३. उपनीयसुत्तवण्णना
३. ततिये उपनीयतीति परिक्खीयति निरुज्झति, उपगच्छति वा, अनुपुब्बेन मरणं उपेतीति अत्थो. यथा वा गोपालेन गोगणो नीयति, एवं जराय मरणसन्तिकं उपनीयतीति अत्थो. जीवितन्ति जीवितिन्द्रियं. अप्पन्ति परित्तं थोकं. तस्स द्वीहाकारेहि परित्तता वेदितब्बा सरसपरित्तताय च खणपरित्तताय च. सरसपरित्ततायपि हि ‘‘यो, भिक्खवे, चिरं जीवति, सो वस्ससतं अप्पं वा भिय्यो’’ति (दी. नि. २.७; सं. नि. २.१४३) वचनतो परित्तं. खणपरित्ततायपि. परमत्थतो हि अतिपरित्तो सत्तानं जीवितक्खणो एकचित्तप्पवत्तिमत्तोयेव. यथा नाम रथचक्कं पवत्तमानम्पि एकेनेव नेमिप्पदेसेन पवत्तति, तिट्ठमानम्पि एकेनेव तिट्ठति, एवमेवं एकचित्तक्खणिकं सत्तानं जीवितं, तस्मिं चित्ते निरुद्धमत्ते सत्तो निरुद्धोति वुच्चति. यथाह – अतीते चित्तक्खणे जीवित्थ न जीवति न जीविस्सति, अनागते चित्तक्खणे जीविस्सति न जीवति न जीवित्थ, पच्चुप्पन्ने चित्तक्खणे जीवति न जीवित्थ न जीविस्सति.
‘‘जीवितं अत्तभावो च, सुखदुक्खा च केवला;
एकचित्तसमायुत्ता, लहुसो वत्तते खणो.
‘‘ये निरुद्धा मरन्तस्स, तिट्ठमानस्स वा इध;
सब्बेपि सदिसा खन्धा, गता अप्पटिसन्धिका.
‘‘अनिब्बत्तेन न जातो, पच्चुप्पन्नेन जीवति;
चित्तभङ्गा मतो लोको, पञ्ञत्ति परमत्थिया’’ति. (महानि. १०);
जरूपनीतस्साति जरं उपगतस्स, जराय वा मरणसन्तिकं उपनीतस्स. न सन्ति ताणाति ताणं लेणं सरणं भवितुं समत्था नाम केचि नत्थि. एतं भयन्ति एतं जीवितिन्द्रियस्स मरणूपगमनं, आयुपरित्तता, जरूपनीतस्स ताणाभावोति तिविधं भयं भयवत्थु भयकारणन्ति अत्थो. पुञ्ञानि कयिराथ सुखावहानीति विञ्ञू पुरिसो सुखावहानि सुखदायकानि पुञ्ञानि करेय्य. इति देवता रूपावचरज्झानं सन्धाय पुब्बचेतनं अपरचेतनं मुञ्चचेतनञ्च गहेत्वा बहुवचनवसेन ‘‘पुञ्ञानी’’ति आह. झानस्सादं झाननिकन्तिं झानसुखञ्च गहेत्वा ‘‘सुखावहानी’’ति आह. तस्सा किर देवताय सयं दीघायुकट्ठाने ब्रह्मलोके निब्बत्तत्ता हेट्ठा कामावचरदेवेसु परित्तायुकट्ठाने चवमाने उपपज्जमाने च थुल्लफुसितके वुट्ठिपातसदिसे सत्ते दिस्वा एतदहोसि ‘‘अहोवतिमे सत्ता झानं भावेत्वा अपरिहीनज्झाना कालं कत्वा ब्रह्मलोके एककप्प-द्वेकप्प-चतुकप्प-अट्ठकप्प-सोळसकप्प-द्वत्तिंसकप्प-चतुसट्ठिकप्पप्पमाणं अद्धानं तिट्ठेय्यु’’न्ति. तस्मा एवमाह.
अथ भगवा – ‘‘अयं देवता अनिय्यानिकं वट्टकथं कथेती’’ति विवट्टमस्सा दस्सेन्तो दुतियं गाथमाह. तत्थ लोकामिसन्ति द्वे लोकामिसा परियायेन च निप्परियायेन च. परियायेन तेभूमकवट्टं लोकामिसं, निप्परियायेन चत्तारो पच्चया. इध परियायलोकामिसं अधिप्पेतं. निप्परियायलोकामिसम्पि वट्टतियेव. सन्तिपेक्खोति निब्बानसङ्खातं अच्चन्तसन्तिं पेक्खन्तो इच्छन्तो पत्थयन्तोति.
उपनीयसुत्तवण्णना निट्ठिता.