७. पुनब्बसुसुत्तवण्णना

२४१. सत्तमे तेन खो पन समयेनाति कतरसमयेन? सूरियस्स अत्थङ्गमनसमयेन. तदा किर भगवा पच्छाभत्ते महाजनस्स धम्मं देसेत्वा महाजनं उय्योजेत्वा न्हानकोट्ठके न्हत्वा गन्धकुटिपरिवेणे पञ्ञत्तवरबुद्धासने पुरत्थिमलोकधातुं ओलोकयमानो निसीदि. अथेकचारिकद्विचारिकादयो पंसुकूलिकपिण्डपातिकभिक्खू अत्तनो अत्तनो वसनट्ठानेहि निक्खमित्वा आगम्म दसबलं वन्दित्वा रत्तसाणिया परिक्खिपमाना विय निसीदिंसु. अथ नेसं अज्झासयं विदित्वा सत्था निब्बानपटिसंयुत्तं धम्मकथं कथेसि.

एवं तोसेसीति सा किर धीतरं अङ्केनादाय पुत्तं अङ्गुलिया गहेत्वा जेतवनपिट्ठियं पाकारपरिक्खेपसमीपे उच्चारपस्सावखेळसिङ्घाणिकं परियेसमाना अनुपुब्बेन जेतवनद्वारकोट्ठकं सम्पत्ता. भगवतो च, ‘‘आनन्द, पत्तं आहर, चीवरं आहर, विघासादानं दानं देही’’ति कथेन्तस्स सद्दो समन्ता द्वादसहत्थमत्तमेव गण्हाति. धम्मं देसेन्तस्स सचेपि चक्कवाळपरियन्तं कत्वा परिसा निसीदति, यथा परिसं गच्छति, बहिपरिसाय एकङ्गुलिमत्तम्पि न निग्गच्छति, ‘‘मा अकारणा मधुरसद्दो नस्सी’’ति. तत्रायं यक्खिनी बहिपरिसाय ठिता सद्दं न सुणाति, द्वारकोट्ठके ठिताय पनस्सा महतिया बुद्धवीथिया अभिमुखे ठिता गन्धकुटि पञ्ञायि. सा निवाते दीपसिखा विय बुद्धगारवेन हत्थकुक्कुच्चादिरहितं निच्चलं परिसं दिस्वा – ‘‘नून मेत्थ किञ्चि भाजनीयभण्डं भविस्सति, यतो अहं सप्पितेलमधुफाणितादीसु किञ्चिदेव पत्ततो वा हत्थतो वा पग्घरन्तं भूमियं वा पन पतितं लभिस्सामी’’ति अन्तोविहारं पाविसि. द्वारकोट्ठके अवरुद्धकानं निवारणत्थाय ठिता आरक्खदेवता यक्खिनिया उपनिस्सयं दिस्वा न निवारेसि. तस्सा सह परिसाय एकीभावगमनेन मधुरस्सरो छविआदीनि छिन्दित्वा अट्ठिमिञ्जं आहच्च अट्ठासि. तं धम्मस्सवनत्थाय निच्चलं ठितं पुरिमनयेनेव पुत्तका चोदयिंसु. सा ‘‘धम्मस्सवनस्स मे अन्तरायं करोन्ती’’ति पुत्तके तुण्ही उत्तरिके होहीति एवं तोसेसि.

तत्थ यावाति याव धम्मं सुणामि, ताव तुण्ही होहीति अत्थो. सब्बगन्थप्पमोचनन्ति निब्बानं आगम्म सब्बे गन्था पमुच्चन्ति, तस्मा तं सब्बगन्थप्पमोचनन्ति वुच्चति. अतिवेलाति वेलातिक्कन्ता पमाणातिक्कन्ता. पियायनाति मग्गना पत्थना. ततो पियतरन्ति या अयं अस्स धम्मस्स मग्गना पत्थना, इदं मय्हं ततो पियतरन्ति अत्थो. पियतराति वा पाठो. पाणिनन्ति यथा पाणीनं दुक्खा मोचेति. के मोचेतीति? पाणिनेति आहरित्वा वत्तब्बं. यं धम्मं अभिसम्बुद्धन्ति, यं धम्मं भगवा अभिसम्बुद्धो. तुण्हीभूतायमुत्तराति न केवलं अहमेव, अयं मे भगिनी उत्तरापि तुण्हीभूताति वदति. सद्धम्मस्स अनञ्ञायाति, अम्म, मयं पुब्बेपि इमं सद्धम्ममेव अजानित्वा इदानि इदं खुप्पिपासादिदुक्खं अनुभवन्ता दुक्खं चराम विहराम.

चक्खुमाति पञ्चहि चक्खूहि चक्खुमा. धम्मं देसेन्तोयेव भगवा परिसं सल्लक्खयमानो तस्सा यक्खिनिया चेव यक्खदारकस्स च सोतापत्तिफलस्स उपनिस्सयं दिस्वा देसनं विनिवट्टेत्वा चतुसच्चकथं दीपेति, तं सुत्वा तस्मिंयेव देसे ठिता यक्खिनी सद्धिं पुत्तेन सोतापत्तिफले पतिट्ठिता. धीतुयापि पनस्सा उपनिस्सयो अत्थि, अतिदहरत्ता पन देसनं सम्पटिच्छितुं नासक्खि.

इदानि सा यक्खिनी पुत्तस्स अनुमोदनं करोन्ती साधु खो पण्डितो नामातिआदिमाह. अज्जाहम्हि समुग्गताति अहम्हि अज्ज वट्टतो उग्गता समुग्गता सासने वा उग्गता समुग्गता, त्वम्पि सुखी होहीति. दिट्ठानीति मया च तया च दिट्ठानि. उत्तरापि सुणातु मेति, ‘‘अम्हाकं चतुसच्चपटिवेधभावं, धीता मे उत्तरापि, सुणातू’’ति वदति. सह सच्चपटिवेधेनेव सापि सूचिलोमो विय सब्बं सेतकण्डुकच्छुआदिभावं पहाय दिब्बसम्पत्तिं पटिलभति सद्धिं पुत्तेन. धीता पनस्सा यथा नाम लोके मातापितूहि इस्सरिये लद्धे पुत्तानम्पि तं होति, एवं मातु-आनुभावेनेव सम्पत्तिं लभि. ततो पट्ठाय च सा सद्धिं पुत्तकेहि गन्धकुटिसमीपरुक्खेयेव निवासरुक्खं लभित्वा सायं पातं बुद्धदस्सनं लभमाना धम्मं सुणमाना दीघरत्तं तत्थेव वसि. सत्तमं.