१. कसिभारद्वाजसुत्तवण्णना
१९७. दुतियवग्गस्स पठमे मगधेसूति एवंनामके जनपदे. दक्खिणागिरिस्मिन्ति राजगहं परिवारेत्वा ठितस्स गिरिनो दक्खिणभागे जनपदो अत्थि, तस्मिं जनपदे, तत्थ विहारस्सापि तदेव नामं. एकनाळायं ब्राह्मणगामेति एकनाळाति तस्स गामस्स नामं. ब्राह्मणा पनेत्थ सम्बहुला पटिवसन्ति, ब्राह्मणभोगो एव वा सो. तस्मा ‘‘ब्राह्मणगामो’’ति वुच्चति.
तेन खो पन समयेनाति यं समयं भगवा मगधरट्ठे एकनाळं ब्राह्मणगामं उपनिस्साय दक्खिणगिरिमहाविहारे ब्राह्मणस्स इन्द्रियपरिपाकं आगमयमानो विहरति, तेन समयेन. कसिभारद्वाजस्साति सो ब्राह्मणो कसिं निस्साय जीवति, भारद्वाजोति चस्स गोत्तं. पञ्चमत्तानीति पञ्च पमाणानि, अनूनानि अनधिकानि पञ्चनङ्गलसतानीति वुत्तं होति. पयुत्तानीति योजितानि, बलीबद्दानं खन्धेसु ठपेत्वा युगे योत्तेहि योजितानीति अत्थो.
वप्पकालेति वप्पनकाले बीजनिक्खेपसमये. तत्थ द्वे वप्पानि कललवप्पञ्च पंसुवप्पञ्च. पंसुवप्पं इध अधिप्पेतं, तञ्च खो पठमदिवसे मङ्गलवप्पं. तत्थायं उपकरणसम्पदा – तीणि बलिबद्दसहस्सानि उपट्ठापितानि होन्ति, सब्बेसं सुवण्णमयानि सिङ्गानि पटिमुक्कानि, रजतमया खुरा, सब्बे सेतमालाहि चेव गन्धपञ्चङ्गुलीहि च अलङ्कता परिपुण्णपञ्चङ्गा सब्बलक्खणसम्पन्ना, एकच्चे काळा अञ्जनवण्णा, एकच्चे सेता फलिकवण्णा, एकच्चे रत्ता पवाळवण्णा, एकच्चे कम्मासा मसारगल्लवण्णा. एवं पञ्चसता कस्सका सब्बे अहतसेतवत्था गन्धमालालङ्कता दक्खिणअंसकूटेसु पतिट्ठितपुप्फचुम्बटका हरितालमनोसिलालञ्जनुज्जलगत्ता दस दस नङ्गला एकेकगुम्बा हुत्वा गच्छन्ति. नङ्गलानं सीसञ्च युगञ्च पतोदा च सुवण्णखचिता. पठमनङ्गले अट्ठ बलीबद्दा युत्ता, सेसेसु चत्तारो चत्तारो, अवसेसा किलन्तपरिवत्तनत्थं आनीता. एकेकगुम्बे एकेकबीजसकटं एकेको कसति, एकेको वप्पति.
ब्राह्मणो पन पगेव मस्सुकम्मं कारापेत्वा न्हायित्वा सुगन्धगन्धेहि विलित्तो पञ्चसतग्घनकं वत्थं निवासेत्वा सहस्सग्घनकं एकंसं करित्वा एकेकिस्सा अङ्गुलिया द्वे द्वेति वीसति अङ्गुलिमुद्दिकायो कण्णेसु सीहकुण्डलानि सीसे ब्रह्मवेठनं पटिमुञ्चित्वा सुवण्णमालं कण्ठे कत्वा ब्राह्मणगणपरिवुतो कम्मन्तं वोसासति. अथस्स ब्राह्मणी अनेकसतभाजनेसु पायासं पचापेत्वा महासकटेसु आरोपेत्वा गन्धोदकेन न्हायित्वा सब्बालङ्कारविभूसिता ब्राह्मणीगणपरिवुता कम्मन्तं अगमासि. गेहम्पिस्स हरितुपलित्तं विप्पकिण्णलाजं पुण्णघटकदलिधजपटाकाहि अलङ्कतं गन्धपुप्फादीहि सुकतबलिकम्मं, खेत्तञ्च तेसु तेसु ठानेसु समुस्सितद्धजपटाकं अहोसि. परिजनकम्मकारेहि सद्धिं ओसटपरिसा अड्ढतेय्यसहस्सा अहोसि, सब्बे अहतवत्था, सब्बेसं पायासभोजनमेव पटियत्तं.
अथ ब्राह्मणो सुवण्णपातिं धोवापेत्वा पायासस्स पूरेत्वा सप्पिमधुफाणितेहि अभिसङ्खरित्वा नङ्गलबलिकम्मं कारापेसि. ब्राह्मणी पञ्चन्नं कस्सकसतानं सुवण्णरजतकंसतम्बलोहमयानि भाजनानि दापेत्वा सुवण्णकटच्छुं गहेत्वा पायासेन परिविसन्ती गच्छति. ब्राह्मणो पन बलिकम्मं कारेत्वा रत्तबन्धिकायो उपाहनायो आरोहित्वा रत्तसुवण्णदण्डकं गहेत्वा, ‘‘इध पायासं देथ, इध सप्पिं देथ, इध सक्खरं देथा’’ति वोसासमानो विचरति. अयं ताव कम्मन्ते पवत्ति.
विहारे पन यत्थ यत्थ बुद्धा वसन्ति, तत्थ तत्थ नेसं देवसिकं पञ्च किच्चानि भवन्ति, सेय्यथिदं – पुरेभत्तकिच्चं पच्छाभत्तकिच्चं पुरिमयामकिच्चं मज्झिमयामकिच्चं पच्छिमयामकिच्चन्ति.
तत्रिदं पुरेभत्तकिच्चं – भगवा हि पातोव उट्ठाय उपट्ठाकानुग्गहत्थं सरीरफासुकत्थञ्च मुखधोवनादिपरिकम्मं कत्वा याव भिक्खाचारवेला, ताव विवित्तासने वीतिनामेत्वा भिक्खाचारवेलाय निवासेत्वा कायबन्धनं बन्धित्वा चीवरं पारुपित्वा पत्तमादाय कदाचि एकको कदाचि भिक्खुसङ्घपरिवुतो गामं वा निगमं वा पिण्डाय पविसति कदाचि पकतिया, कदाचि अनेकेहि पाटिहारियेहि वत्तमानेहि. सेय्यथिदं – पिण्डाय पविसतो लोकनाथस्स पुरतो पुरतो गन्त्वा मुदुगतियो वाता पथविं सोधेन्ति, वलाहका उदकफुसितानि मुञ्चन्ता मग्गे रेणुं वूपसमेत्वा उपरि वितानं हुत्वा तिट्ठन्ति, अपरे वाता पुप्फानि उपहरित्वा मग्गे ओकिरन्ति. उन्नता भूमिप्पदेसा ओनमन्ति, ओनता उन्नमन्ति. पादनिक्खेपसमये समाव भूमि होति, सुखसम्फस्सानि पदुमपुप्फानि वा पादे सम्पटिच्छन्ति. इन्दखीलस्स अन्तो ठपितमत्ते दक्खिणपादे सरीरा छब्बण्णरस्मियो निक्खमित्वा सुवण्णरससिञ्चनानि विय चित्रपटपरिक्खित्तानि विय च पासादकूटागारादीनि करोन्तियो इतो चितो च विधावन्ति. हत्थिअस्सविहङ्गादयो सकसकट्ठानेसु ठितायेव मधुरेनाकारेन सद्दं करोन्ति, तथा भेरिवीणादीनि तूरियानि मनुस्सानञ्च कायूपगानि आभरणानि. तेन सञ्ञाणेन मनुस्सा जानन्ति ‘‘अज्ज भगवा इध पिण्डाय पविट्ठो’’ति. ते सुनिवत्था सुपारुता गन्धपुप्फादीनि आदाय घरा निक्खमित्वा अन्तरवीथिं पटिपज्जित्वा भगवन्तं गन्धपुप्फादीहि सक्कच्चं पूजेत्वा वन्दित्वा – ‘‘अम्हाकं, भन्ते, दस भिक्खू, अम्हाकं वीसति, अम्हाकं भिक्खुसतं देथा’’ति याचित्वा भगवतोपि पत्तं गहेत्वा आसनं पञ्ञापेत्वा सक्कच्चं पिण्डपातेन पटिमानेन्ति.
भगवा कतभत्तकिच्चो तेसं सन्तानानि ओलोकेत्वा तथा धम्मं देसेति, यथा केचि सरणगमने पतिट्ठहन्ति, केचि पञ्चसु सीलेसु, केचि सोतापत्तिसकदागामिअनागामिफलानं अञ्ञतरस्मिं, केचि पब्बजित्वा अग्गफले अरहत्तेति. एवं महाजनं अनुग्गहेत्वा उट्ठायासना विहारं गच्छति. तत्थ गन्धमण्डलमाळे पञ्ञत्तवरबुद्धासने निसीदति भिक्खूनं भत्तकिच्चपरियोसानं आगमयमानो. ततो भिक्खूनं भत्तकिच्चपरियोसाने उपट्ठाको भगवतो निवेदेति. अथ भगवा गन्धकुटिं पविसति. इदं ताव पुरेभत्तकिच्चं.
अथ भगवा एवं कतपुरेभत्तकिच्चो गन्धकुटिया उपट्ठाने निसीदित्वा पादे पक्खालेत्वा पादपीठे ठत्वा भिक्खुसङ्घं ओवदति – ‘‘भिक्खवे, अप्पमादेन सम्पादेथ, दुल्लभो बुद्धुप्पादो लोकस्मिं, दुल्लभो मनुस्सत्तपटिलाभो, दुल्लभा सद्धासम्पत्ति, दुल्लभा पब्बज्जा, दुल्लभं सद्धम्मस्सवन’’न्ति. तत्थ केचि भगवन्तं कम्मट्ठानं पुच्छन्ति. भगवा तेसं अत्तनो चरियानुरूपं कम्मट्ठानं देति. ततो सब्बेपि भगवन्तं वन्दित्वा अत्तनो अत्तनो रत्तिट्ठानदिवाट्ठानानि गच्छन्ति, केचि अरञ्ञं, केचि रुक्खमूलं, केचि पब्बतादीनं अञ्ञतरं, केचि चातुमहाराजिकभवनं…पे… केचि वसवत्तिभवनन्ति. ततो भगवा गन्धकुटिं पविसित्वा सचे आकङ्खति, दक्खिणेन पस्सेन सतो सम्पजानो मुहुत्तं सीहसेय्यं कप्पेति. अथ समस्सासितकायो उट्ठहित्वा दुतियभागे लोकं वोलोकेति. ततियभागे यं गामं वा निगमं वा उपनिस्साय विहरति, तत्थ महाजनो पुरेभत्तं दानं दत्वा पच्छाभत्तं सुनिवत्थो सुपारुतो गन्धपुप्फादीनि आदाय विहारे सन्निपतति. ततो भगवा सम्पत्तपरिसाय अनुरूपेन पाटिहारियेन गन्त्वा धम्मसभायं पञ्ञत्तवरबुद्धासने निसज्ज धम्मं देसेति कालयुत्तं समययुत्तं. अथ कालं विदित्वा परिसं उय्योजेति, मनुस्सा भगवन्तं वन्दित्वा पक्कमन्ति. इदं पच्छाभत्तकिच्चं.
सो एवं निट्ठितपच्छाभत्तकिच्चो सचे गत्तानि ओसिञ्चितुकामो होति, बुद्धासना वुट्ठाय न्हानकोट्ठकं पविसित्वा उपट्ठाकेन पटियादितउदकेन गत्तानि उतुं गाहापेति. उपट्ठाकोपि बुद्धासनं आनेत्वा पप्फोटेत्वा गन्धकुटिपरिवेणे पञ्ञापेति. भगवा सुरत्तदुपट्टं निवासेत्वा कायबन्धनं बन्धित्वा उत्तरासङ्गं कत्वा तत्थ आगन्त्वा निसीदति एककोव मुहुत्तं पटिसल्लीनो. अथ भिक्खू ततो ततो आगम्म भगवतो उपट्ठानं गच्छन्ति. तत्थ एकच्चे पञ्हं पुच्छन्ति, एकच्चे कम्मट्ठानं, एकच्चे धम्मस्सवनं याचन्ति. भगवा तेसं अधिप्पायं सम्पादेन्तो पुरिमयामं वीतिनामेति. इदं पुरिमयामकिच्चं.
पुरिमयामकिच्चपरियोसाने पन भिक्खूसु भगवन्तं वन्दित्वा पक्कमन्तेसु सकलदससहस्सिलोकधातुदेवतायो ओकासं लभमाना भगवन्तं उपसङ्कमित्वा पञ्हं पुच्छन्ति यथाभिसङ्खतं अन्तमसो चतुरक्खरम्पि. भगवा तासं तासं देवतानं पञ्हं विस्सज्जेन्तो मज्झिमयामं वीतिनामेति. इदं मज्झिमयामकिच्चं.
पच्छिमयामं पन तयो कोट्ठासे कत्वा पुरेभत्ततो पट्ठाय निसज्जापीळितस्स सरीरस्स किलासुभावमोचनत्थं एकं कोट्ठासं चङ्कमेन वीतिनामेति. दुतियकोट्ठासे गन्धकुटिं पविसित्वा दक्खिणेन पस्सेन सतो सम्पजानो सीहसेय्यं कप्पेति. ततियकोट्ठासे पच्चुट्ठाय निसीदित्वा पुरिमबुद्धानं सन्तिके दानसीलादिवसेन कताधिकारपुग्गलदस्सनत्थं बुद्धचक्खुना लोकं ओलोकेति. इदं पच्छिमयामकिच्चं.
तदापि एवं ओलोकेन्तो कसिभारद्वाजं ब्राह्मणं अरहत्तस्स उपनिस्सयसम्पन्नं दिस्वा – ‘‘तत्थ मयि गते कथा पवत्तिस्सति, कथावसाने धम्मदेसनं सुत्वा एसो ब्राह्मणो सपुत्तदारो तीसु सरणेसु पतिट्ठाय असीतिकोटिधनं मम सासने विप्पकिरित्वा अपरभागे निक्खम्म पब्बजित्वा अरहत्तं पापुणिस्सती’’ति ञत्वा तत्थ गन्त्वा कथं समुट्ठापेत्वा धम्मं देसेसि. एतमत्थं दस्सेतुं अथ खो भगवातिआदि वुत्तं.
तत्थ पुब्बण्हसमयन्ति भुम्मत्थे उपयोगवचनं, पुब्बण्हसमयेति अत्थो. निवासेत्वाति परिदहित्वा. विहारचीवरपरिवत्तनवसेनेतं वुत्तं. पत्तचीवरमादायाति पत्तं हत्थेहि, चीवरं कायेन आदियित्वा, सम्पटिच्छित्वा धारेत्वाति अत्थो. भगवतो किर पिण्डाय पविसितुकामस्स भमरो विय विकसितपदुमद्वयमज्झं, इन्दनीलमणिवण्णसेलमयपत्तो हत्थद्वयमज्झं आगच्छति. तं एवमागतं पत्तं हत्थेहि सम्पटिच्छित्वा चीवरञ्च परिमण्डलं पारुतं कायेन धारेत्वाति वुत्तं होति. तेनुपसङ्कमीति येन मग्गेन कम्मन्तो गन्तब्बो, तेन एककोव उपसङ्कमि. कस्मा पन नं भिक्खू नानुबन्धिंसूति? यदा हि भगवा एककोव कत्थचि गन्तुकामो होति, याव भिक्खाचारवेला द्वारं पिदहित्वा अन्तोगन्धकुटियं निसीदति. भिक्खू ताय सञ्ञाय जानन्ति ‘‘अज्ज भगवा एककोव पिण्डाय चरितुकामो, अद्धा कञ्चि एव विनेतब्बपुग्गलं अद्दसा’’ति. ते अत्तनो पत्तचीवरं गहेत्वा गन्धकुटिं पदक्खिणं कत्वा वन्दित्वा भिक्खाचारं गच्छन्ति. तदा च भगवा एवमकासि, तस्मा भिक्खू नानुबन्धिंसूति.
परिवेसना वत्ततीति तेसं सुवण्णभाजनादीनि गहेत्वा निसिन्नानं पञ्चसतानं कस्सकानं परिविसना विप्पकता होति. एकमन्तं अट्ठासीति यत्थ ठितं ब्राह्मणो पस्सति, तथारूपे दस्सनूपचारे कथासवनफासुके उच्चट्ठाने अट्ठासि. ठत्वा च रजतसुवण्णरसपिञ्जरं चन्दिमसूरियानं पभं अतिरोचमानं समन्ततो सरीरप्पभं मुञ्चि, याय अज्झोत्थटत्ता ब्राह्मणस्स कम्मन्तसालाभित्तिरुक्खकसितमत्तिकपिण्डादयो सुवण्णमया विय अहेसुं. अथ मनुस्सा भुञ्जन्ता च कसन्ता च सब्बकिच्चानि पहाय असीतिअनुब्यञ्जनपरिवारं द्वत्तिंसमहापुरिसलक्खणपटिमण्डितं सरीरं ब्यामप्पभापरिक्खेपविभूसितं बाहुयुगलं जङ्गमं विय पदुमसरं, रस्मिजालसमुज्जलिततारागणमिव गगनतलं, विज्जुलताविनद्धमिव च कनकसिखरं सिरिया जलमानं सम्मासम्बुद्धं एकमन्तं ठितं दिस्वा हत्थपादे धोवित्वा अञ्जलिं पग्गय्ह सम्परिवारेत्वा अट्ठंसु. एवं तेहि सम्परिवारितं अद्दसा खो कसिभारद्वाजो ब्राह्मणो भगवन्तं पिण्डाय ठितं, दिस्वान भगवन्तं एतदवोच – अहं खो, समण, कसामि च वपामि चाति.
कस्मा पनायं एवमाह, किं समन्तपासादिके पसादनीये उत्तमदमथसमथमनुप्पत्तेपि तथागते अप्पसादेन, उदाहु अड्ढतियानं जनसहस्सानं पायासं पटियादेत्वापि कटच्छुभिक्खाय मच्छेरेनाति? उभयथापि नो, भगवतो पनस्स दस्सनेन अतित्तं निक्खित्तकम्मन्तं जनं दिस्वा ‘‘कम्मभङ्गं मे कातुं आगतो’’ति अनत्तमनता अहोसि, तस्मा एवमाह. भगवतो च लक्खणसम्पत्तिं दिस्वा – ‘‘सचायं कम्मन्ते अप्पयोजयिस्स, सकलजम्बुदीपे मनुस्सानं सीसे चूळामणि विय अभविस्स, को नामस्स अत्थो न सम्पज्जिस्सति, एवमेवं अलसताय कम्मन्ते अप्पयोजेत्वा वप्पमङ्गलादीसु पिण्डाय चरती’’तिपिस्स अनत्तमनता अहोसि. तेनाह – ‘‘अहं खो, समण, कसामि च वपामि च, कसित्वा च वपित्वा च भुञ्जामी’’ति.
अयं किरस्स अधिप्पायो – मय्हम्पि ताव कम्मन्ता न ब्यापज्जन्ति, न चम्हि यथा त्वं एवं लक्खणसम्पन्नो, त्वम्पि कसित्वा च वपित्वा च भुञ्जस्सु, को ते अत्थो न सम्पज्जेय्य एवं लक्खणसम्पन्नस्साति. अपिचायं अस्सोसि – ‘‘सक्यराजकुले किर कुमारो उप्पन्नो, सो चक्कवत्तिरज्जं पहाय पब्बजितो’’ति. तस्मा इदानि ‘‘अयं सो’’ति ञत्वा ‘‘चक्कवत्तिरज्जं पहाय किलन्तोसी’’ति उपारम्भं आरोपेन्तो एवमाह. अपिच तिक्खपञ्ञो एस ब्राह्मणो, न भगवन्तं अपसादेन्तो भणति, भगवतो पन रूपसम्पत्तिं दिस्वा पुञ्ञसम्पत्तिं सम्भावयमानो कथापवत्तनत्थम्पि एवमाह. अथ भगवा वेनेय्यवसेन सदेवके लोके अग्गकस्सकवप्पकभावं अत्तनो दस्सेन्तो अहम्पि खो ब्राह्मणोतिआदिमाह.
अथ ब्राह्मणो चिन्तेसि – ‘‘अयं समणो’’ ‘अहम्पि कसामि च वपामि चा’ति भणति. न चस्स ओळारिकानि युगनङ्गलादीनि कसिभण्डानि पस्सामि, किं नु खो मुसा भणती’’ति? भगवन्तं पादतलतो पट्ठाय याव केसग्गा ओलोकयमानो, अङ्गविज्जाय कताधिकारत्ता द्वत्तिंसवरलक्खणसम्पत्तिमस्स ञत्वा, ‘‘अट्ठानमेतं यं एवरूपो मुसा भणेय्या’’ति सञ्जातबहुमानो भगवति समणवादं पहाय गोत्तेन भगवन्तं समुदाचरमानो न खो पन मयं पस्साम भोतो गोतमस्सातिआदिमाह. भगवा पन यस्मा पुब्बधम्मसभागताय कथनं नाम बुद्धानं आनुभावो, तस्मा बुद्धानुभावं दीपेन्तो सद्धा बीजन्तिआदिमाह.
का पनेत्थ पुब्बधम्मसभागता? ननु ब्राह्मणेन भगवा नङ्गलादिकसिसम्भारसमायोगं पुट्ठो अपुच्छितस्स बीजस्स सभागताय आह ‘‘सद्धा बीज’’न्ति, एवञ्च सति कथापि अननुसन्धिका होति? न हि बुद्धानं अननुसन्धिककथा नाम अत्थि, नपि पुब्बधम्मस्स असभागताय कथेन्ति. एवं पनेत्थ अनुसन्धि वेदितब्बा – ब्राह्मणेन हि भगवा युगनङ्गलादिकसिसम्भारवसेन कसिं पुच्छितो. सो तस्स अनुकम्पाय ‘‘इदं अपुच्छित’’न्ति अपरिहापेत्वा समूलं सउपकारं ससम्भारं सफलं कसिं पञ्ञापेतुं मूलतो पट्ठाय दस्सेन्तो ‘‘सद्धा बीज’’न्तिआदिमाह. तत्थ बीजं कसिया मूलं, तस्मिं सति कत्तब्बतो, असति अकत्तब्बतो, तप्पमाणेन च कत्तब्बतो. बीजे हि सति कसिं करोन्ति, न असति. बीजप्पमाणेन च कुसला कस्सका खेत्तं कसन्ति, न ऊनं ‘‘मा नो सस्सं परिहायी’’ति, न अधिकं ‘‘मा नो मोघो वायामो अहोसी’’ति. यस्मा च बीजमेव मूलं, तस्मा भगवा मूलतो पट्ठाय कसिसम्भारं दस्सेन्तो तस्स ब्राह्मणस्स कसिया पुब्बधम्मस्स बीजस्स सभागताय अत्तनो कसिया पुब्बधम्मं दस्सेन्तो आह ‘‘सद्धा बीज’’न्ति. एवमेत्थ पुब्बधम्मसभागतापि वेदितब्बा.
पुच्छितंयेव वत्वा अपुच्छितं पच्छा किं न वुत्तन्ति चे? तस्स उपकारभावतो च धम्मसम्बन्धसमत्थभावतो च. अयं हि ब्राह्मणो पञ्ञवा, मिच्छादिट्ठिकुले पन जातत्ता सद्धारहितो, सद्धारहितो च पञ्ञवा परेसं सद्धाय अत्तनो अविसये अपटिपज्जमानो विसेसं नाधिगच्छति, किलेसकालुस्सियपरामट्ठापि चस्स दुब्बला सद्धा बलवतिया पञ्ञाय सहसा वत्तमाना अत्थसिद्धिं न करोति हत्थिना सद्धिं एकधुरे युत्तो गोणो विय. इतिस्स सद्धा उपकारिकाति तं ब्राह्मणं सद्धाय पतिट्ठापेन्तेन पच्छापि वत्तब्बो अयमत्थो देसनाकुसलताय पुब्बे वुत्तो. बीजस्स च उपकारिका वुट्ठि, सा तदनन्तरंयेव वुच्चमाना समत्था होति. एवं धम्मसम्बन्धसमत्थभावतो पच्छापि वत्तब्बो अयमत्थो, अञ्ञो च एवरूपो ईसायोत्तादि पुब्बे वुत्तोति वेदितब्बो.
तत्थ सम्पसादलक्खणा सद्धा, ओकप्पनलक्खणा वा. बीजन्ति पञ्चविधं बीजं मूलबीजं खन्धबीजं फलुबीजं अग्गबीजं बीजबीजमेव पञ्चमन्ति. तं सब्बम्पि विरुहणट्ठेन बीजन्तेव सङ्खं गच्छति.
तत्थ यथा ब्राह्मणस्स कसिया मूलभूतं बीजं द्वे किच्चानि करोति, हेट्ठा मूलेन पतिट्ठाति, उपरि अङ्कुरं उट्ठापेति, एवं भगवतो कसिया मूलभूता सद्धा हेट्ठा सीलमूलेन पतिट्ठाति, उपरि समथविपस्सनङ्कुरं उट्ठापेति. यथा च तं मूलेन पथविरसं आपोरसं गहेत्वा नाळेन धञ्ञपरिपाकगहणत्थं वड्ढति, एवमयं सीलमूलेन समथविपस्सनारसं गहेत्वा अरियमग्गनाळेन अरियफलधञ्ञपरिपाकगहणत्थं वड्ढति. यथा च तं सुभूमियं पतिट्ठहित्वा मूलङ्कुरपण्णनाळकण्डपसवेहि वुद्धिं विरूळ्हिं वेपुल्लं पत्वा खीरं जनेत्वा अनेकसालिफलभरितं सालिसीसं निप्फादेति, एवमेसा चित्तसन्ताने पतिट्ठहित्वा छहि विसुद्धीहि वुद्धिं विरूळ्हिं वेपुल्लं पत्वा ञाणदस्सनविसुद्धिखीरं जनेत्वा अनेकपटिसम्भिदाभिञ्ञाभरितं अरहत्तफलं निप्फादेति. तेन वुत्तं ‘‘सद्धा बीज’’न्ति.
कस्मा पन अञ्ञेसु परोपञ्ञासाय कुसलधम्मेसु एकतो उप्पज्जमानेसु सद्धाव ‘‘बीज’’न्ति वुत्ताति चे? बीजकिच्चकरणतो. यथा हि तेसु विञ्ञाणंयेव विजाननकिच्चं करोति, एवं सद्धा बीजकिच्चं. सा च सब्बकुसलानं मूलभूता. यथाह – ‘‘सद्धाजातो उपसङ्कमति, उपसङ्कमन्तो पयिरुपासति…पे… पञ्ञाय च नं अतिविज्झ पस्सती’’ति (म. नि. २.१८३).
अकुसलधम्मे चेव कायञ्च तपतीति तपो. इन्द्रियसंवरवीरियधुतङ्गदुक्करकारिकानं एतं अधिवचनं, इध पन इन्द्रियसंवरो अधिप्पेतो. वुट्ठीति वस्सवुट्ठि वातवुट्ठीतिआदि अनेकविधा, इध वस्सवुट्ठि अधिप्पेता. यथा हि ब्राह्मणस्स वस्सवुट्ठिसमनुग्गहितं बीजं बीजमूलकञ्च सस्सं विरुहति न मिलायति निप्फत्तिं गच्छति, एवं भगवतो इन्द्रियसंवरसमनुग्गहिता सद्धा, सद्धामूला च सीलादयो धम्मा विरुहन्ति, न मिलायन्ति निप्फत्तिं गच्छन्ति. तेनाह ‘‘तपो वुट्ठी’’ति.
पञ्ञा मेति एत्थ वुत्तो मे-सद्दो पुरिमपदेसुपि योजेतब्बो ‘‘सद्धा मे बीजं, तपो मे वुट्ठी’’ति तेन किं दीपेति? यथा, ब्राह्मण, तया वपिते खेत्ते सचे वुट्ठि अत्थि, इच्चेतं कुसलं. नो चे अत्थि, उदकम्पि ताव दातब्बं होति. तथा मया हिरिईसे पञ्ञायुगनङ्गले मनोयोत्तेन एकाबद्धे कते वीरियबलीबद्दे योजेत्वा सतिपाचनेन विज्झित्वा अत्तनो चित्तसन्तानखेत्तम्हि सद्धाबीजे वपिते वुट्ठिया अभावो नाम नत्थि, अयं पन मे निच्चकालं इन्द्रियसंवरतपो वुट्ठीति.
पञ्ञाति कामावचरादिभेदतो अनेकविधा. इध पन सह विपस्सनाय मग्गपञ्ञा अधिप्पेता. युगनङ्गलन्ति युगञ्च नङ्गलञ्च युगनङ्गलं. यथा हि ब्राह्मणस्स युगनङ्गलं, एवं भगवतो दुविधापि विपस्सना पञ्ञा च. तत्थ यथा युगं ईसाय उपनिस्सयं होति, पुरतो च ईसाबद्धं होति, योत्तानं निस्सयं होति, बलीबद्दानं एकतो गमनं धारेति, एवं पञ्ञा हिरिप्पमुखानं धम्मानं उपनिस्सया होति. यथाह – ‘‘पञ्ञुत्तरा सब्बे कुसला धम्मा’’ति (अ. नि. ८.८३; १०.५८) च, ‘‘पञ्ञा हि सेट्ठा कुसला वदन्ति, नक्खत्तराजारिव तारकान’’न्ति (जा. २.१७.८१) च. कुसलानं धम्मानं पुब्बङ्गमट्ठेन पुरतो च होति. यथाह – ‘‘सीलं सिरी चापि सतञ्च धम्मो, अन्वायिका पञ्ञवतो भवन्ती’’ति हिरिविप्पयोगेन अनुप्पत्तितो पन ईसाबद्धो होति. मनोसङ्खातस्स समाधियोत्तस्स निस्सयपच्चयतो योत्तानं निस्सयो होति. अच्चारद्धातिलीनभावपटिसेधनतो वीरियबलीबद्दानं एकतो गमनं धारेति, यथा च नङ्गलं फालयुत्तं कसनकाले पथविघनं भिन्दति, मूलसन्तानकानि पदालेति, एवं सतियुत्ता पञ्ञा विपस्सनाकाले धम्मानं सन्ततिसमूहकिच्चारम्मणघनं भिन्दति, सब्बकिलेसमूलसन्तानकानि पदालेति. सा च खो लोकुत्तराव, इतरा पन लोकिकापि सिया. तेनाह ‘‘पञ्ञा मे युगनङ्गल’’न्ति.
हिरीयति पापकेहि धम्मेहीति हिरी. तग्गहणेन ताय अविप्पयुत्तं ओत्तप्पम्पि गहितमेव होति. ईसाति युगनङ्गलसन्धारिका रुक्खलट्ठि. यथा हि ब्राह्मणस्स ईसा युगनङ्गलं धारेति, एवं भगवतोपि हिरी लोकियलोकुत्तरपञ्ञासङ्खातं युगनङ्गलं धारेति हिरिअभावे पञ्ञाय अभावतो. यथा च ईसापटिबद्धयुगनङ्गलं किच्चकरं होति अचलं असिथिलं, एवं हिरिपटिबद्धा च पञ्ञा किच्चकारी होति अचला असिथिला अब्बोकिण्णा अहिरिकेन. तेनाह ‘‘हिरी ईसा’’ति. मुनातीति मनो, चित्तस्सेतं नामं. इध पन मनोसीसेन तंसम्पयुत्तो समाधि अधिप्पेतो. योत्तन्ति रज्जुबन्धनं. तं तिविधं ईसाय सह युगस्स बन्धनं, युगेन सह बलीबद्दानं बन्धनं, सारथिना सह बलीबद्दानं एकाबन्धनन्ति. तत्थ यथा ब्राह्मणस्स योत्तं ईसायुगबलीबद्दे एकाबद्धे कत्वा सककिच्चे पटिपादेति, एवं भगवतो समाधि सब्बेव ते हिरिपञ्ञावीरियधम्मे एकारम्मणे अविक्खेपसभावेन बन्धित्वा सककिच्चे पटिपादेति. तेनाह ‘‘मनो योत्त’’न्ति.
चिरकतादिमत्थं सरतीति सति. फालेतीति फालो. पाजेन्ति एतेनाति पाजनं. तं इध ‘‘पाचन’’न्ति वुत्तं. पतोदस्सेतं नामं. फालो च पाचनञ्च फालपाचनं. यथा हि ब्राह्मणस्स फालपाचनं, एवं भगवतो विपस्सनासम्पयुत्ता मग्गसम्पयुत्ता च सति. तत्थ यथा फालो नङ्गलं अनुरक्खति, पुरतो चस्स गच्छति, एवं सति कुसलाकुसलानं धम्मानं गतियो समन्वेसमाना आरम्मणे वा उपट्ठापयमाना पञ्ञानङ्गलं रक्खति. तेनेवेसा ‘‘सतारक्खेन चेतसा विहरती’’तिआदीसु (अ. नि. १०.२०) विय आरक्खाति वुत्ता. अप्पमुस्सनवसेन चस्सा पुरतो होति. सतिपरिचिते हि धम्मे पञ्ञा पजानाति, नो पमुट्ठे. यथा च पाचनं बलीबद्दानं विज्झनभयं दस्सेन्तं संसीदितुं न देति, उप्पथगमनं वारेति, एवं सति वीरियबलीबद्दानं अपायभयं दस्सेन्ती कोसज्जसंसीदनं न देति, कामगुणसङ्खाते अगोचरे चारं निवारेत्वा कम्मट्ठाने नियोजेन्ती उप्पथगमनं वारेति. तेनाह ‘‘सति मे फालपाचन’’न्ति.
कायगुत्तोति तिविधेन कायसुचरितेन गुत्तो. वचीगुत्तोति चतुब्बिधेन वचीसुचरितेन गुत्तो. एत्तावता पातिमोक्खसंवरसीलं वुत्तं. आहारे उदरे यतोति एत्थ आहारमुखेन सब्बपच्चयानं गहितत्ता चतुब्बिधेपि पच्चये यतो संयतो निरुपक्किलेसोति अत्थो. इमिना आजीवपारिसुद्धिसीलं वुत्तं. उदरे यतोति उदरे यतो संयतो मितभोजी, आहारे मत्तञ्ञूति वुत्तं होति. इमिना भोजने मत्तञ्ञुतामुखेन पच्चयपटिसेवनसीलं वुत्तं. तेन किं दीपेति? यथा त्वं, ब्राह्मण, बीजं वपित्वा सस्सपरिपालनत्थं कण्टकवतिं वा रुक्खवतिं वा पाकारपरिक्खेपं वा करोसि, तेन ते गोमहिंसमिगगणा पवेसं अलभन्ता सस्सं न विलुम्पन्ति, एवमहम्पि तं सद्धाबीजं वपित्वा नानप्पकारकुसलसस्सपरिपालनत्थं कायवचीआहारगुत्तिमयं तिविधं परिक्खेपं करोमि, तेन मे रागादिअकुसलधम्मगोमहिंसमिगगणा पवेसं अलभन्ता नानप्पकारकं कुसलसस्सं न विलुम्पन्तीति.
सच्चं करोमि निद्दानन्ति एत्थ द्वीहाकारेहि अविसंवादनं सच्चं. निद्दानन्ति छेदनं लुननं उप्पाटनं. करणत्थे चेतं उपयोगवचनं वेदितब्बं. अयं हेत्थ अत्थो ‘‘सच्चेन करोमि निद्दान’’न्ति. किं वुत्तं होति – ‘‘यथा त्वं बाहिरं कसिं कत्वा सस्सदूसकानं तिणानं हत्थेन वा असितेन वा निद्दानं करोसि, एवं अहम्पि अज्झत्तिकं कसिं कत्वा कुसलसस्सदूसकानं विसंवादनतिणानं सच्चेन निद्दानं करोमी’’ति. यथाभूतञाणं वा एत्थ सच्चन्ति वेदितब्बं. तेन अत्तसञ्ञादीनं तिणानं निद्दानं करोमीति दस्सेति. अथ वा निद्दानन्ति छेदकं लावकं उप्पाटकन्ति अत्थो. यथा त्वं दासं वा कम्मकरं वा निद्दानं करोसि, ‘‘निद्देहि तिणानी’’ति तिणानं छेदकं लावकं उप्पाटकं करोसि, एवमहं सच्चं करोमीति दस्सेति, अथ वा सच्चन्ति दिट्ठिसच्चं. तमहं निद्दानं करोमि, छिन्दितब्बं लुनितब्बं उप्पाटेतब्बं करोमीति. इति इमेसु द्वीसु विकप्पेसु उपयोगेनेवत्थो युज्जति.
सोरच्चं मे पमोचनन्ति एत्थ यं तं ‘‘कायिको अवीतिक्कमो वाचसिको अवीतिक्कमो’’ति सीलमेव ‘‘सोरच्च’’न्ति वुत्तं, न तं अधिप्पेतं. ‘‘कायगुत्तो’’तिआदिना हि तं वुत्तमेव. अरहत्तफलं पन अधिप्पेतं. तं हि सुन्दरे निब्बाने रतत्ता ‘‘सोरच्च’’न्ति वुच्चति. पमोचनन्ति योगविस्सज्जनं. इदं वुत्तं होति – यथा तव पमोचनं पुनपि सायन्हे वा दुतियदिवसे वा अनागतसंवच्छरे वा योजेतब्बतो अप्पमोचनमेव होति, न मम एवं. न हि मम अन्तरा मोचनं नाम अत्थि. अहं हि दीपङ्करदसबलकालतो पट्ठाय पञ्ञानङ्गले वीरियबलीबद्दे योजेत्वा कप्पसतसहस्साधिकानि चत्तारि असङ्ख्येय्यानि महाकसिं कसन्तो ताव न मुञ्चिं, याव न सम्मासम्बोधिं अभिसम्बुज्झिं. यदा च मे सब्बं तं कालं खेपेत्वा बोधिमूले अपराजितपल्लङ्के निसिन्नस्स सब्बगुणपरिवारं अरहत्तफलं उदपादि, तदा मया तं सब्बुस्सुक्कपटिप्पस्सद्धिया पमुत्तं, न दानि पुन योजेतब्बं भविस्सतीति. एतमत्थं सन्धायाह ‘‘सोरच्चं मे पमोचन’’न्ति.
वीरियं मे धुरधोरय्हन्ति एत्थ वीरियन्ति कायिकचेतसिको वीरियारम्भो. धुरधोरय्हन्ति धुरायं धोरय्हं, धुरावहन्ति अत्थो. यथा हि ब्राह्मणस्स धुरायं धोरय्हाकड्ढितं नङ्गलं भूमिघनं भिन्दति, मूलसन्तानकानि च पदालेति, एवं भगवतो वीरियाकड्ढितं पञ्ञानङ्गलं यथा वुत्तं घनं भिन्दति, किलेससन्तानकानि च पदालेति. तेनाह ‘‘वीरियं मे धुरधोरय्ह’’न्ति. अथ वा पुरिमधुरावहत्ता धुरा, मूलधुरावहत्ता धोरय्हा, धुरा च धोरय्हा च धुरधोरय्हा. इति यथा ब्राह्मणस्स एकेकस्मिं नङ्गले चतुबलीबद्दपभेदं धुरधोरय्हं वहन्तं उप्पन्नुप्पन्नं तिणमूलघातञ्चेव सस्ससम्पत्तिञ्च साधेति, एवं भगवतो चतुसम्मप्पधानवीरियभेदं धुरधोरय्हं वहन्तं उप्पन्नुप्पन्नं अकुसलघातञ्चेव कुसलसम्पत्तिञ्च साधेति. तेनाह ‘‘वीरियं मे धुरधोरय्ह’’न्ति.
योगक्खेमाधिवाहनन्ति एत्थ योगेहि खेमत्ता निब्बानं योगक्खेमं नाम, तं अधिकिच्च वाहीयति, अभिमुखं वा वाहीयतीति अधिवाहनं, योगक्खेमस्स अधिवाहनं योगक्खेमाधिवाहनन्ति. इदं वुत्तं होति – यथा तव धुरधोरय्हं पुरत्थिमादीसु अञ्ञतरदिसाभिमुखं वाहीयति, तथा मम धुरधोरय्हं निब्बानाभिमुखं वाहीयतीति. एवं वाहीयमानंव गच्छति अनिवत्तन्तं. यथा तव नङ्गलं वहन्तं धुरधोरय्हं खेत्तकोटिं पत्वा पुन निवत्तति, एवं अनिवत्तन्तं दीपङ्करकालतो पट्ठाय गच्छतेव. यस्मा वा तेन तेन मग्गेन पहीना किलेसा न पुनप्पुनं पहातब्बा होन्ति, यथा तव नङ्गलेन छिन्नानि तिणानि पुन अपरस्मिं समये छिन्दितब्बानि होन्ति, तस्मापि एवं पठममग्गवसेन दिट्ठेकट्ठे किलेसे, दुतियवसेन ओळारिके, ततियवसेन अणुसहगते, चतुत्थवसेन सब्बकिलेसे पजहन्तं गच्छति अनिवत्तन्तं. अथ वा गच्छति अनिवत्तन्ति निवत्तनरहितं हुत्वा गच्छतीति अत्थो. तन्ति तं धुरधोरय्हं. एवमेत्थ अत्थो वेदितब्बो. एवं गच्छन्तञ्च यथा तव धुरधोरय्हं न तं ठानं गच्छति, यत्थ गन्त्वा कस्सको असोको विरजो हुत्वा न सोचति. एतं पन तं ठानं गच्छति यत्थ गन्त्वा न सोचति. यत्थ सतिपाचनेन एतं वीरियधुरधोरय्हं चोदेन्तो गन्त्वा मादिसो कस्सको असोको विरजो हुत्वा न सोचति, तं सब्बसोकसल्लसमुग्घातभूतं निब्बानं नाम असङ्खतं ठानं गच्छतीति.
इदानि निगमनं करोन्तो एवमेसा कसीति गाथमाह. तस्सायं सङ्खेपत्थो – यस्स, ब्राह्मण, एसा सद्धाबीजा तपोवुट्ठिया अनुग्गहिता कसी पञ्ञामयं युगनङ्गलं हिरिमयञ्च ईसं मनोमयेन योत्तेन एकाबद्धं कत्वा पञ्ञानङ्गलेन सतिफालं आकोटेत्वा सतिपाचनं गहेत्वा कायवचीआहारगुत्तिया गोपेत्वा सच्चं निद्दानं कत्वा सोरच्चपमोचनं वीरियधुरधोरय्हं योगक्खेमाभिमुखं अनिवत्तन्तं वाहन्तेन कट्ठा कसी कम्मपरियोसानं चतुब्बिधं सामञ्ञफलं पापिता, सा होति अमतप्फला, सा एसा कसी अमतप्फला होति. अमतं वुच्चति निब्बानं, निब्बानानिसंसा होतीति अत्थो. सा खो पनेसा कसी न ममेवेकस्स अमतप्फला होति, अथ खो यो कोचि खत्तियो वा ब्राह्मणो वा वेस्सो वा सुद्दो वा गहट्ठो वा पब्बजितो वा एतं कसिं कसति, सो सब्बोपि एतं कसित्वान सब्बदुक्खा पमुच्चतीति.
एवं भगवा ब्राह्मणस्स अरहत्तनिकूटेन निब्बानपरियोसानं कत्वा देसनं निट्ठापेसि. ततो ब्राह्मणो गम्भीरत्थं देसनं सुत्वा – ‘‘मम कसिफलं भुञ्जित्वा पुनपि दिवसेयेव छातो होति, इमस्स पन कसी अमतप्फला, तस्स फलं भुञ्जित्वा सब्बदुक्खा पमुच्चती’’ति ञत्वा पसन्नो पसन्नाकारं करोन्तो भुञ्जतु भवं गोतमोतिआदिमाह. तं सब्बं ततो परञ्च वुत्तत्थमेवाति. पठमं.