन्नमूलं. निब्बनथोति निक्किलेसवनो. एको रमेति एकको अभिरमामि. अरतिं विप्पहायाति पन्तसेनासनेसु चेव भावनाय च उक्कण्ठितं जहित्वा. सत्तमं.