५. चूळसच्चकसुत्तवण्णना

३५३. एवं मे सुतन्ति चूळसच्चकसुत्तं. तत्थ महावने कूटागारसालायन्ति महावनं नाम सयंजातं अरोपिमं सपरिच्छेदं महन्तं वनं. कपिलवत्थुसामन्ता पन महावनं हिमवन्तेन सह एकाबद्धं अपरिच्छेदं हुत्वा महासमुद्दं आहच्च ठितं. इदं तादिसं न होति. सपरिच्छेदं महन्तं वनन्ति महावनं. कूटागारसाला पन महावनं निस्साय कते आरामे कूटागारं अन्तोकत्वा हंसवट्टकच्छन्नेन कता सब्बाकारसम्पन्ना बुद्धस्स भगवतो गन्धकुटि वेदितब्बा.

सच्चको निगण्ठपुत्तोति पुब्बे किर एको निगण्ठो च निगण्ठी च पञ्च पञ्च वादसतानि उग्गहेत्वा, वादं आरोपेस्सामाति जम्बुदीपे विचरन्ता वेसालियं समागता. लिच्छविराजानो दिस्वा, – ‘‘त्वं को, त्वं का’’ति पुच्छिंसु. निगण्ठो – ‘‘अहं वादं आरोपेस्सामीति जम्बुदीपे विचरामी’’ति आह. निगण्ठीपि तथा आह. लिच्छविनो, ‘‘इधेव अञ्ञमञ्ञं वादं आरोपेथा’’ति आहंसु. निगण्ठी अत्तना उग्गहितानि पञ्चवादसतानि पुच्छि, निगण्ठो कथेसि. निगण्ठेन पुच्छितेपि निगण्ठी कथेसियेव. एकस्सपि न जयो, न पराजयो, उभो समसमाव अहेसुं. लिच्छविनो, – ‘‘तुम्हे उभोपि समसमा आहिण्डित्वा किं करिस्सथ, इधेव वसथा’’ति गेहं दत्वा बलिं पट्ठपेसुं. तेसं संवासमन्वाय चतस्सो धीतरो जाता, – एका सच्चा नाम, एका लोला नाम, एका पटाचारा नाम, एका आचारवती नाम. तापि पण्डिताव अहेसुं, मातापितूहि उग्गहितानि पञ्च पञ्च वादसतानि उग्गहेसुं. ता वयपत्ता मातापितरो अवोचुं – ‘‘अम्हाकं अम्मा कुले दारिका नाम हिरञ्ञसुवण्णादीनि दत्वा कुलघरं पेसितपुब्बा नाम नत्थि. यो पन अगारिको तासं वादं मद्दितुं सक्कोति, तस्स पादपरिचारिका होन्ति. यो पब्बजितो तासं मद्दितुं सक्कोति, तस्स सन्तिके पब्बजन्ति. तुम्हे किं करिस्सथा’’ति? मयम्पि एवमेव करिस्सामाति. चतस्सोपि परिब्बाजिकवेसं गहेत्वा, ‘‘अयं जम्बुदीपो नाम जम्बुया पञ्ञायती’’ति जम्बुसाखं गहेत्वा चारिकं पक्कमिंसु. यं गामं पापुणन्ति, तस्स द्वारे पंसुपुञ्जे वा वालिकपुञ्जे वा जम्बुधजं ठपेत्वा, – ‘‘यो वादं आरोपेतुं सक्कोति, सो इमं मद्दतू’’ति वत्वा गामं पविसन्ति. एवं गामेन गामं विचरन्तियो सावत्थिं पापुणित्वा तथेव गामद्वारे जम्बुधजं ठपेत्वा सम्पत्तमनुस्सानं आरोचेत्वा अन्तोनगरं पविट्ठा.

तेन समयेन भगवा सावत्थिं निस्साय जेतवने विहरति. अथायस्मा सारिपुत्तो गिलाने पुच्छन्तो अजग्गितट्ठानं जग्गन्तो अत्तनो किच्चमहन्तताय अञ्ञेहि भिक्खूहि दिवातरं गामं पिण्डाय पविसन्तो गामद्वारे जम्बुधजं दिस्वा, – ‘‘किमिद’’न्ति दारके पुच्छि. ते तमत्थं आरोचेसुं. तेन हि मद्दथाति. न सक्कोम, भन्ते, भायामाति. ‘‘कुमारा मा भायथ, ‘केन अम्हाकं जम्बुधजो मद्दापितो’ति वुत्ते, बुद्धसावकेन सारिपुत्तत्थेरेन मद्दापितो, वादं आरोपेतुकामा जेतवने थेरस्स सन्तिकं गच्छथाति वदेय्याथा’’ति आह. ते थेरस्स वचनं सुत्वा जम्बुधजं मद्दित्वा छड्डेसुं. थेरो पिण्डाय चरित्वा विहारं गतो. परिब्बाजिकापि गामतो निक्खमित्वा, ‘‘अम्हाकं धजो केन मद्दापितो’’ति पुच्छिंसु. दारका तमत्थं आरोचेसुं. परिब्बाजिका पुन गामं पविसित्वा एकेकं वीथिं गहेत्वा, – ‘‘बुद्धसावको किर सारिपुत्तो नाम अम्हेहि सद्धिं वादं करिस्सति, सोतुकामा निक्खमथा’’ति आरोचेसुं. महाजनो निक्खमि, तेन सद्धिं परिब्बाजिका जेतवनं अगमिंसु.

थेरो – ‘‘अम्हाकं वसनट्ठाने मातुगामस्स आगमनं नाम अफासुक’’न्ति विहारमज्झे निसीदि. परिब्बाजिकायो गन्त्वा थेरं पुच्छिंसु – ‘‘तुम्हेहि अम्हाकं धजो मद्दापितो’’ति? आम, मया मद्दापितोति. मयं तुम्हेहि सद्धिं वादं करिस्सामाति. साधु करोथ, कस्स पुच्छा कस्स विस्सज्जनं होतूति? पुच्छा नाम अम्हाकं पत्ता, तुम्हे पन मातुगामा नाम पठमं पुच्छथाति आह. ता चतस्सोपि चतूसु दिसासु ठत्वा मातापितूनं सन्तिके उग्गहितं वादसहस्सं पुच्छिंसु. थेरो खग्गेन कुमुदनाळं छिन्दन्तो विय पुच्छितं पुच्छितं निज्जटं निग्गण्ठिं कत्वा कथेसि, कथेत्वा पुन पुच्छथाति आह. एत्तकमेव, भन्ते, मयं जानामाति. थेरो आह – ‘‘तुम्हेहि वादसहस्सं पुच्छितं मया कथितं, अहं पन एकं येव पञ्हं पुच्छिस्सामि, तं तुम्हे कथेथा’’ति. ता थेरस्स विसयं दिस्वा, ‘‘पुच्छथ, भन्ते, ब्याकरिस्सामा’’ति वत्तुं नासक्खिंसु. ‘‘वद, भन्ते, जानमाना ब्याकरिस्सामा’’ति पुन आहंसु.

थेरो अयं पन कुलपुत्ते पब्बाजेत्वा पठमं सिक्खापेतब्बपञ्होति वत्वा, – ‘‘एकं नाम कि’’न्ति पुच्छि. ता नेव अन्तं, न कोटिं अद्दसंसु. थेरो कथेथाति आह. न पस्साम, भन्तेति. तुम्हेहि वादसहस्सं पुच्छितं मया कथितं, मय्हं तुम्हे एकं पञ्हम्पि कथेतुं न सक्कोथ, एवं सन्ते कस्स जयो कस्स पराजयोति? तुम्हाकं, भन्ते, जयो, अम्हाकं पराजयोति. इदानि किं करिस्सथाति? ता मातापितूहि वुत्तवचनं आरोचेत्वा, ‘‘तुम्हाकं सन्तिके पब्बजिस्सामा’’ति आहंसु. तुम्हे मातुगामा नाम अम्हाकं सन्तिके पब्बजितुं न वट्टति, अम्हाकं पन सासनं गहेत्वा भिक्खुनिउपस्सयं गन्त्वा पब्बजथाति. ता साधूति थेरस्स सासनं गहेत्वा भिक्खुनिसङ्घस्स सन्तिकं गन्त्वा पब्बजिंसु. पब्बजिता च पन अप्पमत्ता आतापिनियो हुत्वा नचिरस्सेव अरहत्तं पापुणिंसु.

अयं सच्चको तासं चतुन्नम्पि कनिट्ठभातिको. ताहि चतूहिपि उत्तरितरपञ्ञो, मातापितूनम्पि सन्तिका वादसहस्सं, ततो बहुतरञ्च बाहिरसमयं उग्गहेत्वा कत्थचि अगन्त्वा राजदारके सिप्पं सिक्खापेन्तो तत्थेव वेसालियं वसति, पञ्ञाय अतिपूरितत्ता कुच्छि मे भिज्जेय्याति भीतो अयपट्टेन कुच्छिं परिक्खिपित्वा चरति, इमं सन्धाय वुत्तं ‘‘सच्चको निगण्ठपुत्तो’’ति.

भस्सप्पवादकोति भस्सं वुच्चति कथामग्गो, तं पवदति कथेतीति भस्सप्पवादको. पण्डितवादोति अहं पण्डितोति एवं वादो. साधुसम्मतो बहुजनस्साति यं यं नक्खत्तचारेन आदिसति, तं तं येभुय्येन तथेव होति, तस्मा अयं साधुलद्धिको भद्दकोति एवं सम्मतो महाजनस्स. वादेन वादं समारद्धोति कथामग्गेन दोसं आरोपितो. आयस्मा अस्सजीति सारिपुत्तत्थेरस्स आचरियो अस्सजित्थेरो. जङ्घाविहारं अनुचङ्कममानोति ततो ततो लिच्छविराजगेहतो तं तं गेहं गमनत्थाय अनुचङ्कममानो. येनायस्मा अस्सजि तेनुपसङ्कमीति कस्मा उपसङ्कमि? समयजाननत्थं.

एवं किरस्स अहोसि – ‘‘अहं ‘समणस्स गोतमस्स वादं आरोपेस्सामी’ति आहिण्डामि, ‘समयं पनस्स न जानामी’ति न आरोपेसिं. परस्स हि समयं ञत्वा आरोपितो वादो स्वारोपितो नाम होति. अयं पन समणस्स गोतमस्स सावको पञ्ञायति अस्सजित्थेरो; सो अत्तनो सत्थु समये कोविदो, एताहं पुच्छित्वा कथं पतिट्ठापेत्वा समणस्स गोतमस्स वादं आरोपेस्सामी’’ति. तस्मा उपसङ्कमि. विनेतीति कथं विनेति, कथं सिक्खापेतीति पुच्छति. थेरो पन यस्मा दुक्खन्ति वुत्ते उपारम्भस्स ओकासो होति, मग्गफलानिपि परियायेन दुक्खन्ति आगतानि, अयञ्च दुक्खन्ति वुत्ते थेरं पुच्छेय्य – ‘‘भो अस्सजि, किमत्थं तुम्हे पब्बजिता’’ति. ततो ‘‘मग्गफलत्थाया’’ति वुत्ते, – ‘‘नयिदं, भो अस्सजि, तुम्हाकं सासनं नाम, महाआघातनं नामेतं, निरयुस्सदो नामेस, नत्थि तुम्हाकं सुखासा, उट्ठायुट्ठाय दुक्खमेव जिरापेन्ता आहिण्डथा’’ति दोसं आरोपेय्य, तस्मा परवादिस्स परियायकथं कातुं न वट्टति. यथा एस अप्पतिट्ठो होति, एवमस्स निप्परियायकथं कथेस्सामीति चिन्तेत्वा, ‘‘रूपं, भिक्खवे, अनिच्च’’न्ति इमं अनिच्चानत्तवसेनेव कथं कथेति. दुस्सुतन्ति सोतुं अयुत्तं.

३५४. सन्थागारेति राजकुलानं अत्थानुसासनसन्थागारसालायं. येन ते लिच्छवी तेनुपसङ्कमीति एवं किरस्स अहोसि – ‘‘अहं पुब्बे समयं अजाननभावेन समणस्स गोतमस्स वादं न आरोपेसिं, इदानि पनस्स महासावकेन कथितं समयं जानामि, इमे च मम अन्तेवासिका पञ्चसता लिच्छवी सन्निपतिता. एतेहि सद्धिं गन्त्वा समणस्स गोतमस्स वादं आरोपेस्सामी’’ति तस्मा उपसङ्कमि. ञातञ्ञतरेनाति ञातेसु अभिञ्ञातेसु पञ्चवग्गियत्थेरेसु अञ्ञतरेन. पतिट्ठितन्ति यथा तेन पतिट्ठितं. सचे एवं पतिट्ठिस्सति, अथ पन अञ्ञदेव वक्खति, तत्र मया किं सक्का कातुन्ति इदानेव पिट्ठिं परिवत्तेन्तो आह. आकड्ढेय्याति अत्तनो अभिमुखं कड्ढेय्य. परिकड्ढेय्याति पुरतो पटिपणामेय्य. सम्परिकड्ढेय्याति कालेन आकड्ढेय्य, कालेन परिकड्ढेय्य. सोण्डिकाकिलञ्जन्ति सुराघरे पिट्ठकिलञ्जं. सोण्डिकाधुत्तोति सुराधुत्तो. वालं कण्णे गहेत्वाति सुरापरिस्सावनत्थविकं धोवितुकामो कसटनिधुननत्थं उभोसु कण्णेसु गहेत्वा. ओधुनेय्याति अधोमुखं कत्वा धुनेय्य. निद्धुनेय्याति उद्धंमुखं कत्वा धुनेय्य. निप्फोटेय्याति पुनप्पुनं पप्फोटेय्य. साणधोविकं नामाति एत्थ मनुस्सा साणसाटककरणत्थं साणवाके गहेत्वा मुट्ठिं मुट्ठिं बन्धित्वा उदके पक्खिपन्ति. ते ततियदिवसे सुट्ठु किलिन्ना होन्ति. अथ मनुस्सा अम्बिलयागुसुरादीनि आदाय तत्थ गन्त्वा साणमुट्ठिं गहेत्वा, दक्खिणतो वामतो सम्मुखा चाति तीसु फलकेसु सकिं दक्खिणफलके, सकिं वामफलके, सकिं सम्मुखफलके पहरन्ता अम्बिलयागुसुरादीनि भुञ्जन्ता पिवन्ता खादन्ता धोवन्ति. महन्ता कीळा होति. रञ्ञो नागो तं कीळं दिस्वा गम्भीरं उदकं अनुपविसित्वा सोण्डाय उदकं गहेत्वा सकिं कुम्भे सकिं पिट्ठियं सकिं उभोसु पस्सेसु सकिं अन्तरसत्थियं पक्खिपन्तो कीळित्थ. तदुपादाय तं कीळितजातं साणधोविकं नाम वुच्चति, तं सन्धाय वुत्तं – ‘‘साणधोविकं नाम कीळितजातं कीळती’’ति. किं सो भवमानो सच्चको निगण्ठपुत्तो, यो भगवतो वादं आरोपेस्सतीति यो सच्चको निगण्ठपुत्तो भगवतो वादं आरोपेस्सति, सो किं भवमानो किं यक्खो भवमानो उदाहु इन्दो, उदाहु ब्रह्मा भवमानो भगवतो वादं आरोपेस्सति? न हि सक्का पकतिमनुस्सेन भगवतो वादं आरोपेतुन्ति अयमेत्थ अधिप्पायो.

३५५. तेन खो पन समयेनाति यस्मिं समये सच्चको आरामं पाविसि, तस्मिं. किस्मिं पन समये पाविसीति? महामज्झन्हिकसमये. कस्मा पन तस्मिं समये चङ्कमन्तीति? पणीतभोजनपच्चयस्स थिनमिद्धस्स विनोदनत्थं. दिवापधानिका वा ते. तादिसानञ्हि पच्छाभत्तं चङ्कमित्वा न्हत्वा सरीरं उतुं गण्हापेत्वा निसज्ज समणधम्मं करोन्तानं चित्तं एकग्गं होति. येन ते भिक्खूति सो किर कुहिं समणो गोतमोति परिवेणतो परिवेणं गन्त्वा पुच्छित्वा पविसिस्सामीति विलोकेन्तो अरञ्ञे हत्थी विय चङ्कमे चङ्कममाने पंसुकूलिकभिक्खू दिस्वा तेसं सन्तिकं अगमासि. तं सन्धाय, ‘‘येन ते भिक्खू’’तिआदि वुत्तं. कहं नु खो, भोति कतरस्मिं आवासे वा मण्डपे वाति अत्थो. एस, अग्गिवेस्सन, भगवाति तदा किर भगवा पच्चूसकाले महाकरुणा समापत्तिं समापज्जित्वा दससहस्सचक्कवाळे सब्बञ्ञुतञ्ञाणजालं पत्थरित्वा बोधनेय्यसत्तं ओलोकेन्तो अद्दस – ‘‘स्वे सच्चको निगण्ठपुत्तो महतिं लिच्छविपरिसं गहेत्वा मम वादं आरोपेतुकामो आगमिस्सती’’ति. तस्मा पातोव सरीरपटिजग्गनं कत्वा भिक्खुसङ्घपरिवारो वेसालियं पिण्डाय चरित्वा पिण्डपातपटिक्कन्तो महापरिसाय निसीदितुं सुखट्ठाने निसीदिस्सामीति गन्धकुटिं अपविसित्वा महावने अञ्ञतरस्मिं रुक्खमूले दिवाविहारं निसीदि. ते भिक्खू भगवतो वत्तं दस्सेत्वा आगता, सच्चकेन पुट्ठा दूरे निसिन्नं भगवन्तं दस्सेन्ता, ‘‘एस अग्गिवेस्सन भगवा’’ति आहंसु.

महतिया लिच्छविपरिसाय सद्धिन्ति हेट्ठा पञ्चमत्तेहि लिच्छविसतेहि परिवुतोति वुत्तं. ते एतस्स अन्तेवासिकायेव, अन्तोवेसालियं पन सच्चको पञ्चमत्तानि लिच्छविराजसतानि गहेत्वा, ‘‘वादत्थिको भगवन्तं उपसङ्कमन्तो’’ति सुत्वा द्विन्नं पण्डितानं कथासल्लापं सोस्सामाति येभुय्येन मनुस्सा निक्खन्ता, एवं सा परिसा महती अपरिच्छिन्नगणना अहोसि. तं सन्धायेतं वुत्तं. अञ्जलिं पणामेत्वाति एते उभतोपक्खिका, ते एवं चिन्तेसुं – ‘‘सचे नो मिच्छादिट्ठिका चोदेस्सन्ति, ‘कस्मा तुम्हे समणं गोतमं वन्दित्था’ति, तेसं, ‘किं अञ्जलिमत्तकरणेनपि वन्दितं होती’ति वक्खाम. सचे नो सम्मादिट्ठिका चोदेस्सन्ति, ‘कस्मा भगवन्तं न वन्दित्था’ति, ‘किं सीसेन भूमिं पहरन्तेनेव वन्दितं होति, ननु अञ्जलिकम्मम्पि वन्दना एवा’ति वक्खामा’’ति. नाम गोत्तन्ति, भो गोतम, अहं असुकस्स पुत्तो दत्तो नाम मित्तो नाम इध आगतोति वदन्ता नामं सावेन्ति नाम. भो गोतम, अहं वासिट्ठो नाम कच्चानो नाम इध आगतोति वदन्ता गोत्तं सावेन्ति नाम. एते किर दलिद्दा जिण्णकुलपुत्ता परिसमज्झे नामगोत्तवसेन पाकटा भविस्सामाति एवं अकंसु. ये पन तुण्हीभूता निसीदिंसु, ते केराटिका चेव अन्धबाला च. तत्थ केराटिका, ‘‘एकं द्वे कथासल्लापे करोन्तो विस्सासिको होति, अथ विस्सासे सति एकं द्वे भिक्खा अदातुं न युत्त’’न्ति ततो अत्तानं मोचेन्ता तुण्ही निसीदन्ति. अन्धबाला अञ्ञाणतायेव अवक्खित्तमत्तिकापिण्डो विय यत्थ कत्थचि तुण्हीभूता निसीदन्ति.

३५६. किञ्चिदेव देसन्ति कञ्चि ओकासं किञ्चि कारणं, अथस्स भगवा पञ्हपुच्छने उस्साहं जनेन्तो आह – पुच्छ, अग्गिवेस्सन, यदाकङ्खसीति. तस्सत्थो – ‘‘पुच्छ यदि आकङ्खसि, न मे पञ्हविस्सज्जने भारो अत्थि’’. अथ वा ‘‘पुच्छ यं आकङ्खसि, सब्बं ते विस्सज्जेस्सामी’’ति सब्बञ्ञुपवारणं पवारेसि असाधारणं पच्चेकबुद्धअग्गसावमहासावकेहि. ते हि यदाकङ्खसीति न वदन्ति, सुत्वा वेदिस्सामाति वदन्ति. बुद्धा पन ‘‘पुच्छावुसो, यदाकङ्खसी’’ति (सं. नि. १.२३७) वा, ‘‘पुच्छ, महाराज, यदाकङ्खसी’’ति (दी. नि. १.१६२) वा,

‘‘पुच्छ वासव मं पञ्हं, यं किञ्चि मनसिच्छसि;

तस्स तस्सेव पञ्हस्स, अहं अन्तं करोमि ते’’ इति. (दी. नि. २.३५६) वा,

‘‘तेन हि त्वं, भिक्खु, सके आसने निसीदित्वा पुच्छ यदाकङ्खसी’’ति (म. नि. ३.८५) वा,

‘‘बावरिस्स च तुय्हं वा, सब्बेसं सब्बसंसयं;

कतावकासा पुच्छव्हो, यं किञ्चि मनसिच्छथा’’ति. (सु. नि. १०३६) वा,

‘‘पुच्छ मं सभिय पञ्हं, यं किञ्चि मनसिच्छसि;

तस्स तस्सेव पञ्हस्स, अहं अन्तं करोमि ते’’ इति. (सु. नि. ५१७) वा –

तेसं तेसं यक्खनरिन्ददेवसमणब्राह्मणपरिब्बाजकानं सब्बञ्ञुपवारणं पवारेन्ति. अनच्छरियञ्चेतं, यं भगवा बुद्धभूमिं पत्वा एतं पवारणं पवारेय्य. यो बोधिसत्तभूमियं पदेसञाणेपि ठितो

‘‘कोण्डञ्ञ पञ्हानि वियाकरोहि,

याचन्ति तं इसयो साधुरूपा;

कोण्डञ्ञ एसो मनुजेसु धम्मो,

यं वुद्धमागच्छति एस भारो’’ति. (जा. २.१७.६०) –

एवं सक्कादीनं अत्थाय इसीहि याचितो

‘‘कतावकासा पुच्छन्तु भोन्तो,

यं किञ्चि पञ्हं मनसाभिपत्थितं;

अहञ्हि तं तं वो वियाकरिस्सं,

ञत्वा सयं लोकमिमं परञ्चा’’ति. (जा. २.१७.६१);

एवं सरभङ्गकाले, सम्भवजातके च सकलजम्बुदीपं तिक्खत्तुं विचरित्वा पञ्हानं अन्तकरं अदिस्वा सुचिरतेन ब्राह्मणेन पञ्हं पुट्ठो ओकासे कारिते, जातिया सत्तवस्सो रथिकायं पंसुं कीळन्तो पल्लङ्कं आभुजित्वा अन्तरवीथियं निसिन्नोव –

‘‘तग्घ ते अहमक्खिस्सं, यथापि कुसलो तथा;

राजा च खो तं जानाति, यदि काहति वा न वा’’ति. (जा. १.१६.१७२) –

सब्बञ्ञुपवारणं पवारेसि.

एवं भगवता सब्बञ्ञुपवारणाय पवारिताय अत्तमनो पञ्हं पुच्छन्तो, ‘‘कथं पन, भो गोतमा’’तिआदिमाह.

अथस्स भगवा, ‘‘पस्सथ, भो, अञ्ञं सावकेन कथितं, अञ्ञं सत्था कथेति, ननु मया पटिकच्चेव वुत्तं, ‘सचे तथा पतिट्ठिस्सति, यथास्स सावकेन पतिट्ठितं, एवाहं वादं आरोपेस्सामी’ति. अयं पन अञ्ञमेव कथेति, तत्थ किं मया सक्का कातु’’न्ति एवं निगण्ठस्स वचनोकासो मा होतूति हेट्ठा अस्सजित्थेरेन कथितनियामेनेव कथेन्तो, एवं खो अहं, अग्गिवेस्सनातिआदिमाह. उपमा मं, भो गोतम, पटिभातीति, भो गोतम, मय्हं एका उपमा उपट्ठाति, आहरामि तं उपमन्ति वदति. पटिभातु तं, अग्गिवेस्सनाति उपट्ठातु ते, अग्गिवेस्सन, आहर तं उपमं विसत्थोति भगवा अवोच. बलकरणीयाति बाहुबलेन कत्तब्बा कसिवाणिज्जादिका कम्मन्ता. रूपत्तायं पुरिसपुग्गलोति रूपं अत्ता अस्साति रूपत्ता, रूपं अत्ताति गहेत्वा ठितपुग्गलं दीपेति. रूपे पतिट्ठायाति तस्मिं अत्ताति गहितरूपे पतिट्ठहित्वा. पुञ्ञं वा अपुञ्ञं वा पसवतीति कुसलं वा अकुसलं वा पटिलभति. वेदनत्तादीसुपि एसेव नयो. इमिना किं दीपेति? इमे पञ्चक्खन्धा इमेसं सत्तानं पथवी विय पतिट्ठा, ते इमेसु पञ्चसु खन्धेसु पतिट्ठाय कुसलाकुसलकम्मं नाम आयूहन्ति. तुम्हे एवरूपं विज्जमानमेव अत्तानं पटिसेधेन्तो पञ्चक्खन्धा अनत्ताति दीपेथाति अतिविय सकारणं कत्वा उपमं आहरि. इमिना च निगण्ठेन आहटओपम्मं नियतमेव, सब्बञ्ञुबुद्धतो अञ्ञो तस्स कथं छिन्दित्वा वादे दोसं दातुं समत्थो नाम नत्थि. दुविधा हि पुग्गला बुद्धवेनेय्या च सावकवेनेय्या च. सावकवेनेय्ये सावकापि विनेन्ति बुद्धापि. बुद्धवेनेय्ये पन सावका विनेतुं न सक्कोन्ति, बुद्धाव विनेन्ति. अयम्पि निगण्ठो बुद्धवेनेय्यो, तस्मा एतस्स वादं छिन्दित्वा अञ्ञो दोसं दातुं समत्थो नाम नत्थि. तेनस्स भगवा सयमेव वादे दोसदस्सनत्थं ननु त्वं, अग्गिवेस्सनातिआदिमाह.

अथ निगण्ठो चिन्तेसि – ‘‘अतिविय समणो गोतमो मम वादं पतिट्ठपेति, सचे उपरि कोचि दोसो भविस्सति, ममं एककंयेव निग्गण्हिस्सति. हन्दाहं इमं वादं महाजनस्सापि मत्थके पक्खिपामी’’ति, तस्मा एवमाह – अहम्पि, भो गोतम, एवं वदामि रूपं मे अत्ता…पे… विञ्ञाणं मे अत्ताति, अयञ्च महती जनताति. भगवा पन निगण्ठतो सतगुणेनपि सहस्सगुणेनपि सतसहस्सगुणेनपि वादीवरतरो, तस्मा चिन्तेसि – ‘‘अयं निगण्ठो अत्तानं मोचेत्वा महाजनस्स मत्थके वादं पक्खिपति, नास्स अत्तानं मोचेतुं दस्सामि, महाजनतो निवत्तेत्वा एककंयेव नं निग्गण्हिस्सामी’’ति. अथ नं किञ्हि ते, अग्गिवेस्सनातिआदिमाह. तस्सत्थो – नायं जनता मम वादं आरोपेतुं आगता, त्वंयेव सकलं वेसालिं संवट्टित्वा मम वादं आरोपेतुं आगतो, तस्मा त्वं सकमेव वादं निवेठेहि, मा महाजनस्स मत्थके पक्खिपसीति. सो पटिजानन्तो अहञ्हि, भो गोतमातिआदिमाह.

३५७. इति भगवा निगण्ठस्स वादं पतिट्ठपेत्वा, तेन हि, अग्गिवेस्सनाति पुच्छं आरभि. तत्थ तेन हीति कारणत्थे निपातो. यस्मा त्वं पञ्चक्खन्धे अत्ततो पटिजानासि, तस्माति अत्थो. सकस्मिं विजितेति अत्तनो रट्ठे. घातेतायं वा घातेतुन्ति घातारहं घातेतब्बयुत्तकं घातेतुं. जापेतायं वा जापेतुन्ति धनजानिरहं जापेतब्बयुत्तं जापेतुं जिण्णधनं कातुं. पब्बाजेतायं वा पब्बाजेतुन्ति सकरट्ठतो पब्बाजनारहं पब्बाजेतुं, नीहरितुं. वत्तितुञ्च अरहतीति वत्तति चेव वत्तितुञ्च अरहति. वत्तितुं युत्तोति दीपेति. इति निगण्ठो अत्तनो वादभेदनत्थं आहटकारणमेव अत्तनो मारणत्थाय आवुधं तिखिणं करोन्तो विय विसेसेत्वा दीपेति, यथा तं बालो. एवं मे रूपं होतूति मम रूपं एवंविधं होतु, पासादिकं अभिरूपं अलङ्कतप्पटियत्तं सुवण्णतोरणं विय सुसज्जितचित्तपटो विय च मनापदस्सनन्ति. एवं मे रूपं मा अहोसीति मम रूपं एवंविधं मा होतु, दुब्बण्णं दुस्सण्ठितं वलितपलितं तिलकसमाकिण्णन्ति.

तुण्ही अहोसीति निगण्ठो इमस्मिं ठाने विरद्धभावं ञत्वा, ‘‘समणो गोतमो मम वादं भिन्दनत्थाय कारणं आहरि, अहं बालताय तमेव विसेसेत्वा दीपेसिं, इदानि नट्ठोम्हि, सचे वत्ततीति वक्खामि, इमे राजानो उट्ठहित्वा, ‘अग्गिवेस्सन, त्वं मम रूपे वसो वत्ततीति वदसि, यदि ते रूपे वसो वत्तति, कस्मा त्वं यथा इमे लिच्छविराजानो तावतिंसदेवसदिसेहि अत्तभावेहि विरोचन्ति अभिरूपा पासादिका, एवं न विरोचसी’ति. सचे न वत्ततीति वक्खामि, समणो गोतमो उट्ठहित्वा, ‘अग्गिवेस्सन, त्वं पुब्बे वत्तति मे रूपस्मिं वसोति वत्वा इदानि पटिक्खिपसी’ति वादं आरोपेस्सति. इति वत्ततीति वुत्तेपि एको दोसो, न वत्ततीति वुत्तेपि एको दोसो’’ति तुण्ही अहोसि. दुतियम्पि भगवा पुच्छि, दुतियम्पि तुण्ही अहोसि. यस्मा पन यावततियं भगवता पुच्छिते अब्याकरोन्तस्स सत्तधा मुद्धा फलति, बुद्धा च नाम सत्तानंयेव अत्थाय कप्पसतसहस्साधिकानि चत्तारि असङ्ख्येय्यानि पारमीनं पूरितत्ता सत्तेसु बलवअनुद्दया होन्ति. तस्मा यावततियं अपुच्छित्वा अथ खो भगवा सच्चकं निगण्ठपुत्तं एतदवोच – एतं ‘‘ब्याकरोही दानी’’तिआदिवचनं अवोच.

तत्थ सहधम्मिकन्ति सहेतुकं सकारणं. वजिरं पाणिम्हि अस्साति वजिरपाणि. यक्खोति न यो वा सो वा यक्खो, सक्को देवराजाति वेदितब्बो. आदित्तन्ति अग्गिवण्णं. सम्पज्जलितन्ति सुट्ठु पज्जलितं. सजोतिभूतन्ति समन्ततो जोतिभूतं, एकग्गिजालभूतन्ति अत्थो. ठितो होतीति महन्तं सीसं, कन्दलमकुलसदिसा दाठा, भयानकानि अक्खिनासादीनीति एवं विरूपरूपं मापेत्वा ठितो. कस्मा पनेस आगतोति? दिट्ठिविस्सज्जापनत्थं. अपिच, ‘‘अहञ्चेव खो पन धम्मं देसेय्यं, परे च मे न आजानेय्यु’’न्ति एवं धम्मदेसनाय अप्पोस्सुक्कभावं आपन्ने भगवति सक्को महाब्रह्मुना सद्धिं आगन्त्वा, ‘‘भगवा धम्मं देसेथ, तुम्हाकं आणाय अवत्तमाने मयं वत्तापेस्साम, तुम्हाकं धम्मचक्कं होतु, अम्हाकं आणाचक्क’’न्ति पटिञ्ञमकासि. तस्मा ‘‘अज्ज सच्चकं तासेत्वा पञ्हं विस्सज्जापेस्सामी’’ति आगतो.

भगवा चेव पस्सति, सच्चको च निगण्ठपुत्तोति यदि हि तं अञ्ञेपि पस्सेय्युं. तं कारणं अगरु अस्स, ‘‘समणो गोतमो सच्चकं अत्तनो वादे अनोतरन्तं ञत्वा यक्खं आवाहेत्वा दस्सेसि, ततो सच्चको भयेन कथेसी’’ति वदेय्युं. तस्मा भगवा चेव पस्सति सच्चको च. तस्स तं दिस्वाव सकलसरीरतो सेदा मुच्चिंसु, अन्तोकुच्छि विपरिवत्तमाना महारवं रवि. सो ‘‘अञ्ञेपि नु खो पस्सन्ती’’ति ओलोकेन्तो कस्सचि लोमहंसमत्तम्पि न अद्दस. ततो – ‘‘इदं भयं ममेव उप्पन्नं. सचाहं यक्खोति वक्खामि, ‘किं तुय्हमेव अक्खीनि अत्थि, त्वमेव यक्खं पस्ससि, पठमं यक्खं अदिस्वा समणेन गोतमेन वादसङ्घाटे खित्तोव यक्खं पस्ससी’ति वदेय्यु’’न्ति चिन्तेत्वा – ‘‘न दानि मे इध अञ्ञं पटिसरणं अत्थि, अञ्ञत्र समणा गोतमा’’ति मञ्ञमानो, अथ खो सच्चको निगण्ठपुत्तो…पे… भगवन्तं एतदवोच. ताणं गवेसीति ताणन्ति गवेसमानो. लेणं गवेसीति लेणन्ति गवेसमानो. सरणं गवेसीति सरणन्ति गवेसमानो. एत्थ च तायति रक्खतीति ताणं. निलीयन्ति एत्थाति लेणं. सरतीति सरणं, भयं हिंसति विद्धंसेतीति अत्थो.

३५८. मनसि करित्वाति मनम्हि कत्वा पच्चवेक्खित्वा उपधारेत्वा. एवं मे वेदना होतूति कुसलाव होतु, सुखाव होतु. एवं मे सञ्ञा होतूति कुसलाव होतु, सुखाव होतु, सोमनस्ससम्पयुत्ताव होतूति. सङ्खारविञ्ञाणेसुपि एसेव नयो. मा अहोसीति एत्थ पन वुत्तविपरियायेन अत्थो वेदितब्बो. कल्लं नूति युत्तं नु. समनुपस्सितुन्ति ‘‘एतं मम एसोहमस्मि एसो मे अत्ता’’ति एवं तण्हामानदिट्ठिवसेन पस्सितुं. नो हिदं, भो गोतमाति न युत्तमेतं, भो गोतम. इति भगवा यथा नाम छेको अहितुण्डिको सप्पदट्ठविसं तेनेव सप्पेन पुन डंसापेत्वा उब्बाहेय्य, एवं तस्संयेव परिसति सच्चकं निगण्ठपुत्तं तेनेव मुखेन पञ्चक्खन्धा अनिच्चा दुक्खा अनत्ताति वदापेसि. दुक्खं अल्लीनोति इमं पञ्चक्खन्धदुक्खं तण्हादिट्ठीहि अल्लीनो. उपगतो अज्झोसितोतिपि तण्हादिट्ठिवसेनेव वेदितब्बो. दुक्खं एतं ममातिआदीसु पञ्चक्खन्धदुक्खं तण्हामानदिट्ठिवसेन समनुपस्सतीति अत्थो. परिजानेय्याति अनिच्चं दुक्खं अनत्ताति तीरणपरिञ्ञाय परितो जानेय्य. परिक्खेपेत्वाति खयं वयं अनुप्पादं उपनेत्वा.

३५९. नवन्ति तरुणं. अकुक्कुकजातन्ति पुप्फग्गहणकाले अन्तो अङ्गुट्ठप्पमाणो एको घनदण्डको निब्बत्तति, तेन विरहितन्ति अत्थो. रित्तोति सुञ्ञो अन्तोसारविरहितो. रित्तत्ताव तुच्छो. अपरद्धोति पराजितो. भासिता खो पन तेति इदं भगवा तस्स मुखरभावं पकासेत्वा निग्गण्हन्तो आह. सो किर पुब्बे पूरणादयो छ सत्थारो उपसङ्कमित्वा पञ्हं पुच्छति. ते विस्सज्जेतुं न सक्कोन्ति. अथ नेसं परिसमज्झे महन्तं विप्पकारं आरोपेत्वा उट्ठाय जयं पवेदेन्तो गच्छति. सो सम्मासम्बुद्धम्पि तथेव विहेठेस्सामीति सञ्ञाय उपसङ्कमित्वा –

‘‘अम्भो को नाम यं रुक्खो, सिन्नपत्तो सकण्टको;

यत्थ एकप्पहारेन, उत्तमङ्गं विभिज्जित’’न्ति.

अयं खदिरं आहच्च असारकरुक्खपरिचितो मुदुतुण्डसकुणो विय सब्बञ्ञुतञ्ञाणसारं आहच्च ञाणतुण्डभेदं पत्तो सब्बञ्ञुतञ्ञाणस्स थद्धभावं अञ्ञासि. तदस्स परिसमज्झे पकासेन्तो भासिता खो पन तेतिआदिमाह. नत्थि एतरहीति उपादिन्नकसरीरे सेदो नाम नत्थीति न वत्तब्बं, एतरहि पन नत्थीति वदति. सुवण्णवण्णं कायं विवरीति न सब्बं कायं विवरि. बुद्धा नाम गण्ठिकं पटिमुञ्चित्वा पटिच्छन्नसरीरा परिसति धम्मं देसेन्ति. अथ भगवा गलवाटकसम्मुखट्ठाने चीवरं गहेत्वा चतुरङ्गुलमत्तं ओतारेसि. ओतारितमत्ते पन तस्मिं सुवण्णवण्णा रस्मियो पुञ्जपुञ्जा हुत्वा सुवण्णघटतो रत्तसुवण्णरसधारा विय, रत्तवण्णवलाहकतो विज्जुलता विय च निक्खमित्वा सुवण्णमुरजसदिसं महाखन्धं उत्तमसिरं पदक्खिणं कुरुमाना आकासे पक्खन्दिंसु. कस्मा पन भगवा एवमकासीति? महाजनस्स कङ्खाविनोदनत्थं. महाजनो हि समणो गोतमो मय्हं सेदो नत्थीति वदति, सच्चकस्स ताव निगण्ठपुत्तस्स यन्तारुळ्हस्स विय सेदा पग्घरन्ति. समणो पन गोतमो घनदुपट्टचीवरं पारुपित्वा निसिन्नो, अन्तो सेदस्स अत्थिता वा नत्थिता वा कथं सक्का ञातुन्ति कङ्खं करेय्य, तस्स कङ्खाविनोदनत्थं एवमकासि. मङ्कुभूतोति नित्तेजभूतो. पत्तक्खन्धोति पतितक्खन्धो. अप्पटिभानोति उत्तरि अप्पस्सन्तो. निसीदीति पादङ्गुट्ठकेन भूमिं कसमानो निसीदि.

३६०. दुम्मुखोति न विरूपमुखो, अभिरूपो हि सो पासादिको. नामं पनस्स एतं. अभब्बो तं पोक्खरणिं पुन ओतरितुन्ति सब्बेसं अळानं भग्गत्ता पच्छिन्नगमनो ओतरितुं अभब्बो, तत्थेव काककुललादीनं भत्तं होतीति दस्सेति. विसूकायिकानीति दिट्ठिविसूकानि. विसेवितानीति दिट्ठिसञ्चरितानि. विप्फन्दितानीति दिट्ठिविप्फन्दितानि. यदिदं वादाधिप्पायोति एत्थ यदिदन्ति निपातमत्तं; वादाधिप्पायो हुत्वा वादं आरोपेस्सामीति अज्झासयेन उपसङ्कमितुं अभब्बो; धम्मस्सवनाय पन उपसङ्कमेय्याति दस्सेति. दुम्मुखं लिच्छविपुत्तं एतदवोचाति कस्मा अवोच? दुम्मुखस्स किरस्स उपमाहरणकाले सेस लिच्छविकुमारापि चिन्तेसुं – ‘‘इमिना निगण्ठेन अम्हाकं सिप्पुग्गहणट्ठाने चिरं अवमानो कतो, अयं दानि अमित्तस्स पिट्ठिं पस्सितुं कालो. मयम्पि एकेकं उपमं आहरित्वा पाणिप्पहारेन पतितं मुग्गरेन पोथेन्तो विय तथा नं करिस्साम, यथा न पुन परिसमज्झे सीसं उक्खिपितुं सक्खिस्सती’’ति, ते ओपम्मानि करित्वा दुम्मुखस्स कथापरियोसानं आगमयमाना निसीदिंसु. सच्चको तेसं अधिप्पायं ञत्वा, इमे सब्बेव गीवं उक्खिपित्वा ओट्ठेहि चलमानेहि ठिता; सचे पच्चेका उपमा हरितुं लभिस्सन्ति, पुन मया परिसमज्झे सीसं उक्खिपितुं न सक्का भविस्सति, हन्दाहं दुम्मुखं अपसादेत्वा यथा अञ्ञस्स ओकासो न होति, एवं कथावारं पच्छिन्दित्वा समणं गोतमं पञ्हं पुच्छिस्सामीति तस्मा एतदवोच. तत्थ आगमेहीति तिट्ठ, मा पुन भणाहीति अत्थो.

३६१. तिट्ठतेसा, भो गोतमाति, भो गोतम, एसा अम्हाकञ्चेव अञ्ञेसञ्च पुथुसमणब्राह्मणानं वाचा तिट्ठतु. विलापं विलपितं मञ्ञेति एतञ्हि वचनं विलपितं विय होति, विप्पलपितमत्तं होतीति अत्थो. अथ वा तिट्ठतेसाति एत्थ कथाति आहरित्वा वत्तब्बा. वाचाविलापं विलपितं मञ्ञेति एत्थ पनिदं वाचानिच्छारणं विलपितमत्तं मञ्ञे होतीति अत्थो.

इदानि पञ्हं पुच्छन्तो कित्तावतातिआदिमाह. तत्थ वेसारज्जपत्तोति ञाणपत्तो. अपरप्पच्चयोति अपरप्पत्तियो. अथस्स भगवा पञ्हं विस्सज्जेन्तो इध, अग्गिवेस्सनातिआदिमाह, तं उत्तानत्थमेव. यस्मा पनेत्थ पस्सतीति वुत्तत्ता सेक्खभूमि दस्सिता. तस्मा उत्तरि असेक्खभूमिं पुच्छन्तो दुतियं पञ्हं पुच्छि, तम्पिस्स भगवा ब्याकासि. तत्थ दस्सनानुत्तरियेनातिआदीसु दस्सनानुत्तरियन्ति लोकियलोकुत्तरा पञ्ञा. पटिपदानुत्तरियन्ति लोकियलोकुत्तरा पटिपदा. विमुत्तानुत्तरियन्ति लोकियलोकुत्तरा विमुत्ति. सुद्धलोकुत्तरमेव वा गहेत्वा दस्सनानुत्तरियन्ति अरहत्तमग्गसम्मादिट्ठि. पटिपदानुत्तरियन्ति सेसानि मग्गङ्गानि. विमुत्तानुत्तरियन्ति अग्गफलविमुत्ति. खीणासवस्स वा निब्बानदस्सनं दस्सनानुत्तरियं नाम. मग्गङ्गानि पटिपदानुत्तरियं. अग्गफलं विमुत्तानुत्तरियन्ति वेदितब्बं. बुद्धो सो भगवाति सो भगवा सयम्पि चत्तारि सच्चानि बुद्धो. बोधायाति परेसम्पि चतुसच्चबोधाय धम्मं देसेति. दन्तोतिआदीसु दन्तोति निब्बिसेवनो. दमथायाति निब्बिसेवनत्थाय. सन्तोति सब्बकिलेसवूपसमेन सन्तो. समथायाति किलेसवूपसमाय. तिण्णोति चतुरोघतिण्णो. तरणायाति चतुरोघतरणाय. परिनिब्बुतोति किलेसपरिनिब्बानेन परिनिब्बुतो. परिनिब्बानायाति किलेसपरिनिब्बानत्थाय.

३६२. धंसीति गुणधंसका. पगब्बाति वाचापागब्बियेन समन्नागता. आसादेतब्बन्ति घट्टेतब्बं. आसज्जाति घट्टेत्वा. नत्वेव भवन्तं गोतमन्ति भवन्तं गोतमं आसज्ज कस्सचि अत्तनो वादं अनुपहतं सकलं आदाय पक्कमितुं थामो नत्थीति दस्सेति. न हि भगवा हत्थिआदयो विय कस्सचि जीवितन्तरायं करोति. अयं पन निगण्ठो इमा तिस्सो उपमा न भगवतो उक्कंसनत्थं आहरि, अत्तुक्कंसनत्थमेव आहरि. यथा हि राजा कञ्चि पच्चत्थिकं घातेत्वा एवं नाम सूरो एवं थामसम्पन्नो पुरिसो भविस्सतीति पच्चत्थिकं थोमेन्तोपि अत्तानमेव थोमेति. एवमेव सोपि सिया हि, भो गोतम, हत्थिं पभिन्नन्तिआदीहि भगवन्तं उक्कंसेन्तोपि मयमेव सूरा मयं पण्डिता मयं बहुस्सुतायेव एवं पभिन्नहत्थिं विय, जलितअग्गिक्खन्धं विय, फणकतआसीविसं विय च वादत्थिका सम्मासम्बुद्धं उपसङ्कमिम्हाति अत्तानंयेव उक्कंसेति. एवं अत्तानं उक्कंसेत्वा भगवन्तं निमन्तयमानो अधिवासेतु मेतिआदिमाह. तत्थ अधिवासेतूति सम्पटिच्छतु. स्वातनायाति यं मे तुम्हेसु कारं करोतो स्वे भविस्सति पुञ्ञञ्च पीतिपामोज्जञ्च, तदत्थाय. अधिवासेसि भगवा तुण्हीभावेनाति भगवा कायङ्गं वा वाचङ्गं वा अचोपेत्वा अब्भन्तरेयेव खन्तिं धारेन्तो तुण्हीभावेन अधिवासेसि. सच्चकस्स अनुग्गहकरणत्थं मनसाव सम्पटिच्छीति वुत्तं होति.

३६३. यमस्स पतिरूपं मञ्ञेय्याथाति ते किर लिच्छवी तस्स पञ्चथालिपाकसतानि निच्चभत्तं आहरन्ति. तदेव सन्धाय एस स्वे तुम्हे यं अस्स समणस्स गोतमस्स पतिरूपं कप्पियन्ति मञ्ञेय्याथ, तं आहरेय्याथ; समणस्स हि गोतमस्स तुम्हे परिचारका कप्पियाकप्पियं युत्तायुत्तं जानाथाति वदति. भत्ताभिहारं अभिहरिंसूति अभिहरितब्बं भत्तं अभिहरिंसु. पणीतेनाति उत्तमेन. सहत्थाति सहत्थेन. सन्तप्पेत्वाति सुट्ठु तप्पेत्वा, परिपुण्णं सुहितं यावदत्थं कत्वा. सम्पवारेत्वाति सुट्ठु पवारेत्वा, अलं अलन्ति हत्थसञ्ञाय पटिक्खिपापेत्वा. भुत्ताविन्ति भुत्तवन्तं. ओनीतपत्तपाणिन्ति पत्ततो ओनीतपाणिं, अपनीतहत्थन्ति वुत्तं होति. ‘‘ओनित्तपत्तपाणि’’न्तिपि पाठो, तस्सत्थो, ओनित्तं नानाभूतं पत्तं पाणितो अस्साति ओनित्तपत्तपाणी. तं ओनित्तपत्तपाणिं, हत्थे च पत्तञ्च धोवित्वा एकमन्ते पत्तं निक्खिपित्वा निसिन्नन्ति अत्थो. एकमन्तं निसीदीति भगवन्तं एवंभूतं ञत्वा एकस्मिं ओकासे निसीदीति अत्थो. पुञ्ञञ्चाति यं इमस्मिं दाने पुञ्ञं, आयतिं विपाकक्खन्धाति अत्थो. पुञ्ञमहीति विपाकक्खन्धानंयेव परिवारो. तं दायकानं सुखाय होतूति तं इमेसं लिच्छवीनं सुखत्थाय होतु. इदं किर सो अहं पब्बजितो नाम, पब्बजितेन च न युत्तं अत्तनो दानं निय्यातेतुन्ति तेसं निय्यातेन्तो एवमाह. अथ भगवा यस्मा लिच्छवीहि सच्चकस्स दिन्नं, न भगवतो. सच्चकेन पन भगवतो दिन्नं, तस्मा तमत्थं दीपेन्तो यं खो, अग्गिवेस्सनातिआदिमाह. इति भगवा निगण्ठस्स मतेन विनायेव अत्तनो दिन्नं दक्खिणं निगण्ठस्स निय्यातेसि, सा चस्स अनागते वासना भविस्सतीति.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

चूळसच्चकसुत्तवण्णना निट्ठिता.