५. दन्तभूमिसुत्तवण्णना

२१३. एवं मे सुतन्ति दन्तभूमिसुत्तं. तत्थ अरञ्ञकुटिकायन्ति तस्सेव वेळुवनस्स एकस्मिं विवित्तट्ठाने पधानकम्मिकानं भिक्खूनं अत्थाय कतसेनासने. राजकुमारोति बिम्बिसारस्स पुत्तो ओरसको.

फुसेय्याति लभेय्य. एकग्गतन्ति एवं पटिपन्नो समापत्तिं नाम लभति, झानं नाम लभतीति इदं मया सुतन्ति वदति. किलमथोति कायकिलमथो. विहेसाति स्वेव किलमथो वुत्तो. यथासके तिट्ठेय्यासीति अत्तनो अजाननकोट्ठासेयेव तिट्ठेय्यासीति.

२१४. देसेसीति चित्तेकग्गतं नाम एवं लभति, समापत्तिं एवं निब्बत्तेतीति अप्पनाउपचारं पापेत्वा एककसिणपरिकम्मं कथेसि. पवेदेत्वाति पकासेत्वा.

नेक्खम्मेन ञातब्बन्ति कामतो निस्सटगुणेन ञातब्बं. कामतो निस्सटगुणे ठितेन पुग्गलेन एकग्गं नाम जानितब्बन्ति अधिप्पायेनेतं वुत्तं. सेसानि तस्सेव वेवचनानि. कामे परिभुञ्जन्तोति दुविधेपि कामे भुञ्जमानो.

२१५. हत्थिदम्मा वा अस्सदम्मा वा गोदम्मा वाति एत्थ अदन्तहत्थिदम्मादयो विय चित्तेकग्गरहिता पुग्गला दट्ठब्बा. दन्तहत्थिआदयो विय चित्तेकग्गसम्पन्ना. यथा अदन्तहत्थिदम्मादयो कूटाकारं अकत्वा धुरं अछड्डेत्वा दन्तगमनं वा गन्तुं, दन्तेहि वा पत्तब्बं भूमिं पापुणितुं न सक्कोन्ति, एवमेव चित्तेकग्गरहिता सम्पन्नचित्तेकग्गेहि निब्बत्तितगुणं वा निब्बत्तेतुं पत्तभूमिं वा पापुणितुं न सक्कोन्ति.

२१६. हत्थविलङ्घकेनाति हत्थेन हत्थं गहेत्वा.

दट्ठेय्यन्ति पस्सितब्बयुत्तकं. आवुतोति आवरितो. निवुतोति निवारितो. ओफुटोति ओनद्धो.

२१७. नागवनिकन्ति हत्थिपदोपमे (म. नि. १.२८८ आदयो) नागवनचरको पुरिसो ‘‘नागवनिको’’ति वुत्तो, इध हत्थिसिक्खाय कुसलो हत्थिं गहेतुं समत्थो. अतिपस्सित्वाति दिस्वा. एत्थगेधाति एतस्मिं पवत्तगेधा. सरसङ्कप्पानन्ति धावनसङ्कप्पानं. मनुस्सकन्तेसु सीलेसु समादपनायाति एत्थ यदा नागो इत्थिपुरिसेहि कुमारकुमारिकाहि सोण्डादीसु गहेत्वा उपकेळयमानो विकारं न करोति सुखायति, तदानेन मनुस्सकन्तानि सीलानि समादिन्नानि नाम होन्ति.

पेमनीयाति तात राजा ते पसन्नो मङ्गलहत्थिट्ठानेव ठपेस्सति, राजारहानि भोजनादीनि लभिस्ससीति एवरूपी नागेहि पियापितब्बा कथा. सुस्सूसतीति तं पेमनीयकथं सोतुकामो होति. तिणघासोदकन्ति तिणघासञ्चेव उदकञ्च, तिणघासन्ति घासितब्बं तिणं, खादितब्बन्ति अत्थो.

पणवोति डिण्डिमो. सब्बवङ्कदोसनिहितनिन्नीतकसावोति निहितसब्बवङ्कदोसो चेव अपनीतकसावो च. अङ्गन्तेव सङ्खं गच्छतीति अङ्गसमो होति.

२१९. गेहसितसीलानन्ति पञ्चकामगुणनिस्सितसीलानं. ञायस्साति अट्ठङ्गिकमग्गस्स.

२२२. अदन्तमरणं महल्लको रञ्ञो नागो कालङ्कतोति रञ्ञो महल्लको नागो अदन्तमरणं मतो कालं कतो होति, अदन्तमरणं कालंकिरियं नाम करियतीति अयमेत्थ अत्थो. एस नयो सब्बत्थ. सेसं उत्तानमेवाति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

दन्तभूमिसुत्तवण्णना निट्ठिता.