९. तुरूब्रह्मसुत्तवण्णना

१८०. नवमे आबाधिकोति ‘‘सासपमत्तीहि पीळकाही’’तिआदिना नयेन अनन्तरसुत्ते आगतेन आबाधेन आबाधिको. बाळ्हगिलानोति अधिमत्तगिलानो. तुरूति कोकालिकस्स उपज्झायो तुरुत्थेरो नाम अनागामिफलं पत्वा ब्रह्मलोके निब्बत्तो. सो भूमट्ठकदेवता आदिं कत्वा, ‘‘अयुत्तं कोकालिकेन कतं अग्गसावके अन्तिमवत्थुना अब्भाचिक्खन्तेना’’ति परम्पराय ब्रह्मलोकसम्पत्तं कोकालिकस्स पापकम्मं सुत्वा – ‘‘मा मय्हं पस्सन्तस्सेव वराको नस्सि, ओवदिस्सामि नं थेरेसु चित्तपसादत्थाया’’ति आगन्त्वा तस्स पुरतो अट्ठासि. तं सन्धाय वुत्तं ‘‘तुरू पच्चेकब्रह्मा’’ति. पेसलाति पियसीला. कोसि त्वं, आवुसोति निपन्नकोव कबरक्खीनि उम्मीलेत्वा एवमाह. पस्स यावञ्च तेति पस्स यत्तकं तया अपरद्धं, अत्तनो नलाटे महागण्डं अपस्सन्तो सासपमत्ताय पीळकाय मं चोदेतब्बं मञ्ञसीति आह.

अथ नं ‘‘अदिट्ठिप्पत्तो अयं वराको, गिलविसो विय कस्सचि वचनं न करिस्सती’’ति ञत्वा पुरिसस्स हीतिआदिमाह. तत्थ कुठारीति कुठारिसदिसा फरुसा वाचा. छिन्दतीति कुसलमूलसङ्खाते मूलेयेव निकन्तति. निन्दियन्ति निन्दितब्बं दुस्सीलपुग्गलं. पसंसतीति उत्तमत्थे सम्भावेत्वा खीणासवोति वदति. तं वा निन्दति यो पसंसियोति, यो वा पसंसितब्बो खीणासवो, तं अन्तिमवत्थुना चोदेन्तो ‘‘दुस्सीलो अय’’न्ति वदति. वचिनाति मुखेन सो कलिन्ति, सो तं अपराधं मुखेन विचिनाति नाम. कलिना तेनाति तेन अपराधेन सुखं न विन्दति. निन्दियपसंसाय हि पसंसियनिन्दाय च समकोव विपाको.

सब्बस्सापि सहापि अत्तनाति सब्बेन सकेनपि अत्तनापि सद्धिं यो अक्खेसु धनपराजयो नाम, अयं अप्पमत्तको अपराधो. यो सुगतेसूति यो पन सम्मग्गतेसु पुग्गलेसु चित्तं पदुस्सेय्य, अयं चित्तपदोसोव ततो कलितो महन्ततरो कलि.

इदानि तस्स महन्ततरभावं दस्सेन्तो सतं सहस्सानन्तिआदिमाह. तत्थ सतं सहस्सानन्ति निरब्बुदगणनाय सतसहस्सं. छत्तिंसतीति अपरानि छत्तिंसति निरब्बुदानि. पञ्च चाति अब्बुदगणनाय पञ्च अब्बुदानि. यमरियगरहीति यं अरिये गरहन्तो निरयं उपपज्जति, तत्थ एत्तकं आयुप्पमाणन्ति. नवमं.