८. उपक्किलेससुत्तवण्णना
२३६. एवं मे सुतन्ति उपक्किलेससुत्तं. तत्थ एतदवोचाति नेव भेदाधिप्पायेन न पियकम्यताय, अथ ख्वास्स एतदहोसि – ‘‘इमे भिक्खू मम वचनं गहेत्वा न ओरमिस्सन्ति, बुद्धा च नाम हितानुकम्पका, अद्धा नेसं भगवा एकं कारणं कथेस्सति, तं सुत्वा एते ओरमिस्सन्ति, ततो तेसं फासुविहारो भविस्सती’’ति. तस्मा एतं ‘‘इध, भन्ते’’तिआदिवचनमवोच. मा भण्डनन्तिआदीसु ‘‘अकत्था’’ति पाठसेसं गहेत्वा ‘‘मा भण्डनं अकत्था’’ति एवं अत्थो दट्ठब्बो. अञ्ञतरोति सो किर भिक्खु भगवतो अत्थकामो, अयं किरस्स अधिप्पायो – ‘‘इमे भिक्खू कोधाभिभूता सत्थु वचनं न गण्हन्ति, मा भगवा एते ओवदन्तो किलमी’’ति, तस्मा एवमाह.
पिण्डाय पाविसीति न केवलं पाविसि, येनपि जनेन न दिट्ठो, सो मं पस्सतूतिपि अधिट्ठासि. किमत्थं अधिट्ठासीति? तेसं भिक्खूनं दमनत्थं. भगवा हि तदा पिण्डपातप्पटिक्कन्तो ‘‘पुथुसद्दो समजनो’’तिआदिगाथा भासित्वा कोसम्बितो बालकलोणकारगामं गतो. ततो पाचीनवंसदायं, ततो पालिलेय्यकवनसण्डं गन्त्वा पालिलेय्यहत्थिनागेन उपट्ठहियमानो तेमासं वसि. नगरवासिनोपि – ‘‘सत्था विहारं गतो, गच्छाम धम्मस्सवनाया’’ति गन्धपुप्फहत्था विहारं गन्त्वा ‘‘कहं, भन्ते, सत्था’’ति पुच्छिंसु. ‘‘कहं तुम्हे सत्थारं दक्खथ, सत्था ‘इमे भिक्खू समग्गे करिस्सामी’ति आगतो, समग्गे कातुं असक्कोन्तो निक्खमित्वा गतो’’ति. ‘‘मयं सतम्पि सहस्सम्पि दत्वा सत्थारं आनेतुं न सक्कोम, सो नो अयाचितो सयमेव आगतो, मयं इमे भिक्खू निस्साय सत्थु सम्मुखा धम्मकथं सोतुं न लभिम्हा. इमे सत्थारं उद्दिस्स पब्बजिता, तस्मिम्पि सामग्गिं करोन्ते समग्गा न जाता, कस्साञ्ञस्स वचनं करिस्सन्ति. अलं न इमेसं भिक्खा दातब्बा’’ति सकलनगरे दण्डं ठपयिंसु. ते पुनदिवसे सकलनगरं पिण्डाय चरित्वा कटच्छुमत्तम्पि भिक्खं अलभित्वा विहारं आगमंसु. उपासकापि ते पुन आहंसु – ‘‘याव सत्थारं न खमापेथ, ताव वो तमेव दण्डकम्म’’न्ति. ते ‘‘सत्थारं खमापेस्सामा’’ति भगवति सावत्थियं अनुप्पत्ते तत्थ अगमंसु. सत्था तेसं अट्ठारस भेदकरवत्थूनि देसेसीति अयमेत्थ पाळिमुत्तककथा.
२३७. इदानि पुथुसद्दोतिआदिगाथासु पुथु महासद्दो अस्साति पुथुसद्दो. समजनोति समानो एकसदिसो जनो, सब्बोवायं भण्डनकारकजनो समन्ततो सद्दनिच्छरणेन पुथुसद्दो चेव सदिसो चाति वुत्तं होति. न बालो कोचि मञ्ञथाति तत्र कोचि एकोपि अहं बालोति न मञ्ञति, सब्बेपि पण्डितमानिनोयेव. नाञ्ञं भिय्यो अमञ्ञरुन्ति कोचि एकोपि अहं बालोति न च मञ्ञि, भिय्यो च सङ्घस्मिं भिज्जमाने अञ्ञम्पि एकं ‘‘मय्हं कारणा सङ्घो भिज्जती’’ति इदं कारणं न मञ्ञीति अत्थो.
परिमुट्ठाति मुट्ठस्सतिनो. वाचागोचरभाणिनोति राकारस्स रस्सादेसो कतो; वाचागोचराव, न सतिपट्ठानगोचरा, भाणिनो च, कथं भाणिनो? याविच्छन्ति मुखायामं, याव मुखं पसारेतुं इच्छन्ति, ताव पसारेत्वा भाणिनो, एकोपि सङ्घगारवेन मुखसङ्कोचनं न करोतीति अत्थो. येन नीताति येन कलहेन इमं निल्लज्जभावं नीता. न तं विदू न तं जानन्ति ‘‘एवं सादीनवो अय’’न्ति.
ये च तं उपनय्हन्तीति तं अक्कोच्छि मन्तिआदिकं आकारं ये उपनय्हन्ति. सनन्तनोति पोराणो.
परेति पण्डिते ठपेत्वा ततो अञ्ञे भण्डनकारका परे नाम. ते एत्थ सङ्घमज्झे कलहं करोन्ता ‘‘मयं यमामसे उपयमाम नस्साम सततं समितं मच्चुसन्तिकं गच्छामा’’ति न जानन्ति. ये च तत्थ विजानन्तीति ये च तत्थ पण्डिता ‘‘मयं मच्चुनो समीपं गच्छामा’’ति विजानन्ति. ततो सम्मन्ति मेधगाति एवञ्हि ते जानन्ता योनिसोमनसिकारं उप्पादेत्वा मेधगानं कलहानं वूपसमाय पटिपज्जन्ति.
अट्ठिच्छिन्नाति अयं गाथा जातके (जा. १.९.१६) आगता, ब्रह्मदत्तञ्च दीघावुकुमारञ्च सन्धाय वुत्ता. अयञ्हेत्थ अत्थो – तेसम्पि तथा पवत्तवेरानं होति सङ्गति, कस्मा तुम्हाकं न होति, येसं वो नेव मातापितूनं अट्ठीनि छिन्नानि, न पाणा हटा न गवास्सधनानि हटानीति.
सचे लभेथातिआदिगाथा पण्डितसहायस्स च बालसहायस्स च वण्णावण्णदीपनत्थं वुत्ता. अभिभुय्य सब्बानि परिस्सयानीति पाकटपरिस्सये च पटिच्छन्नपरिस्सये च अभिभवित्वा तेन सद्धिं अत्तमनो सतिमा चरेय्याति.
राजाव रट्ठं विजितन्ति यथा अत्तनो विजितरट्ठं महाजनकराजा च अरिन्दममहाराजा च पहाय एकका विचरिंसु, एवं विचरेय्याति अत्थो. मातङ्गरञ्ञेव नागोति मातङ्गो अरञ्ञे नागोव. मातङ्गोति हत्थि वुच्चति. नागोति महन्ताधिवचनमेतं. यथा हि मातुपोसको मातङ्गनागो अरञ्ञे एको चरि, न च पापानि अकासि, यथा च पालिलेय्यको, एवं एको चरे, न च पापानि कयिराति वुत्तं होति.
२३८. बालकलोणकारगामोति उपालिगहपतिस्स भोगगामो. तेनुपसङ्कमीति कस्मा उपसङ्कमि? गणे किरस्स आदीनवं दिस्वा एकविहारिं भिक्खुं पस्सितुकामता उदपादि, तस्मा सीतादीहि पीळितो उण्हादीनि पत्थयमानो विय उपसङ्कमि. धम्मिया कथायाति एकीभावे आनिसंसप्पटिसंयुत्ताय. येन पाचीनवंसदायो, तत्थ कस्मा उपसङ्कमि? कलहकारके किरस्स दिट्ठादीनवत्ता समग्गवासिनो भिक्खू पस्सितुकामता उदपादि, तस्मा सीतादीहि पीळितो उण्हादीनि पत्थयमानो विय तत्थ उपसङ्कमि. आयस्मा च अनुरुद्धोतिआदि वुत्तनयमेव.
२४१. अत्थि पन वोति पच्छिमपुच्छाय लोकुत्तरधम्मं पुच्छेय्य. सो पन थेरानं नत्थि, तस्मा तं पुच्छितुं न युत्तन्ति परिकम्मोभासं पुच्छति. ओभासञ्चेव सञ्जानामाति परिकम्मोभासं सञ्जानाम. दस्सनञ्च रूपानन्ति दिब्बचक्खुना रूपदस्सनञ्च सञ्जानाम. तञ्च निमित्तं नप्पटिविज्झामाति तञ्च कारणं न जानाम, येन नो ओभासो च रूपदस्सनञ्च अन्तरधायति.
तं खो पन वो अनुरुद्धा निमित्तं पटिविज्झितब्बन्ति तं वो कारणं जानितब्बं. अहम्पि सुदन्ति अनुरुद्धा तुम्हे किं न आळुलेस्सन्ति, अहम्पि इमेहि एकादसहि उपक्किलेसेहि आळुलितपुब्बोति दस्सेतुं इमं देसनं आरभि. विचिकिच्छा खो मेतिआदीसु महासत्तस्स आलोकं वड्ढेत्वा दिब्बचक्खुना नानाविधानि रूपानि दिस्वा ‘‘इदं खो कि’’न्ति विचिकिच्छा उदपादि. समाधि चवीति परिकम्मसमाधि चवि. ओभासोति परिकम्मोभासोपि अन्तरधायि, दिब्बचक्खुनापि रूपं न पस्सि. अमनसिकारोति रूपानि पस्सतो विचिकिच्छा उप्पज्जति, इदानि किञ्चि न मनसिकरिस्सामीति अमनसिकारो उदपादि.
थिनमिद्धन्ति किञ्चि अमनसिकरोन्तस्स थिनमिद्धं उदपादि.
छम्भितत्तन्ति हिमवन्ताभिमुखं आलोकं वड्ढेत्वा दानवरक्खसअजगरादयो अद्दस, अथस्स छम्भितत्तं उदपादि.
उप्पिलन्ति ‘‘मया दिट्ठभयं पकतिया ओलोकियमानं नत्थि. अदिट्ठे किं नाम भय’’न्ति चिन्तयतो उप्पिलावितत्तं उदपादि. सकिदेवाति एकपयोगेनेव पञ्च निधिकुम्भियोपि पस्सेय्य.
दुट्ठुल्लन्ति मया वीरियं गाळ्हं पग्गहितं, तेन मे उप्पिलं उप्पन्नन्ति वीरियं सिथिलमकासि, ततो कायदरथो कायदुट्ठुल्लं कायालसियं उदपादि.
अच्चारद्धवीरियन्ति मम वीरियं सिथिलं करोतो दुट्ठुल्लं उप्पन्नन्ति पुन वीरियं पग्गण्हतो अच्चारद्धवीरियं उदपादि. पतमेय्याति मरेय्य.
अतिलीनवीरियन्ति मम वीरियं पग्गण्हतो एवं जातन्ति पुन वीरियं सिथिलं करोतो अतिलीनवीरियं उदपादि.
अभिजप्पाति देवलोकाभिमुखं आलोकं वड्ढेत्वा देवसङ्घं पस्सतो तण्हा उदपादि.
नानत्तसञ्ञाति मय्हं एकजातिकं रूपं मनसिकरोन्तस्स अभिजप्पा उप्पन्ना, नानाविधरूपं मनसि करिस्सामीति कालेन देवलोकाभिमुखं कालेन मनुस्सलोकाभिमुखं वड्ढेत्वा नानाविधानि रूपानि मनसिकरोतो नानत्तसञ्ञा उदपादि.
अतिनिज्झायितत्तन्ति मय्हं नानाविधानि रूपानि मनसिकरोन्तस्स नानत्तसञ्ञा उदपादि, इट्ठं वा अनिट्ठं वा एकजातिकमेव मनसि करिस्सामीति तथा मनसिकरोतो अतिनिज्झायितत्तं रूपानं उदपादि.
२४३. ओभासनिमित्तं मनसि करोमीति परिकम्मोभासमेव मनसि करोमि. न च रूपानि पस्सामीति दिब्बचक्खुना रूपानि न पस्सामि. रूपनिमित्तं मनसि करोमीति दिब्बचक्खुना विसयरूपमेव मनसि करोमि.
परित्तञ्चेव ओभासन्ति परित्तकट्ठाने ओभासं. परित्तानि च रूपानीति परित्तकट्ठाने रूपानि. विपरियायेन दुतियवारो वेदितब्बो. परित्तो समाधीति परित्तको परिकम्मोभासो, ओभासपरित्ततञ्हि सन्धाय इध परिकम्मसमाधि ‘‘परित्तो’’ति वुत्तो. परित्तं मे तस्मिं समयेति तस्मिं समये दिब्बचक्खुपि परित्तकं होति. अप्पमाणवारेपि एसेव नयो.
२४५. अवितक्कम्पि विचारमत्तन्ति पञ्चकनये दुतियज्झानसमाधिं. अवितक्कम्पि अविचारन्ति चतुक्कनयेपि पञ्चकनयेपि झानत्तयसमाधिं. सप्पीतिकन्ति दुकतिकज्झानसमाधिं. निप्पीतिकन्ति दुकज्झानसमाधिं. सातसहगतन्ति तिकचतुक्कज्झानसमाधिं. उपेक्खासहगतन्ति चतुक्कनये चतुत्थज्झानसमाधिं पञ्चकनये पञ्चमज्झानसमाधिं.
कदा पन भगवा इमं तिविधं समाधिं भावेति? महाबोधिमूले निसिन्नो पच्छिमयामे. भगवतो हि पठममग्गो पठमज्झानिको अहोसि, दुतियादयो दुतियततियचतुत्थज्झानिका. पञ्चकनये पञ्चमज्झानस्स मग्गो नत्थीति सो लोकियो अहोसीति लोकियलोकुत्तरमिस्सकं सन्धायेतं वुत्तं. सेसं सब्बत्थ उत्तानमेवाति.
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
उपक्किलेससुत्तवण्णना निट्ठिता.