१. चूळसीहनादसुत्तवण्णना
१३९. एवं मे सुतन्ति चूळसीहनादसुत्तं. यस्मा पनस्स अत्थुप्पत्तिको निक्खेपो, तस्मा तं दस्सेत्वा चस्स अनुपुब्बपदवण्णनं करिस्साम. कतराय पनिदं अत्थुप्पत्तिया निक्खित्तन्ति? लाभसक्कारपच्चया तित्थियपरिदेविते. भगवतो किर धम्मदायादसुत्ते वुत्तनयेन महालाभसक्कारो उप्पज्जि. चतुप्पमाणिको हि अयं लोकसन्निवासो, रूपप्पमाणो रूपप्पसन्नो, घोसप्पमाणो घोसप्पसन्नो, लूखप्पमाणो लूखप्पसन्नो, धम्मप्पमाणो धम्मप्पसन्नोति इमेसं पुग्गलानं वसेन चतुधा ठितो.
तेसं इदं नानाकरणं – कतमो च पुग्गलो रूपप्पमाणो रूपप्पसन्नो? इधेकच्चो पुग्गलो आरोहं वा पस्सित्वा परिणाहं वा पस्सित्वा सण्ठानं वा पस्सित्वा पारिपूरिं वा पस्सित्वा तत्थ पमाणं गहेत्वा पसादं जनेति, अयं वुच्चति पुग्गलो रूपप्पमाणो रूपप्पसन्नो.
कतमो च पुग्गलो घोसप्पमाणो घोसप्पसन्नो? इधेकच्चो पुग्गलो परवण्णनाय परथोमनाय परपसंसनाय परवण्णहारिकाय, तत्थ पमाणं गहेत्वा पसादं जनेति, अयं वुच्चति पुग्गलो घोसप्पमाणो घोसप्पसन्नो.
कतमो च पुग्गलो लूखप्पमाणो लूखप्पसन्नो? इधेकच्चो पुग्गलो चीवरलूखं वा पस्सित्वा पत्तलूखं वा पस्सित्वा, सेनासनलूखं वा पस्सित्वा विविधं वा दुक्करकारिकं पस्सित्वा तत्थ पमाणं गहेत्वा पसादं जनेति, अयं वुच्चति पुग्गलो लूखप्पमाणो लूखप्पसन्नो.
कतमो च पुग्गलो धम्मप्पमाणो धम्मप्पसन्नो? इधेकच्चो पुग्गलो सीलं वा पस्सित्वा समाधिं वा पस्सित्वा पञ्ञं वा पस्सित्वा तत्थ पमाणं गहेत्वा पसादं जनेति, अयं वुच्चति पुग्गलो धम्मप्पमाणो धम्मप्पसन्नोति.
इमेसु चतूसु पुग्गलेसु रूपप्पमाणोपि भगवतो आरोहपरिणाहसण्ठानपारिपूरिवण्णपोक्खरतं, असीतिअनुब्यञ्जनप्पटिमण्डितत्ता नानारतनविचित्तमिव सुवण्णमहापटं, द्वत्तिंसमहापुरिसलक्खणसमाकिण्णताय तारागणसमुज्जलं विय गगनतलं सब्बफालिफुल्लं विय च योजनसतुब्बेधं पारिच्छत्तकं अट्ठारसरतनुब्बेधं ब्यामप्पभापरिक्खेपं सस्सिरिकं अनोपमसरीरं दिस्वा सम्मासम्बुद्धेयेव पसीदति.
घोसप्पमाणोपि, भगवता कप्पसतसहस्साधिकानि चत्तारि असङ्ख्येय्यानि दस पारमियो दस उपपारमियो दस परमत्थपारमियो पूरिता अङ्गपरिच्चागो पुत्तदारपरिच्चागो, रज्जपरिच्चागो अत्तपरिच्चागो नयनपरिच्चागो च कतोतिआदिना नयेन पवत्तं घोसं सुत्वा सम्मासम्बुद्धेयेव पसीदति.
लूखप्पमाणोपि भगवतो चीवरलूखं दिस्वा ‘‘सचे भगवा अगारं अज्झावसिस्स, कासिकवत्थमेव अधारयिस्स. पब्बजित्वा पनानेन साणपंसुकूलचीवरेन सन्तुस्समानेन भारियं कत’’न्ति सम्मासम्बुद्धेयेव पसीदति. पत्तलूखम्पि दिस्वा – ‘‘इमिना अगारं अज्झावसन्तेन रत्तवरसुवण्णभाजनेसु चक्कवत्तिभोजनारहं सुगन्धसालिभोजनं परिभुत्तं, पब्बजित्वा पन पासाणमयं पत्तं आदाय उच्चनीचकुलद्वारेसु सपदानं पिण्डाय चरित्वा लद्धपिण्डियालोपेन सन्तुस्समानो भारियं करोती’’ति सम्मासम्बुद्धेयेव पसीदति. सेनासनलूखं दिस्वापि – ‘‘अयं अगारं अज्झावसन्तो तिण्णं उतूनं अनुच्छविकेसु तीसु पासादेसु तिविधनाटकपरिवारो दिब्बसम्पत्तिं विय रज्जसिरिं अनुभवित्वा इदानि पब्बज्जूपगतो रुक्खमूलसेनासनादीसु दारुफलकसिलापट्टपीठमञ्चकादीहि सन्तुस्समानो भारियं करोती’’ति सम्मासम्बुद्धेयेव पसीदति. दुक्करकारिकमस्स दिस्वापि – ‘‘छब्बस्सानि नाम मुग्गयूसकुलत्थयूसहरेणुयूसादीनं पसटमत्तेन यापेस्सति, अप्पाणकं झानं झायिस्सति, सरीरे च जीविते च अनपेक्खो विहरिस्सति, अहो दुक्करकारको भगवा’’ति सम्मासम्बुद्धेयेव पसीदति.
धम्मप्पमाणोपि भगवतो सीलगुणं समाधिगुणं पञ्ञागुणं झानविमोक्खसमाधिसमापत्तिसम्पदं अभिञ्ञापारिपूरिं यमकपाटिहारियं देवोरोहणं पाथिकपुत्तदमनादीनि च अनेकानि अच्छरियानि दिस्वा सम्मासम्बुद्धेयेव पसीदति, ते एवं पसन्ना भगवतो महन्तं लाभसक्कारं अभिहरन्ति. तित्थियानं पन बावेरुजातके काकस्स विय लाभसक्कारो परिहायित्थ. यथाह –
‘‘अदस्सनेन मोरस्स, सिखिनो मञ्जुभाणिनो;
काकं तत्थ अपूजेसुं, मंसेन च फलेन च.
यदा च सरसम्पन्नो, मोरो बावेरुमागमा;
अथ लाभो च सक्कारो, वायसस्स अहायथ.
याव नुप्पज्जति बुद्धो, धम्मराजा पभङ्करो;
ताव अञ्ञे अपूजेसुं, पुथू समणब्राह्मणे.
यदा च सरसम्पन्नो, बुद्धो धम्ममदेसयि;
अथ लाभो च सक्कारो, तित्थियानं अहायथा’’ति. (जा. १.४.१५३-१५६);
ते एवं पहीनलाभसक्कारा रत्तिं एकद्वङ्गुलमत्तं ओभासेत्वापि सूरियुग्गमने खज्जोपनका विय हतप्पभा अहेसुं.
यथा हि खज्जोपनका, काळपक्खम्हि रत्तिया;
निदस्सयन्ति ओभासं, एतेसं विसयो हि सो.
यदा च रस्मिसम्पन्नो, अब्भुदेति पभङ्करो;
अथ खज्जुपसङ्घानं, पभा अन्तरधायति.
एवं खज्जुपसदिसा, तित्थियापि पुथू इध;
काळपक्खूपमे लोके, दीपयन्ति सकं गुणं.
यदा च बुद्धो लोकस्मिं, उदेति अमितप्पभो;
निप्पभा तित्थिया होन्ति, सूरिये खज्जुपका यथाति.
ते एवं निप्पभा हुत्वा कच्छुपिळकादीहि किण्णसरीरा परमपारिजुञ्ञपत्ता येन बुद्धो येन धम्मो येन सङ्घो येन च महाजनस्स सन्निपातो, तेन तेन गन्त्वा अन्तरवीथियम्पि सिङ्घाटकेपि चतुक्केपि सभायम्पि ठत्वा परिदेवन्ति –
‘‘किं भो समणोयेव गोतमो समणो, मयं अस्समणा; समणस्सेव गोतमस्स सावका समणा, अम्हाकं सावका अस्समणा? समणस्सेव गोतमस्स सावकानञ्चस्स दिन्नं महप्फलं, न अम्हाकं, सावकानञ्च नो दिन्नं महप्फलं? ननु समणोपि गोतमो समणो, मयम्पि समणा. समणस्सपि गोतमस्स सावका समणा, अम्हाकम्पि सावका समणा. समणस्सपि गोतमस्स सावकानञ्चस्स दिन्नं महप्फलं, अम्हाकम्पि सावकानञ्च नो दिन्नं महप्फलञ्चेव? समणस्सपि गोतमस्स सावकानञ्चस्स देथ करोथ, अम्हाकम्पि सावकानञ्च नो देथ सक्करोथ? ननु समणो गोतमो पुरिमानि दिवसानि उप्पन्नो, मयं पन लोके उप्पज्जमानेयेव उप्पन्ना’’ति.
एवं नानप्पकारं विरवन्ति. अथ भिक्खू भिक्खुनियो उपासका उपासिकायोति चतस्सो परिसा तेसं सद्दं सुत्वा भगवतो आरोचेसुं ‘‘तित्थिया भन्ते इदञ्चिदञ्च कथेन्ती’’ति. तं सुत्वा भगवा – ‘‘मा तुम्हे, भिक्खवे, तित्थियानं वचनेन ‘अञ्ञत्र समणो अत्थी’ति सञ्ञिनो अहुवत्था’’ति वत्वा अञ्ञतित्थियेसु समणभावं पटिसेधेन्तो इधेव च अनुजानन्तो इमिस्सा अत्थुप्पत्तिया इधेव, भिक्खवे, समणोति इदं सुत्तं अभासि.
तत्थ इधेवाति इमस्मिंयेव सासने. अयं पन नियमो सेसपदेसुपि वेदितब्बो. दुतियादयोपि हि समणा इधेव, न अञ्ञत्थ. समणोति सोतापन्नो. तेनेवाह – ‘‘कतमो च, भिक्खवे, पठमो समणो? इध, भिक्खवे, भिक्खु तिण्णं संयोजनानं परिक्खया सोतापन्नो होति अविनिपातधम्मो नियतो सम्बोधिपरायणो, अयं, भिक्खवे, पठमो समणो’’ति (अ. नि. ४.२४१).
दुतियोति सकदागामी. तेनेवाह – ‘‘कतमो च? भिक्खवे, दुतियो समणो. इध, भिक्खवे, भिक्खु तिण्णं संयोजनानं परिक्खया रागदोसमोहानं तनुत्ता सकदागामी होति, सकिदेव इमं लोकं आगन्त्वा दुक्खस्सन्तं करोति. अयं, भिक्खवे, दुतियो समणो’’ति.
ततियोति अनागामी. तेनेवाह – ‘‘कतमो च, भिक्खवे, ततियो समणो? इध, भिक्खवे, भिक्खु पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया ओपपातिको होति तत्थ परिनिब्बायी अनावत्तिधम्मो तस्मा लोका. अयं, भिक्खवे, ततियो समणो’’ति.
चतुत्थोति अरहा. तेनेवाह – ‘‘कतमो च, भिक्खवे, चतुत्थो समणो? इध, भिक्खवे, भिक्खु आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरति. अयं, भिक्खवे, चतुत्थो समणो’’ति (अ. नि. ४.२४१). इति इमस्मिं ठाने चत्तारो फलट्ठकसमणाव अधिप्पेता.
सुञ्ञाति रित्ता तुच्छा. परप्पवादाति चत्तारो सस्सतवादा, चत्तारो एकच्चसस्सतिका, चत्तारो अन्तानन्तिका, चत्तारो अमराविक्खेपिका, द्वे अधिच्चसमुप्पन्निका, सोळस सञ्ञीवादा, अट्ठ असञ्ञीवादा, अट्ठ नेवसञ्ञीनासञ्ञीवादा, सत्त उच्छेदवादा, पञ्च दिट्ठधम्मनिब्बानवादाति इमे सब्बेपि ब्रह्मजाले आगता द्वासट्ठि दिट्ठियो. इतो बाहिरानं परेसं वादा परप्पवादा नाम. ते सब्बेपि इमेहि चतूहि फलट्ठकसमणेहि सुञ्ञा, न हि ते एत्थ सन्ति. न केवलञ्च एतेहेव सुञ्ञा, चतूहि पन मग्गट्ठकसमणेहिपि चतुन्नं मग्गानं अत्थाय आरद्धविपस्सकेहिपीति द्वादसहिपि समणेहि सुञ्ञा एव. इममेव अत्थं सन्धाय भगवता महापरिनिब्बाने वुत्तं –
‘‘एकूनतिंसो वयसा सुभद्द,
यं पब्बजिं किं कुसलानुएसी;
वस्सानि पञ्ञास समाधिकानि,
यतो अहं पब्बजितो सुभद्द;
ञायस्स धम्मस्स पदेसवत्ती,
इतो बहिद्धा समणोपि नत्थि.
‘‘दुतियोपि समणो नत्थि, ततियोपि समणो नत्थि, चतुत्थोपि समणो नत्थि. सुञ्ञा परप्पवादा समणेभि अञ्ञेही’’ति (दी. नि. २.२१४).
एत्थ हि पदेसवत्तीति आरद्धविपस्सको अधिप्पेतो. तस्मा सोतापत्तिमग्गस्स आरद्धविपस्सकं मग्गट्ठं फलट्ठन्ति तयोपि एकतो कत्वा समणोपि नत्थीति आह. सकदागामिमग्गस्स आरद्धविपस्सकं मग्गट्ठं फलट्ठन्ति तयोपि एकतो कत्वा दुतियोपि समणो नत्थीति आह. इतरेसुपि द्वीसु एसेव नयो.
कस्मा पनेते अञ्ञत्थ नत्थीति? अखेत्तताय. यथा हि न आरग्गे सासपो तिट्ठति, न उदकपिट्ठे अग्गि जलति, न पिट्ठिपासाणे बीजानि रुहन्ति, एवमेव बाहिरेसु तित्थायतनेसु न इमे समणा उप्पज्जन्ति, इमस्मिंयेव पन सासने उप्पज्जन्ति. कस्मा? खेत्तताय. तेसं अखेत्तता च खेत्तता च अरियमग्गस्स अभावतो च भावतो च वेदितब्बा. तेनाह भगवा –
‘‘यस्मिं खो, सुभद्द, धम्मविनये अरियो अट्ठङ्गिको मग्गो न उपलब्भति, समणोपि तत्थ न उपलब्भति, दुतियोपि तत्थ समणो न उपलब्भति, ततियोपि तत्थ समणो न उपलब्भति, चतुत्थोपि तत्थ समणो न उपलब्भति. यस्मिञ्च खो, सुभद्द, धम्मविनये अरियो अट्ठङ्गिको मग्गो उपलब्भति, समणोपि तत्थ उपलब्भति, दुतियोपि तत्थ…पे…. चतुत्थोपि तत्थ समणो उपलब्भति. इमस्मिं खो, सुभद्द, धम्मविनये अरियो अट्ठङ्गिको मग्गो उपलब्भति, इधेव, सुभद्द, समणो, इध दुतियो समणो, इध ततियो समणो, इध चतुत्थो समणो, सुञ्ञा परप्पवादा समणेभि अञ्ञेही’’ति (दी. नि. २.२१४).
एवं यस्मा तित्थायतनं अखेत्तं, सासनं खेत्तं, तस्मा यथा सुरत्तहत्थपादो सूरकेसरको सीहो मिगराजा न सुसाने वा सङ्कारकूटे वा पटिवसति, तियोजनसहस्सवित्थतं पन हिमवन्तं अज्झोगाहेत्वा मणिगुहायंयेव पटिवसति. यथा च छद्दन्तो नागराजा न गोचरियहत्थिकुलादीसु नवसु नागकुलेसु उप्पज्जति, छद्दन्तकुलेयेव उप्पज्जति. यथा च वलाहको अस्सराजा न गद्रभकुले वा घोटककुले वा उप्पज्जति, सिन्धुया तीरे पन सिन्धवकुलेयेव उप्पज्जति. यथा च सब्बकामददं मनोहरं मणिरतनं न सङ्कारकूटे वा पंसुपब्बतादीसु वा उप्पज्जति, वेपुल्लपब्बतब्भन्तरेयेव उप्पज्जति. यथा च तिमिरपिङ्गलो मच्छराजा न खुद्दकपोक्खरणीसु उप्पज्जति, चतुरासीतियोजनसहस्सगम्भीरे महासमुद्देयेव उप्पज्जति. यथा च दियड्ढयोजनसतिको सुपण्णराजा न गामद्वारे एरण्डवनादीसु पटिवसति, महासमुद्दं पन अज्झोगाहेत्वा सिम्बलिदहवनेयेव पटिवसति. यथा च धतरट्ठो सुवण्णहंसो न गामद्वारे आवाटकादीसु पटिवसति, नवुतिहंससहस्सपरिवारो हुत्वा चित्तकूटपब्बतेयेव पटिवसति. यथा च चतुद्दीपिस्सरो चक्कवत्तिराजा न नीचकुले उप्पज्जति, असम्भिन्नजातिखत्तियकुलेयेव पन उप्पज्जति. एवमेव इमेसु समणेसु एकसमणोपि न अञ्ञतित्थायतने उप्पज्जति, अरियमग्गपरिक्खित्ते पन बुद्धसासनेयेव उप्पज्जति. तेनाह भगवा ‘‘इधेव, भिक्खवे, समणो…पे… सुञ्ञा परप्पवादा समणेहि समणेभि अञ्ञेही’’ति.
सम्मा सीहनादं नदथाति एत्थ सम्माति हेतुना नयेन कारणेन. सीहनादन्ति सेट्ठनादं अभीतनादं अप्पटिनादं. इमेसञ्हि चतुन्नं समणानं इधेव अत्थिताय अयं नादो सेट्ठनादो नाम होति उत्तमनादो. ‘‘इमे समणा इधेव अत्थी’’ति वदन्तस्स अञ्ञतो भयं वा आसङ्का वा नत्थीति अभीतनादो नाम होति. ‘‘अम्हाकम्पि सासने इमे समणा अत्थी’’ति पूरणादीसु एकस्सापि उट्ठहित्वा वत्तुं असमत्थताय अयं नादो अप्पटिनादो नाम होति. तेन वुत्तं ‘‘सीहनादन्ति सेट्ठनादं अभीतनादं अप्पटिनाद’’न्ति.
१४०. ठानं खो पनेतं विज्जतीति इदं खो पन कारणं विज्जति. यं अञ्ञतित्थियाति येन कारणेन अञ्ञतित्थिया. एत्थ च तित्थं जानितब्बं, तित्थकरो जानितब्बो तित्थिया जानितब्बा, तित्थियसावका जानितब्बा. तित्थंनाम द्वासट्ठि दिट्ठियो. एत्थ हि सत्ता तरन्ति उप्पलवन्ति उम्मुज्जनिमुज्जं करोन्ति, तस्मा तित्थन्ति वुच्चन्ति. तासं दिट्ठीनं उप्पादेता तित्थकरो नाम. तस्स लद्धिं गहेत्वा पब्बजिता तित्थिया नाम. तेसं पच्चयदायका तित्थियसावकाति वेदितब्बा. परिब्बाजकाति गिहिबन्धनं पहाय पब्बज्जूपगता. अस्सासोति अवस्सयो पतिट्ठा उपत्थम्भो. बलन्ति थामो. येन तुम्हेति येन अस्सासेन वा बलेन वा एवं वदेथ.
अत्थि खो नो, आवुसो, तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेनाति एत्थ अयं सङ्खेपत्थो – यो सो भगवा समतिंस पारमियो पूरेत्वा सब्बकिलेसे भञ्जित्वा अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धो, तेन भगवता तेसं तेसं सत्तानं आसयानुसयं जानता, हत्थतले ठपितं आमलकं विय सब्बं ञेय्यधम्मं पस्सता. अपिच पुब्बेनिवासादीहि जानता, दिब्बेन चक्खुना पस्सता. तीहि विज्जाहि छहि वा पन अभिञ्ञाहि जानता, सब्बत्थ अप्पटिहतेन समन्तचक्खुना पस्सता. सब्बधम्मजाननसमत्थाय पञ्ञाय जानता, सब्बसत्तानं चक्खुविसयातीतानि तिरोकुट्टादिगतानि वापि रूपानि अतिविसुद्धेन मंसचक्खुना पस्सता. अत्तहितसाधिकाय समाधिपदट्ठानाय पटिवेधपञ्ञाय जानता, परहितसाधिकाय करुणापदट्ठानाय देसनापञ्ञाय पस्सता. अरीनं हतत्ता पच्चयादीनं अरहत्ता च अरहता, सम्मा सामञ्च सच्चानं बुद्धत्ता सम्मासम्बुद्धेन. अन्तरायिकधम्मे वा जानता, निय्यानिकधम्मे पस्सता. किलेसारीनं हतत्ता अरहता, सम्मा सामं सब्बधम्मानं बुद्धत्ता सम्मासम्बुद्धेनाति, एवं चतुवेसारज्जवसेन चतूहि आकारेहि थोमितेन चत्तारो धम्मा अक्खाता, ये मयं अत्तनि सम्पस्समाना एवं वदेम, न राजराजमहामत्तादीनं उपत्थम्भं कायबलन्ति.
सत्थरि पसादोति ‘‘इतिपि सो भगवा’’तिआदिना नयेन बुद्धगुणे अनुस्सरन्तानं उप्पन्नप्पसादो. धम्मे पसादोति ‘‘स्वाक्खातो भगवता धम्मो’’तिआदिना नयेन धम्मगुणे अनुस्सरन्तानं उप्पन्नप्पसादो. सीलेसु परिपूरकारिताति अरियकन्तेसु सीलेसु परिपूरकारिता. अरियकन्तसीलानि नाम पञ्चसीलानि. तानि हि भवन्तरगतोपि अरियसावको अत्तनो अरियसावकभावं अजानन्तोपि न वीतिक्कमति. सचेपि हि नं कोचि वदेय्य – ‘‘इमं सकलं चक्कवत्तिरज्जं सम्पटिच्छित्वा खुद्दकमक्खिकं जीविता वोरोपेही’’ति, अट्ठानमेतं, यं सो तस्स वचनं करेय्य. एवं अरियानं सीलानि कन्तानि पियानि मनापानि. तानि सन्धाय वुत्तं ‘‘सीलेसु परिपूरकारिता’’ति.
सहधम्मिका खो पनाति भिक्खु भिक्खुनी सिक्खमाना सामणेरो सामणेरी उपासको उपासिकाति एते सत्त सहधम्मचारिनो. एतेसु हि भिक्खु भिक्खूहि सद्धिं सहधम्मं चरति समानसिक्खताय. तथा भिक्खुनी भिक्खुनीहि…पे… उपासिका उपासिकाहि, सोतापन्नो सोतापन्नेहि, सकदागामी…पे… अनागामीहि सहधम्मं चरति. तस्मा सब्बेपेते सहधम्मिकाति वुच्चन्ति. अपिचेत्थ अरियसावकायेव अधिप्पेता. तेसञ्हि भवन्तरेपि मग्गदस्सनम्हि विवादो नत्थि, तस्मा ते अच्चन्तं एकधम्मचारिताय सहधम्मिका. इमिना, ‘‘सुप्पटिपन्नो भगवतो सावकसङ्घो’’तिआदिना नयेन सङ्घं अनुस्सरन्तानं उप्पन्नप्पसादो कथितो. एत्तावता चत्तारि सोतापन्नस्स अङ्गानि कथितानि होन्ति.
इमे खो नो, आवुसोति, आवुसो, इमे चत्तारो धम्मा तेन भगवता अम्हाकं अस्सासो चेव बलञ्चाति अक्खाता, ये मयं अत्तनि सम्पस्समाना एवं वदेम.
१४१. यो अम्हाकं सत्थाति इमिना पूरणकस्सपादिके छ सत्थारो अपदिस्सन्ति. यथा पन इदानि सासने आचरियुपज्झायादीसु ‘‘अम्हाकं आचरियो, अम्हाकं उपज्झायो’’ति गेहसितपेमं होति. एवरूपं पेमं सन्धाय ‘‘सत्थरि पसादो’’ति वदन्ति. थेरो पनाह – ‘‘यस्मा सत्था नाम न एकस्स, न द्विन्नं होति, सदेवकस्स लोकस्स एकोव सत्था, तस्मा तित्थिया ‘अम्हाकं सत्था’ ति एकपदेनेव सत्थारं विसुं कत्वा इमिनाव पदेन विरुद्धा पराजिता’’ति. धम्मे पसादोति इदं पन यथा इदानि सासने ‘‘अम्हाकं दीघनिकायो अम्हाकं मज्झिमनिकायो’’ति ममायन्ति, एवं अत्तनो अत्तनो परियत्तिधम्मे गेहसितपेमं सन्धाय वदन्ति. सीलेसूति अजसीलगोसीलमेण्डकसीलकुक्कुरसीलादीसु. इध नो आवुसोति एत्थ इधाति पसादं सन्धाय वदन्ति. को अधिप्पयासोति को अधिकप्पयोगो. यदिदन्ति यमिदं तुम्हाकञ्चेव अम्हाकञ्च नानाकरणं वदेय्याथ. तं किं नाम? तुम्हाकम्पि हि चतूसु ठानेसु पसादो, अम्हाकम्पि. ननु एतस्मिं पसादे तुम्हे च अम्हे च द्वेधा भिन्नसुवण्णं विय एकसदिसाति वाचाय समधुरा हुत्वा अट्ठंसु.
अथ नेसं तं समधुरतं भिन्दन्तो भगवा एवं वादिनोतिआदिमाह. तत्थ एका निट्ठाति या तस्स पसादस्स परियोसानभूता निट्ठा, किं सा एका, उदाहु पुथूति एवं पुच्छथाति वदति. यस्मा पन तस्मिं तस्मिं समये निट्ठं अपञ्ञपेन्तो नाम नत्थि, ब्राह्मणानञ्हि ब्रह्मलोको निट्ठा, महातापसानं आभस्सरा, परिब्बाजकानं सुभकिण्हा, आजीवकानं ‘‘अनन्तमानसो’’ति एवं परिकप्पितो असञ्ञीभवो. इमस्मिं सासने पन अरहत्तं निट्ठा. सब्बेव चेते अरहत्तमेव निट्ठाति वदन्ति. दिट्ठिवसेन पन ब्रह्मलोकादीनि पञ्ञपेन्ति. तस्मा अत्तनो अत्तनो लद्धिवसेन एकमेव निट्ठं पञ्ञपेन्ति, तं दस्सेतुं भगवा सम्मा ब्याकरमानातिआदिमाह.
इदानि भिक्खूनम्पि एका निट्ठा, तित्थियानम्पि एका निट्ठाति द्वीसु अट्टकारकेसु विय ठितेसु भगवा अनुयोगवत्तं दस्सेन्तो सा पनावुसो, निट्ठा सरागस्स, उदाहु वीतरागस्सातिआदिमाह. तत्थ यस्मा रागरत्तादीनं निट्ठा नाम नत्थि. यदि सिया, सोणसिङ्गालादीनम्पि सियाति इमं दोसं पस्सन्तानं तित्थियानं ‘‘वीतरागस्स आवुसो सा निट्ठा’’तिआदिना नयेन ब्याकरणं दस्सितं.
तत्थ विद्दसुनोति पण्डितस्स. अनुरुद्धपटिविरुद्धस्साति रागेन अनुरुद्धस्स कोधेन पटिविरुद्धस्स. पपञ्चारामस्स पपञ्चरतिनोति एत्थ आरमन्ति एत्थाति आरामो. पपञ्चो आरामो अस्साति पपञ्चारामो. पपञ्चे रति अस्साति पपञ्चरति. पपञ्चोति च मत्तपमत्ताकारभावेन पवत्तानं तण्हादिट्ठिमानानमेतं अधिवचनं. इध पन तण्हादिट्ठियोव अधिप्पेता. सरागस्सातिआदीसु पञ्चसु ठानेसु एकोव किलेसो आगतो. तस्स आकारतो नानत्तं वेदितब्बं. सरागस्साति हि वुत्तट्ठाने पञ्चकामगुणिकरागवसेन गहितो. सतण्हस्साति भवतण्हावसेन. सउपादानस्साति गहणवसेन. अनुरुद्धपटिविरुद्धस्साति युगळवसेन. पपञ्चारामस्साति पपञ्चुप्पत्तिदस्सनवसेन. सरागस्साति वा एत्थ अकुसलमूलवसेन गहितो. सतण्हस्साति एत्थ तण्हापच्चया उपादानदस्सनवसेन. सेसं पुरिमसदिसमेव. थेरो पनाह ‘‘कस्मा एवं विद्धंसेथ? एकोयेव हि अयं लोभो रज्जनवसेन रागोति वुत्तो. तण्हाकरणवसेन तण्हा. गहणट्ठेन उपादानं. युगळवसेन अनुरोधपटिविरोधो. पपञ्चुप्पत्तिदस्सनट्ठेन पपञ्चो’’ति.
१४२. इदानि इमेसं किलेसानं मूलभूतं दिट्ठिवादं दस्सेन्तो द्वेमा, भिक्खवे, दिट्ठियोतिआदिमाह.
तत्थ भवदिट्ठीति सस्सतदिट्ठि. विभवदिट्ठीति उच्छेददिट्ठि. भवदिट्ठिं अल्लीनाति तण्हादिट्ठिवसेन सस्सतदिट्ठिं अल्लीना. उपगताति तण्हादिट्ठिवसेनेव उपगता. अज्झोसिताति तण्हादिट्ठिवसेनेव अनुपविट्ठा. विभवदिट्ठिया ते पटिविरुद्धाति ते सब्बे उच्छेदवादीहि सद्धिं – ‘‘तुम्हे अन्धबाला न जानाथ, सस्सतो अयं लोको, नायं लोको उच्छिज्जती’’ति पटिविरुद्धा निच्चं कलहभण्डनपसुता विहरन्ति. दुतियवारेपि एसेव नयो.
समुदयञ्चातिआदीसु द्वे दिट्ठीनं समुदया खणिकसमुदयो पच्चयसमुदयो च. खणिकसमुदयो दिट्ठीनं निब्बत्ति. पच्चयसमुदयो अट्ठ ठानानि. सेय्यथिदं, खन्धापि दिट्ठिट्ठानं, अविज्जापि, फस्सोपि, सञ्ञापि, वितक्कोपि, अयोनिसोमनसिकारोपि, पापमित्तोपि, परतोघोसोपि दिट्ठिट्ठानं. ‘‘खन्धा हेतु खन्धा पच्चयो दिट्ठीनं उपादाय समुट्ठानट्ठेन. एवं खन्धापि दिट्ठिट्ठानं. अविज्जा… फस्सो… सञ्ञा… वितक्को… अयोनिसोमनसिकारो… पापमित्तो… परतोघोसो हेतु, परतोघोसो पच्चयो दिट्ठीनं उपादाय समुट्ठानट्ठेन. एवं परतोघोसोपि दिट्ठिट्ठानं’’ (पटि. म. १.१२४). अत्थङ्गमापि द्वेयेव खणिकत्थङ्गमो पच्चयत्थङ्गमो च. खणिकत्थङ्गमो नाम खयो वयो भेदो परिभेदो अनिच्चता अन्तरधानं. पच्चयत्थङ्गमो नाम सोतापत्तिमग्गो. सोतापत्तिमग्गो हि दिट्ठिट्ठानसमुग्घातोति वुत्तो.
अस्सादन्ति दिट्ठिमूलकं आनिसंसं. यं सन्धाय वुत्तं – ‘‘यंदिट्ठिको सत्था होति, तंदिट्ठिका सावका होन्ति. यंदिट्ठिका सत्थारं सावका सक्करोन्ति, गरुं करोन्ति, मानेन्ति, पूजेन्ति, लभन्ति ततोनिदानं चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारं. अयं, भिक्खवे, दिट्ठिया दिट्ठधम्मिको आनिसंसो’’ति. आदीनवन्ति दिट्ठिग्गहणमूलकं उपद्दवं. सो वग्गुलिवतं उक्कुटिकप्पधानं कण्टकापस्सयता पञ्चातपतप्पनं सानुपपातपतनं केसमस्सुलुञ्चनं अप्पोणकं झानन्तिआदीनं वसेनं वेदितब्बो. निस्सरणन्ति दिट्ठीनं निस्सरणं नाम निब्बानं. यथाभूतं नप्पजानन्तीति ये एतं सब्बं यथासभावं न जानन्ति. न परिमुच्चन्ति दुक्खस्माति सकलवट्टदुक्खतो न परिमुच्चन्ति. इमिना एतेसं निट्ठा नाम नत्थीति दस्सेति. परिमुच्चन्ति दुक्खस्माति सकलवट्टदुक्खतो परिमुच्चन्ति. इमिना एतेसं निट्ठा नाम अत्थीति द्विन्नं अट्टकारकानं अट्टं छिन्दन्तो विय सासनस्मिंयेव निट्ठाय अत्थितं पतिट्ठपेति.
१४३. इदानि दिट्ठिच्छेदनं दस्सेन्तो चत्तारिमानि, भिक्खवे, उपादानानीतिआदिमाह. तेसं वित्थारकथा विसुद्धिमग्गे वुत्तायेव.
सब्बुपादानपरिञ्ञावादा पटिजानमानाति मयं सब्बेसं उपादानानं परिञ्ञं समतिक्कमं वदामाति एवं पटिजानमाना. न सम्मा सब्बुपादानपरिञ्ञन्ति सब्बेसं उपादानानं समतिक्कमं सम्मा न पञ्ञपेन्ति. केचि कामुपादानमत्तस्स परिञ्ञं पञ्ञपेन्ति. केचि दिट्ठुपादानमत्तस्स पञ्ञपेन्ति, केचि सीलब्बतुपादानस्सापि. अत्तवादुपादानस्स पन परिञ्ञं पञ्ञपेन्तो नाम नत्थि. तेसं पन भेदं दस्सेन्तो कामुपादानस्स परिञ्ञं पञ्ञपेन्तीतिआदिमाह. तत्थ सब्बेपि कामुपादानस्स परिञ्ञं पञ्ञपेन्तियेव, छन्नवुति पासण्डापि हि ‘‘कामा खो पब्बजितेन न सेवितब्बा’’ति वत्थुपटिसेवनं कामं कप्पतीति न पञ्ञपेन्ति, अकप्पियमेव कत्वा पञ्ञपेन्ति. ये पन सेवन्ति, ते थेय्येन सेवन्ति. तेन वुत्तं ‘‘कामुपादानस्स परिञ्ञं पञ्ञपेन्ती’’ति.
यस्मा ‘‘नत्थि दिन्न’’न्तिआदीनि गहेत्वा चरन्ति. ‘‘सीलेन सुद्धि वतेन सुद्धि, भावनाय सुद्धी’’ति गण्हन्ति, अत्तुपलद्धिं न पजहन्ति, तस्मा न दिट्ठुपादानस्स, न सीलब्बतुपादानस्स, न अत्तवादुपादानस्स परिञ्ञं पञ्ञपेन्ति. तं किस्स हेतूति तं अपञ्ञापनं एतेसं किस्स हेतु, किं कारणा? इमानि हि ते भोन्तोति यस्मा ते भोन्तो इमानि तीणि कारणानि यथासभावतो न जानन्तीति अत्थो. ये पनेत्थ द्विन्नं परिञ्ञानं पञ्ञापनकारणं दिट्ठिञ्चेव सीलब्बतञ्च ‘‘एतं पहातब्ब’’न्ति यथासभावतो जानन्ति. ते सन्धाय परतो द्वे वारा वुत्ता. तत्थ ये ‘‘अत्थि दिन्न’’न्तिआदीनि गण्हन्ति, ते दिट्ठुपादानस्स परिञ्ञं पञ्ञपेन्ति. ये पन ‘‘न सीलेन सुद्धि, न वतेन सुद्धि, न भावनाय सुद्धी’’ति गण्हन्ति, ते सीलब्बतुपादानस्स परिञ्ञं पञ्ञपेन्ति. अत्तवादुपादानस्स परिञ्ञं पन एकोपि पञ्ञपेतुं न सक्कोति. अट्ठसमापत्तिलाभिनोपि हि चन्दिमसूरिये पाणिना परिमज्जित्वा चरमानापि च तित्थिया तिस्सो परिञ्ञा पञ्ञपेन्ति. अत्तवादं मुञ्चितुं न सक्कोन्ति. तस्मा पुनप्पुनं वट्टस्मिंयेव पतन्ति. पथविजिगुच्छनससको विय हि एते.
तत्थायं अत्थसल्लापिका उपमा – पथवी किर ससकं आह – ‘‘भो ससका’’ति. ससको आह – ‘‘को एसो’’ति. ‘‘कस्मा ममेव उपरि सब्बइरियापथे कप्पेन्तो उच्चारपस्सावं करोन्तो मं न जानासी’’ति. ‘‘सुट्ठु तया अहं दिट्ठो, मया अक्कन्तट्ठानम्पि अङ्गुलग्गेहि फुट्ठट्ठानं विय होति, विस्सट्ठउदकं अप्पमत्तकं, करीसं कतकफलमत्तं. हत्थिअस्सादीहि पन अक्कन्तट्ठानम्पि महन्तं, पस्सावोपि नेसं घटमत्तो होति, उच्चारोपि पच्छिमत्तो होति, अलं मय्हं तया’’ति उप्पतित्वा अञ्ञस्मिं ठाने पतितो. ततो नं पथवी आह – ‘‘अरे दूरं गतोपि ननु मय्हं उपरियेव पतितोसी’’ति. सो पुन तं जिगुच्छन्तो उप्पतित्वा अञ्ञत्थ पतितो, एवं वस्ससहस्सम्पि उप्पतित्वा पतमानो ससको पथविं मुञ्चितुं न सक्कोति. एवमेवं तित्थिया सब्बूपादानपरिञ्ञं पञ्ञपेन्तोपि कामुपादानादीनं तिण्णंयेव समतिक्कमं पञ्ञपेन्ति. अत्तवादं पन मुञ्चितुं न सक्कोन्ति, असक्कोन्ता पुनप्पुनं वट्टस्मिंयेव पतन्तीति.
एवं यं तित्थिया समतिक्कमितुं न सक्कोन्ति, तस्स वसेन दिट्ठिच्छेदवादं वत्वा इदानि पसादपच्छेदवादं दस्सेन्तो एवरूपे खो, भिक्खवे, धम्मविनयेतिआदिमाह. तत्थ धम्मविनयेति धम्मे चेव विनये च, उभयेनपि अनिय्यानिकसासनं दस्सेति. ‘‘यो सत्थरि पसादो सो न सम्मग्गतो’’ति अनिय्यानिकसासनम्हि हि सत्था कालं कत्वा सीहोपि होति, ब्यग्घोपि होति, दीपिपि अच्छोपि तरच्छोपि. सावका पनस्स मिगापि सूकरापि पसदापि होन्ति, सो ‘‘इमे मय्हं पुब्बे उपट्ठाका पच्चयदायका’’ति खन्तिं वा मेत्तं वा अनुद्दयं वा अकत्वा तेसं उपरि पतित्वा लोहितं पिवति, थूलथूलमंसानिपि खादति. सत्था वा पन बिळारो होति, सावका कुक्कुटा वा मूसिका वा. अथ ने वुत्तनयेनेव अनुकम्पं अकत्वा खादति. अथ वा सत्था निरयपालो होति, सावका नेरयिकसत्ता. सो ‘‘इमे मय्हं पुब्बे उपट्ठाका पच्चयदायका’’ति अनुकम्पं अकत्वा विविधा कम्मकारणा करोति, आदित्तेपि रथे योजेति, अङ्गारपब्बतम्पि आरोपेति, लोहकुम्भियम्पि खिपति, अनेकेहिपि दुक्खधम्मेहि सम्पयोजेति. सावका वा पन कालं कत्वा सीहादयो होन्ति, सत्था मिगादीसु अञ्ञतरो. ते ‘‘इमं मयं पुब्बे चतूहि पच्चयेहि उपट्ठहिम्हा, सत्था नो अय’’न्ति तस्मिं खन्तिं वा मेत्तं वा अनुद्दयं वा अकत्वा वुत्तनयेनेव अनयब्यसनं पापेन्ति. एवं अनिय्यानिकसासने यो सत्थरि पसादो, सो न सम्मग्गतो होति, कञ्चि कालं गन्त्वापि पच्छा विनस्सतियेव.
यो धम्मे पसादोति अनिय्यानिकसासनस्मिञ्हि धम्मे पसादो नाम, उग्गहितपरियापुट – धारितवाचित्तमत्तके तन्तिधम्मे पसादो होति, वट्टमोक्खो पनेत्थ नत्थि. तस्मा यो एत्थ पसादो, सो पुनप्पुनं वट्टमेव गम्भीरं करोतीति सासनस्मिं असम्मग्गतो असभावतो अक्खायति.
या सीलेसु परिपूरकारिताति यापि च अनिय्यानिकसासने अजसीलादीनं वसेन परिपूरकारिता, सापि यस्मा वट्टमोक्खं भवनिस्सरणं न सम्पापेति, सम्पज्जमाना पन तिरच्छानयोनिं आवहति, विपच्चमाना निरयं, तस्मा सा न सम्मग्गता अक्खायति. या सहधम्मिकेसूति अनिय्यानिकसासनस्मिञ्हि ये सहधम्मिका, तेसु यस्मा एकच्चे कालं कत्वा सीहादयोपि होन्ति, एकच्चे मिगादयो, तत्थ सीहादिभूता ‘‘इमे अम्हाकं सहधम्मिका अहेसु’’न्ति मिगादिभूतेसु खन्तिआदीनि अकत्वा पुब्बे वुत्तनयेनेव नेसं महादुक्खं उप्पादेन्ति. तस्मा एत्थ सहधम्मिकेसु पियमनापतापि असम्मग्गता अक्खायति.
इदं पन सब्बम्पि कारणभेदं एकतो कत्वा दस्सेन्तो भगवा तं किस्स हेतु? एवञ्हेतं, भिक्खवे, होतीतिआदिमाह. तत्रायं संखेपत्थो – एवञ्हेतं, भिक्खवे, होति, यं मया वुत्तं ‘‘यो सत्थरि पसादो सो न सम्मग्गतो अक्खायती’’तिआदि, तं एवमेव होति. कस्मा? यस्मा ते पसादादयो दुरक्खाते धम्मविनये …पे… असम्मासम्बुद्धप्पवेदितेति, एत्थ हि यथा तन्ति कारणत्थे निपातो. तत्थ दुरक्खातेति दुक्कथिते, दुक्खथितत्तायेव दुप्पवेदिते. सो पनेस यस्मा मग्गफलत्थाय न निय्याति, तस्मा अनिय्यानिको. रागादीनं उपसमाय असंवत्तनतो अनुपसमसंवत्तनिको. न सम्मासम्बुद्धेन सब्बञ्ञुना पवेदितोति असम्मासम्बुद्धप्पवेदितो. तस्मिं अनिय्यानिके अनुपसमसंवत्तनिके असम्मासम्बुद्धप्पवेदिते. एत्तावता भगवा तित्थियेसु पसादो सुरापीतसिङ्गाले पसादो विय निरत्थकोति दस्सेति.
एको किर काळसिङ्गालो रत्तिं नगरं पविट्ठो सुराजल्लिकं खादित्वा पुन्नागवने निपज्जित्वा निद्दायन्तो सूरियुग्गमने पबुज्झित्वा चिन्तेसि ‘‘इमस्मिं काले न सक्का गन्तुं, बहू अम्हाकं वेरिनो, एकं वञ्चेतुं वट्टती’’ति. सो एकं ब्राह्मणं गच्छन्तं दिस्वा इमं वञ्चेस्सामीति ‘‘अय्य ब्राह्मणा’’ति आह. को एसो ब्राह्मणं पक्कोसतीति. ‘‘अहं, सामी, इतो ताव एहीति. किं भोति? मं बहिगामं नेहि, अहं ते द्वे कहापणसतानि दस्सामीति. सोपि नयिस्सामीति तं पादेसु गण्हि. अरे बाल ब्राह्मण, न मय्हं कहापणा छड्डितका अत्थि, दुल्लभा कहापणा, साधुकं मं गण्हाहीति. कथं भो गण्हामीति? उत्तरासङ्गेन गण्ठिकं कत्वा अंसे लग्गेत्वा गण्हाहीति. ब्राह्मणो तं तथा गहेत्वा दक्खिणद्वारसमीपट्ठानं गन्त्वा एत्थ ओतारेमीति पुच्छि. कतरट्ठानं नाम एतन्ति? महाद्वारं एतन्ति. अरे बाल, ब्राह्मण, किं तव ञातका अन्तरद्वारे कहापणं ठपेन्ति, परतो मं हरा’’ति. सो पुनप्पुनं थोकं थोकं गन्त्वा ‘‘एत्थ ओतारेमि एत्थ ओतारेमी’’ति पुच्छित्वा तेन तज्जितो खेमट्ठानं गन्त्वा तत्थ ओतारेहीति वुत्तो ओतारेत्वा साटकं गण्हि. काळसिङ्गालो आह ‘‘अहं ते द्वे कहापणसतानि दस्सामीति अवोचं. मय्हं पन कहापणा बहू, न द्वे कहापणसतानेव, याव अहं कहापणे आहरामि, ताव त्वं सूरियं ओलोकेन्तो तिट्ठा’’ति वत्वा थोकं गन्त्वा निवत्तेत्वा पुन ब्राह्मणं आह ‘‘अय्य ब्राह्मण मा इतो ओलोकेहि, सूरियमेव ओलोकेन्तो तिट्ठा’’ति. एवञ्च पन वत्वा केतकवनं पविसित्वा यथारुचिं पक्कन्तो. ब्राह्मणस्सपि सूरियं ओलोकेन्तस्सेव नलाटतो चेव कच्छेहि च सेदा मुच्चिंसु. अथ नं रुक्खदेवता आह –
‘‘सद्दहासि सिङ्गालस्स, सुरापीतस्स ब्राह्मण;
सिप्पिकानं सतं नत्थि, कुतो कंससता दुवे’’ति. (जा. १.१.११३);
एवं यथा काळसिङ्गाले पसादो निरत्थको, एवं तित्थियेसुपीति.
१४४. अनिय्यानिकसासने पसादस्स निरत्थकभावं दस्सेत्वा निय्यानिकसासने तस्स सात्थकतं दस्सेतुं तथागतो च खो, भिक्खवेतिआदिमाह. तत्थ कामुपादानस्स परिञ्ञं पञ्ञपेतीति अरहत्तमग्गेन कामुपादानस्स पहानपरिञ्ञं समतिक्कमं पञ्ञपेति, इतरेसं तिण्णं उपादानानं सोतापत्तिमग्गेन परिञ्ञं पञ्ञपेति. एवरूपे खो, भिक्खवे, धम्मविनयेति, भिक्खवे, एवरूपे धम्मे च विनये च. उभयेनपि निय्यानिकसासनं दस्सेति. सत्थरि पसादोति एवरूपे सासने यो सत्थरि पसादो, सो सम्मग्गतो अक्खायति, भवदुक्खनिस्सरणाय संवत्तति.
तत्रिमानि वत्थूनि – भगवा किर वेदियकपब्बते इन्दसालगुहायं पटिवसति. अथेको उलूकसकुणो भगवति गामं पिण्डाय पविसन्ते उपड्ढमग्गं अनुगच्छति, निक्खमन्ते उपड्ढमग्गं पच्चुग्गमनं करोति. सो एकदिवसं सम्मासम्बुद्धं सायन्हसमये भिक्खुसङ्घपरिवुतं निसिन्नं पब्बता ओरुय्ह वन्दित्वा पक्खे पणामेत्वा अञ्जलिं पग्गय्ह सीसं हेट्ठा कत्वा दसबलं नमस्समानो अट्ठासि. भगवा तं ओलोकेत्वा सितं पात्वाकासि. आनन्दत्थेरो ‘‘को नु खो, भन्ते, हेतु को पच्चयो सितस्स पातुकम्माया’’ति पुच्छि. ‘‘पस्सानन्द, इमं उलूकसकुणं, अयं मयि च भिक्खुसङ्घे च चित्तं पसादेत्वा सतसहस्सकप्पे देवेसु च मनुस्सेसु च संसरित्वा सोमनस्सो नाम पच्चेकबुद्धो भविस्सती’’ति आह –
उलूकमण्डलक्खिक, वेदियके चिरदीघवासिक;
सुखितोसि त्वं अय्य कोसिय, कालुट्ठितं पस्ससि बुद्धवरं.
मयि चित्तं पसादेत्वा, भिक्खुसङ्घे अनुत्तरे;
कप्पानं सतसहस्सानि, दुग्गतेसो न गच्छति.
देवलोका चवित्वान, कुसलमूलेन चोदितो;
भविस्सति अनन्तञाणो, सोमनस्सोति विस्सुतोति.
अञ्ञानिपि चेत्थ राजगहनगरे सुमनमालाकारवत्थु महाभेरिवादकवत्थु मोरजिकवत्थु वीणावादकवत्थु सङ्खधमकवत्थूति एवमादीनि वत्थूनि वित्थारेतब्बानि. एवं निय्यानिकसासने सत्थरि पसादो सम्मग्गतो होति.
धम्मे पसादोति निय्यानिकसासनम्हि धम्मे पसादो सम्मग्गतो होति. सरमत्ते निमित्तं गहेत्वा सुणन्तानं तिरच्छानगतानम्पि सम्पत्तिदायको होति, परमत्थे किं पन वत्तब्बं. अयमत्थो मण्डूकदेवपुत्तादीनं वत्थुवसेन वेदितब्बो.
सीलेसु परिपूरकारिताति निय्यानिकसासनम्हि सीलेसु परिपूरकारितापि सम्मग्गता होति, सग्गमोक्खसम्पत्तिं आवहति. तत्थ छत्तमाणवकवत्थुसामणेरवत्थुआदीनि दीपेतब्बानि.
सहधम्मिकेसूति निय्यानिकसासने सहधम्मिकेसु पियमनापतापि सम्मग्गता होति, महासम्पत्तिं आवहति. अयमत्थो विमानपेतवत्थूहि दीपेतब्बो. वुत्तञ्हेतं –
‘‘खीरोदनमहमदासिं, भिक्खुनो पिण्डाय चरन्तस्स…पे…
फाणितं…पे… उच्छुखण्डिकं… तिम्बरुसकं… कक्कारिकं…
एळालुकं… वल्लिपक्कं… फारुसकं… हत्थपताकं…
साकमुट्ठिं … पुप्फकमुट्ठिं… मूलकं… निम्बमुट्ठिं…
अम्बिकञ्जिकं… दोणिनिम्मज्जनिं… कायबन्धनं…
अंसबद्धकं… आयोगपट्टं… विधूपनं… तालवण्टं…
मोरहत्थं… छत्तं… उपाहनं… पूवं मोदकं…
सक्खलिकं अहमदासिं, भिक्खुनो पिण्डाय चरन्तस्स…पे…
तस्सा मे पस्स विमानं, अच्छरा कामवण्णिनीहमस्मी’’ति (वि. व. ४०६).
तं किस्स हेतूतिआदि वुत्तनयानुसारेनेव योजेत्वा वेदितब्बं.
१४५. इदानि येसं उपादानानं तित्थिया न सम्मा परिञ्ञं पञ्ञपेन्ति, तथागतो पञ्ञपेति, तेसं पच्चयं दस्सेतुं इमे च, भिक्खवेतिआदिमाह. तत्थ किंनिदानातिआदीसु निदानादीनि सब्बानेव कारणवेवचनानि. कारणञ्हि यस्मा फलं निदेति हन्द, नं गण्हथाति अप्पेति विय, तस्मा निदानन्ति वुच्चति. यस्मा तं ततो जायति समुदेति पभवति, तस्मा समुदयो, जाति, पभवोति वुच्चति. अयं पनेत्थ पदत्थो – किं निदानं एतेसन्ति किंनिदाना. को समुदयो एतेसन्ति किंसमुदया. का जाति एतेसन्ति किंजातिका. को पभवो एतेसन्ति किंपभवा. यस्मा पन तेसं तण्हा यथावुत्तेन अत्थेन निदानञ्चेव समुदयो च जाति च पभवो च, तस्मा ‘‘तण्हानिदाना’’तिआदिमाह. एवं सब्बपदेसु अत्थो वेदितब्बो. यस्मा पन भगवा न केवलं उपादानस्सेव पच्चयं जानाति, उपादानस्स पच्चयभूताय तण्हायपि, तण्हादिपच्चयानं वेदनादीनम्पि पच्चयं जानातियेव, तस्मा तण्हा चायं, भिक्खवेतिआदिमाह.
यतो च खोति यस्मिं काले. अविज्जा पहीना होतीति वट्टमूलिका अविज्जा अनुप्पादनिरोधेन पहीना होति. विज्जा उप्पन्नाति अरहत्तमग्गविज्जा उप्पन्ना. सो अविज्जाविरागा विज्जुप्पादाति. सो भिक्खु अविज्जाय च पहीनत्ता विज्जाय च उप्पन्नत्ता. नेव कामुपादानं उपादियतीति नेव कामुपादानं गण्हाति न उपेति, न सेसानि उपादानानि. अनुपादियं न परितस्सतीति एवं किञ्चि उपादानं अग्गण्हन्तो तण्हापरितस्सनाय न परितस्सति. अपरितस्सन्ति अपरितस्सन्तो तण्हं अनुप्पादेन्तो. पच्चत्तंयेव परिनिब्बायतीति सयमेव किलेसपरिनिब्बानेन परिनिब्बायति. एवमस्स आसवक्खयं दस्सेत्वा इदानि खीणासवस्स भिक्खुनो पच्चवेक्खणं दस्सेन्तो खीणा जातीतिआदिमाह. तं वुत्तत्थमेवाति.
पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय
चूळसीहनादसुत्तवण्णना निट्ठिता.