२. दुब्बण्णियसुत्तवण्णना
२६८. दुतिये दुब्बण्णोति झामखाणुवण्णो. ओकोटिमकोति लकुण्डको महोदरो. आसनेति पण्डुकम्बलसिलायं. कोधभक्खोति सक्केन गहितनाममेवेतं. सो पन एको रूपावचरब्रह्मा, ‘‘सक्को किर खन्तिबलेन समन्नागतो’’ति सुत्वा वीमंसनत्थं आगतो. अवरुद्धकयक्खा पन एवरूपं संविहितारक्खं ठानं पविसितुं न सक्कोन्ति. उपसङ्कमीति देवानं सुत्वा ‘‘न सक्का एस फरुसेन चालेतुं, नीचवुत्तिना पन खन्तियं ठितेन सक्का पलापेतु’’न्ति तथा पलापेतुकामो उपसङ्कमि. अन्तरधायीति खन्तियं ठत्वा बलवचित्तीकारं पच्चुपट्ठपेत्वा नीचवुत्तिया दस्सियमानाय सक्कासने ठातुं असक्कोन्तो अन्तरधायि. न सूपहतचित्तोम्हीति एत्थ सूति निपातमत्तं, उपहतचित्तोम्हीति आह. नावत्तेन सुवानयोति न कोधावत्तेन सुआनयो, कोधवसे वत्तेतुं न सुकरोम्हीति वदति. न वो चिराहन्ति वोति निपातमत्तं, अहं चिरं न कुज्झामीति वदति. दुतियं.